Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 1.134

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

1.134.1

कस्मिन्वयसि संप्राप्ताः पाण्डवा गजसाह्वयम् ।
समपद्यन्त देवेभ्यस्तेषामायुश्च किं परम् ॥ १.१३४.१ ॥

パーンダヴァたちは何歳でガジャサーフヴァヤ(ハスティナープラ)に到着し、神々から与えられた寿命はいくつだったのか?

1.134.2

पाण्डवानामिहायुष्यं शृणु कौरवनन्दन ।
जगाम हास्तिनपुरं षोडशाब्दो युधिष्ठिरः ॥ १.१३४.२ ॥

クルの喜びよ、ここでパーンダヴァたちの寿命の話を聞け。十六歳のとき、ユディシュティラはハスティナープラへ行った。

1.134.3

भीमसेनः पञ्चदशो बीभत्सुर्वै चतुर्दशः ।
त्रयोदशाब्दौ च यमौ जग्मतुर्नागसाह्वयम् ॥ १.१३४.३ ॥

ビーマセーナは十五歳、ビーバトス(アルジュナ)は十四歳、双子のナクラとサハデーヴァは十三歳で、ナーガ(ハスティナープラ)へ行った。

1.134.4

तत्र त्रयोदशाब्दानि धार्तराष्ट्रैः सहोषिताः ।
षण्मासाञ्जातुषगृहान्मुक्ता जातो घटोत्कचः ॥ १.१३४.४ ॥

そこでドリタラーシュトラの息子たちと十三年を過ごした。六か月後、彼らは蝋の館から解放され、ガトートカチャが生まれた。

1.134.5

षण्मासानेकचक्रायां वर्षं पाञ्चालके गृहे ।
धार्तराष्ट्रैः सहोषित्वा पञ्च वर्षाणि भारत ॥ १.१३४.५ ॥

エーカチャクラーで六か月、パーンチャーラ国の家で一年、そしてドリタラーシュトラの息子たちと五年を過ごした、バラタの子孫よ。

1.134.6

इन्द्रप्रस्थे वसन्तस्ते त्रीणि वर्षाणि विंशतिम् ।
द्वादशाब्दानथैकं च बभूवुर्द्यूतनिर्जिताः ॥ १.१३४.६ ॥

インドラプラスタに住んで、三年と二十年を過ごした。その後、賭博に敗れて十二年と一年を過ごした。

1.134.7

भुक्त्वा षट्त्रिंशतं राजन्सागरान्तां वसुन्धराम् ।
मासैः षड्भिर्महात्मानः सर्वे कृष्णपरायणाः ॥ १.१३४.७ ॥

王よ、海に囲まれた大地を三十六年と六か月享受した後、あの偉大な人々はみなクリシュナに帰依していた。

1.134.8

राज्ये परीक्षितं स्थाप्य दिष्टां गतिमवाप्नुवन् ।
एवं युधिष्ठिरस्यासीदायुरष्टोत्तरं शतम् ॥ १.१३४.८ ॥

パリークシットを王国に立てた後、彼らは定められた道に至った。こうしてユディシュティラの寿命は百八年であった。

1.134.9

अर्जुनात्केशवो ज्येष्ठस्त्रिभिर्मासैर्महाद्युतिः ।
कृष्णात्संकर्षणो ज्येष्ठस्त्रिभिर्मासैर्महाबलः ॥ १.१३४.९ ॥

アルジュナより三か月年上のケーシャヴァ(クリシュナ)は大いに輝き、クリシュナより三か月年上のサンカルシャナ(バララーマ)は大いに力強い。

1.134.10

पाण्डुः पञ्चमहातेजास्तान्पश्यन्पर्वते सुतान् ।
रेमे स काश्यपयुतः पत्नीभ्यां सुभृशं तदा ॥ १.१३४.१० ॥

五人の偉大な輝きを持つパーンドゥは、山の上でその息子たちを見守りながら、カーシュヤパと共に、二人の妻とともにこの上なく喜んだ。

1.134.11

सुपुष्पितवने काले प्रवृत्ते मधुमाधवे ।
पूर्णे चतुर्दशे वर्षे फल्गुनस्य च धीमतः ॥ १.१३४.११ ॥

花の咲き誇る森で、マードゥとマーダヴァの春が訪れ、十四年目が満ちたとき、賢者のパールグナ月に。

1.134.12

यस्मिन्नृक्षे समुत्पन्नः पार्थस्तस्य च धीमतः ।
तस्मिन्नुत्तरफल्गुन्यां प्रवृत्ते स्वस्तिवाचने ॥ १.१३४.१२ ॥

