Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.130

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.130.1

धृतराष्ट्रस्य पुत्राणामादितः कथितं त्वया ।
ऋषेः प्रसादात्तु शतं न च कन्या प्रकीर्तिता ॥ १.१३०.१ ॥

你从头讲述了持国王的儿子们:蒙仙人之恩,共一百人;但未提及女儿。

1.130.2

वैश्यापुत्रो युयुत्सुश्च कन्या चैका शताधिका ।
गान्धारराजदुहिता शतपुत्रेति चानघ ॥ १.१३०.२ ॥

吠舍之子 Yuyutsu,以及百人之外的一名女儿;乾陀罗王之女被称为有一百子之母,啊,无罪者。

1.130.3

उक्ता महर्षिणा तेन व्यासेनामिततेजसा ।
कथं त्विदानीं भगवन्कन्यां त्वं तु ब्रवीषि मे ॥ १.१३०.३ ॥

那位光辉无量的大仙毗耶娑如此说过;那么,尊者啊,您现在为何对我说起女儿?

1.130.4

यदि भागशतं पेशी कृता तेन महर्षिणा ।
न प्रजास्यति चेद्भूयः सौबलेयी कथंचन ॥ १.१३०.४ ॥

若那位大仙把肉团分成一百份,那么苏跋罗之女还能以任何方式再生育吗?

1.130.5

कथं तु संभवस्तस्या दुःशलाया वदस्व मे ।
यथावदिह विप्रर्षे परं मेऽत्र कुतूहलम् ॥ १.१३०.५ ॥

那么,杜莎拉的出生是如何发生的呢?婆罗门仙人啊,请在此如实告诉我;此事令我十分好奇。

1.130.6

साध्वयं प्रश्न उद्दिष्टः पाण्डवेय ब्रवीमि ते ।
तां मांसपेशीं भगवान्स्वयमेव महातपाः ॥ १.१३०.६ ॥

此问问得好,般度之子啊;我将告诉你,那肉团是如何由大苦行的尊者亲自塑成的。

1.130.7

शीताभिरद्भिरासिच्य भागं भागमकल्पयत् ।
यो यथा कल्पितो भागस्तंत धात्र्या तथा नृप ॥ १.१३०.७ ॥

他以冷水洒之,将每一部分分别安置,大王,如同乳母所安置的那样。

1.130.8

घृतपूर्णेषु कुण्डेषु एकैकं प्राक्षिपत्तदा ।
एतस्मिन्नन्तरे साध्वी गान्धारी सुदृढव्रता ॥ १.१३०.८ ॥

那时,他将每一个放入盛满酥油的瓦罐中。与此同时,贤德的甘陀利,恪守誓愿,

1.130.9

दुहितुः स्नेहसंयोगमनुध्याय वराङ्गना ।
नाब्रवीत्तमृषिं किंचिद्गौरवाच्च यशस्विनी।
मनसा चिन्तयद्देवी एतत्पुत्रशतं मम ॥ १.१३०.९ ॥

甘陀利想到与女儿的亲情,这位卓越而光荣的女子出于敬重,未对那位仙人说什么。这位女神心中想:「这将是我的一百个儿子。」

1.130.10

भविष्यति न संदेहो न ब्रवीत्यन्यथा मुनिः ।
ममेयं परमा तुष्टिर्दुहिता मे भवेद्यदि ॥ १.१३०.१० ॥

必然如此,毫无疑问;仙人不会说别的。若我能有一个女儿,那将是我最大的欣慰。

1.130.11

एका शताधिका बाला भविष्यति कनीयसी ।
ततो दौहित्रजाल्लोकादबाह्योऽसौ पतिर्मम ॥ १.१३०.११ ॥

将会有一个女孩,超过一百之数,是最小的。那时,通过外孙所生的世界,我的这位丈夫不会被排除在外。

1.130.12

अधिका किल नारीणां प्रीतिर्जामातृजा भवेत् ।
यदि नाम ममापि स्याद्दुहितैका शताधिका ॥ १.१३०.१२ ॥

女子的爱意,若出自女婿,确实更为深厚。若我也能有一个女儿,超过一百,

1.130.13

कृतकृत्या भवेयं वै पुत्रदौहित्रसंवृता ।
यदि सत्यं तपस्तप्तं दत्तं वाऽप्यथवा हुतम् ॥ १.१३०.१३ ॥

若我真心修苦行、布施或献祭,我便能功德圆满,被儿子和女儿的儿子们环绕。

1.130.14

गुरवस्तोषिता वापि तथाऽस्तु दुहिता मम ।
एतस्मिन्नेव काले तु कृष्णद्वैपायनः स्वयम् ॥ १.१३०.१४ ॥

若尊长们感到欢喜,愿我的女儿也如此。就在此时,黑仙克利须那·德瓦帕亚那亲自来到。

1.130.15

व्यभजत्स तदा पेशीं भगवानृषिसत्तमः ।
गण्यमानेषु कुण्डेषु शते पूर्णे महात्मना ॥ १.१३०.१५ ॥

那时,这位世尊、仙人中的至尊分割了那团肉块,而这位大士一边清点器皿,直到凑满一百。

1.130.16

अभवच्चापरं खण्डं वामहस्ते तदा किल ।
गणयित्वा शतं पूर्णमंशानामाह सौबलीम् ॥ १.१३०.१६ ॥

于是左手中又出现一块。数完一百份、凑齐之后,他对苏跋拉之女(甘陀利)说道。

1.130.17

पूर्णं पुत्रशतं त्वेतन्न मिथ्या वागुदाहृता ।
दैवयोगाच्च भागैकः परिशिष्टः शतात्परः ॥ १.१३०.१७ ॥

这是百子圆满;我的话并非虚言。由于天命的缘故,在百数之外还剩下一份。

1.130.18

एषा ते सुभगा कन्या भविष्यति यतेप्सिता ।
ततोऽन्यं घृतकुम्भं च समानाय्य महातपाः ॥ १.१३०.१८ ॥

她将成为你所期望的、有福的女儿。随后,这位大苦行者又取来另一个酥油罐,

1.130.19

तं चापि प्राक्षिपत्तत्र कन्याभागं तपोधनः ।
संभूता चैव कालेन सर्वेषां च यवीयसी ॥ १.१३०.१९ ॥

以苦行为财富的仙人又把少女的份额投入其中;她按时而生,是所有人中最小的。

1.130.20

ऐतत्ते कथितं राजन्दुःशलाजन्म भारत ।
ब्रूहि राजेन्द्र किं भूयो वर्तयिष्यामि तेऽनघ ॥ १.१३०.२० ॥

国王啊,婆罗多的后裔啊,杜沙拉的诞生就这样讲给您听了。诸王之主、无罪者啊,请说吧,还要我讲什么呢?