パールタ(アルジュナ)とその賢者が生まれた星宿、ウッタラ・パールグニーが巡り来て、吉祥の唱えの時に。

1.134.13

रक्षणे विस्मृता कुन्ती व्यग्रा ब्राह्मणभोजने ।
पुरोहितेन सहितान्ब्राह्मणान्पर्यवेषयत् ॥ १.१३४.१३ ॥

クンティーはバラモンへの供応に気を取られ、守りのことを忘れてしまった。彼女は祭官とともに来たバラモンたちに給仕した。

1.134.14

दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने ।
तान्पश्यन्पर्वते रम्ये स्वबाहुबलमाश्रितः ॥ १.१३४.१४ ॥

その後、パーンドゥは大森林で美しい五人の息子たちを見た。美しい山で彼らを見守りながら、彼は自らの腕力を頼みとしていた。

1.134.15

सुपुष्पितवने काले कदाचिन्मधुमाधवे ।
भूतसंमोहने राजा सभार्यो व्यचरद्वनम् ॥ १.१३४.१५ ॥

ある時、マドゥとマーダヴァの春の月に、花々の咲き誇る森で、あらゆる生き物を魅了する季節に、王は妻と共に森をさまよった。

1.134.16

पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः ।
अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः ॥ १.१३४.१६ ॥

プラーシャ、ティラカ、マンゴー、チャンパカ、パーリバドラカの木々、そして果実と花に富む他の多くの木々で。

1.134.17

जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् ।
पाण्डोर्वनं तत्संप्रेक्ष्य प्रजज्ञे हृदि मन्मथः ॥ १.१३४.१७ ॥

さまざまな水場と蓮の池で飾られたパーンドゥのその森を見ると、彼の心に愛欲が生じた。

1.134.18

प्रहृष्टमनसं तत्र विचरन्तं यथाऽमरम् ।
तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् ॥ १.१३४.१८ ॥

そこで心喜ばしく神のように歩き回る彼の後を、美しい衣をまとったマードリーがただ一人ついていった。

1.134.19

समीक्षमाणः स तु तां वयःस्थां तनुवाससम् ।
तस्य कामः प्रवृते गहनेऽग्निरिवोद्गतः ॥ १.१३४.१९ ॥

若さの盛りにあり、薄衣をまとった彼女を彼は見つめた。深い茂みに燃え上がる火のように、彼の欲望は燃え上がった。

1.134.20

रहस्येकां तु तां दृष्ट्वा राजा राजीवलोचनाम् ।
न शशाक नियन्तुं तं कामं कामवशीकृतः ॥ १.१३४.२० ॥

人里離れた所で一人きりの、蓮の目をした彼女を見て、欲望に支配された王はその渇望を抑えることができなかった。

1.134.21

अथ सोऽष्टादशे वर्षे ऋतौ माद्रमलङ्कृताम् ।
आजुहाव ततः पाण्डुः परीतात्मा यशस्विनीम् ॥ १.१३४.२१ ॥

その後、十八年目の時節に、心を奪われたパーンドゥは、飾り立てた名高いマードリーを呼び寄せた。

1.134.22

तत एनां बलाद्राजा निजग्राह रहोगताम् ।
वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ॥ १.१३४.२२ ॥

すると王は人里離れた所へ行っていた彼女を力ずくで捕らえた。女神は全力で身をよじり、彼を拒み続けた。

1.134.23

स तु कामपरीतात्मा तं शापं नान्वबुध्यत ।
माद्रीं मैथुनधर्मेण सोऽन्वगच्छद्बलादिव ॥ १.१३४.२३ ॥

しかし欲望に心を奪われた王は、その呪いに気づかなかった。彼は交合の作法どおり、まるで力ずくのようにマードリーの後を追った。

1.134.24

जीवितान्ताय कौरव्य मन्मथस्य वशं गतः ।
शापजं भयमुत्सृज्य विधिना संप्रचोदितः ॥ १.१३४.२४ ॥

クルの子孫よ、マンマタ(愛神)の支配下に、彼は自らの命の終わりへと向かった。呪いから生じた恐れを捨て、運命に促されて。

1.134.25

तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता ।
संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ॥ १.१३४.२५ ॥

欲望に支配された彼の知性は、時そのものに惑わされた。感官の群れをかき乱し、知性は心とともに滅び去った。

1.134.26

स तया सह संगम्य भार्यया कुरुनन्दनः ।
पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ॥ १.१३४.२६ ॥

その妻と交わったクルの喜び、最高に正しい心のパーンドゥは、時の法にくびきを掛けられた。

1.134.27

ततो माद्री समालिङ्ग्य राजानं गतचेतसम् ।
मुमोच दुःखजं शब्दं पुनः पुनरतीव हि ॥ १.१३४.२७ ॥

するとマードリーは意識を失った王を抱きしめ、悲しみから生じた叫びを幾度も、ひどく上げた。

1.134.28

सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ ।
आजग्मुः सहितास्तत्र यत्र राजा तथागतः ॥ १.१३४.२८ ॥

そこでクンティーは息子たちとともに、マードリーの二人の息子パーンダヴァたちも一緒に、王がそのように倒れている所へ来た。

1.134.29

ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः ।
एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः ॥ १.१३४.२९ ॥

すると王よ、苦しむマードリーはクンティーにこう言った。「あなただけこちらへ来て。子供たちはここにいさせなさい。」

1.134.30

तच्छ्रुत्वा वचनं तस्यास्तत्रैवाधाय दरकान् ।
हता।हमिति विक्रुश्च सहसैवाजगाम सा ॥ १.१३४.३० ॥

彼女の言葉を聞くと、子供たちをそこに残し、「私は滅びた」と叫びながら、彼女はすぐにやって来た。

1.134.31

दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले ।
कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ॥ १.१३४.३१ ॥

大地に横たわるパーンドゥとマードリーを見て、悲しみに体の力を失ったクンティーは深く嘆き悲しんだ。

1.134.32

रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् ।
कथं त्वामत्यतिक्रान्तः शापं जानन्वनौकसः ॥ १.१३४.३२ ॥

常に私が守り、常に自制していた英雄が、森に住む者たちの呪いを知りながら、どうしてあなたを踏み越えてしまったのか。

1.134.33

ननु नाम त्वया माद्रि रक्षितव्यो नराधिपः ।
सा कथं लोभितवती विजने त्वं नराधिपम् ॥ १.१३४.३३ ॥

マードリーよ、あなたこそ人主を守るべきだったのに、人里離れた場所でどうしてその人主を誘惑したのか。

1.134.34

कथं दीनस्य सततं त्वामासाद्य रहोगताम् ।
तं विचिन्तयतः शापं प्रहर्षः समजायत ॥ १.१३४.३४ ॥

哀れなあの人は、いつも人里離れた場所であなたのもとに来ていたのに、呪いを思い浮かべながら、どうして喜びが生じたのか。

1.134.35

धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा ।
दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः ॥ १.१३४.३५ ॥

バーフリーキーよ、あなたは私よりも幸運だ。喜びに満ちた大地の主の顔を見たのだから。

1.134.36

विलपन्त्या मया देवि वार्यमाणेन चासकृत् ।
आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा ॥ १.१३४.३६ ॥

女神よ、私が嘆き、幾度も止められたのに、彼は自らを抑えなかった。まことに運命を成し遂げようと望んで、そうしたのだ。

1.134.37

तस्यास्तद्वचनं श्रुत्वा कुन्ती शोकाग्निदीपिता ।
पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥ १.१३४.३७ ॥

その言葉を聞いたクンティーは、悲しみの炎に燃え立ち、根を断たれた木のように突然地に倒れた。

1.134.38

निश्चेष्टा पतिता भूमौ मोहेन न चचाल सा ।
तस्मिन्क्षणे कृतस्नानमहताम्बरसंवृतम् ॥ १.१३४.३८ ॥

地に身動きもせず倒れた彼女は、気を失ったまま少しも動かなかった。その時、彼(パーンドゥ)は沐浴を終え、新しい衣を身にまとっていた。

1.134.39

अलङ्कारकृतं पाण्डुं शयानं शयने शुभे ।
कुन्तीमुत्थाप्य माद्री तु मोहेनाविष्टचेतनाम् ॥ १.१३४.३९ ॥

美しい寝台に飾られて横たわるパーンドゥを見て、マードリーは気を失い意識を失ったクンティーを抱き起こした。

1.134.40

आर्ये एहीति तां कुन्तीं दर्शयामास कौरव ।
पादयोः पतिता कुन्ती पुनरुत्थाय भूमिपम् ॥ १.१३४.४० ॥

「尊い方よ、おいでなさい」と言って、マードリーはクンティーに(パーンドゥを)見せた、カウラヴァよ。足元に倒れたクンティーは再び立ち上がり、王のもとへ行った。

1.134.41

रक्तचन्दनदिग्धांङ्गं महारजनवाससम् ।
सस्मितेन च वक्त्रेण वदन्तमिव भारतम् ॥ १.१३४.४१ ॥

赤い白檀を体に塗り、深紅の衣をまとい、微笑む顔で今にも語りかけるかのようなバラタ(パーンドゥ)。

1.134.42

परिरभ्य ततो मोहाद्विललापाकुलेन्द्रिया ।
माद्री चापि समालिङ्ग्य राजानं विललाप सा ॥ १.१३४.४२ ॥

やがて気を失ったまま感覚の乱れたクンティーは彼を抱きしめて嘆いた。マードリーも王を抱きしめて嘆いた。

1.134.43

तं तथा शायिनं पुत्रा ऋषयः सह चारणैः ।
अभ्येत्य सहिताः सर्वे शोकादश्रूण्यवर्तयन् ॥ १.१३४.४३ ॥

そのように横たわる彼を見て、息子たちや聖者たちはチャーラナたちとともに皆集まり、悲しみに涙を流した。

1.134.44

अस्तं गतमिवादित्यं संशुष्कमिव सागरम् ।
दृष्ट्वा पाण्डुं नरव्याघ्रं शोचन्ति स्म महर्षयः ॥ १.१३४.४४ ॥

沈んだ太陽や干上がった海のような、人中の虎パーンドゥを見て、大仙たちは嘆いた。

1.134.45

समानशोका ऋषयः पाण्डवाश्च बभूविरे ।
ते समाश्वासिते विप्रैर्विलेपतुरनिन्दिते ॥ १.१३४.४५ ॥

聖者たちとパーンダヴァたちは等しく悲しんだ。バラモンに慰められても、その二人の無垢な女性は嘆き続けた。

1.134.46

हा राजन्कस्य नो हित्वा गच्छसि त्रिदशालयम् ।
हा राजन्मम मन्दायाः कथं माद्रीं समेत्य वै ॥ १.१३४.४६ ॥

ああ、王よ!私たちを捨てて神々の住処へ行くのですか。ああ、王よ、不幸な私のために、マードリーに会って、どうして…

1.134.47

निधनं प्राप्तवान्राजन्मद्भाग्यपरिसंक्षयात् ।
युधिष्ठिरं भीमसेनमर्जुनं च यमावुभौ ॥ १.१३४.४७ ॥

王よ、私の運命が完全に崩れたために、あなたは死を迎えた。ユディシュティラ、ビーマセーナ、アルジュナ、そして双子の二人よ。

1.134.48

कस्य हित्वा प्रियान्पुत्रान्प्रयातोऽसि विशांपते ।
नूनं त्वां त्रिदशा देवाः प्रतिनन्दन्ति भारत ॥ १.१३४.४८ ॥

人の主よ、愛する息子たちを捨てて、あなたは誰のもとへ行ったのですか。バラタよ、きっと神々があなたを歓迎しているでしょう。

1.134.49

यतो हि तप उग्रं वै चरितं ब्रह्मसंसदि ।
आवाभ्यां सहितो राजन्गमिष्यसि दिवं शुभम् ॥ १.१३४.४९ ॥

ブラフマーの集会で厳しい苦行が行われたからです。王よ、私たち二人と共に、あなたは吉祥の天界へ行くでしょう。

1.134.50

आजमीढाजमीढानां कर्मणा चरतां गतिम् ।
ननु नाम सहावाभ्यां गमिष्यामीति यत्त्वया ॥ १.१३४.५० ॥

アジャミーダの末裔よ、行為によって修行する者の境地は必ず得られる。「私たち二人と共に私も行こう」とあなたが誓ったではないか。

1.134.51

प्रतिज्ञाता कुरुश्रेष्ठ यदाऽस्मि वनमागता ।
आवाभ्यां चैव सहितो गमिष्यसि विशांपते।
मुहूर्तं क्षम्यतां राजन्द्रक्ष्येऽहं च मुखं तव ॥ १.१३४.५१ ॥

クルの最良の者よ、私が森に来たとき、あなたは私たち二人と共に行くと約束した。人民の主よ、王よ、しばし待ってください。あなたの顔を見させてください。

1.134.52

विलपित्वा भृशं चैव निःसंज्ञे पतिते भुवि ।
यथा हते मृगे मृग्यौ लुब्धैर्वनगते तथा ॥ १.१३४.५२ ॥

深く嘆き悲しんで、二人とも意識を失い地に倒れた。森で猟師に射られた一対の鹿が倒れるように。

1.134.53

युधिष्ठिरमुखाः सर्वे पाण्डवा वेदपरागाः ।
तेऽभ्यागत्य पितुर्मूले निःसंज्ञाः पतिता भुवि ॥ १.१३४.५३ ॥

ユディシュティラを先頭とする全てのパーンドゥの子らは、ヴェーダに通じていたが、父のもとに来ると意識を失って地に倒れた。

1.134.54

पाण्डोः पादौ परिष्वज्य विलपन्ति स्म पाण्डवाः ।
हा विनष्टाः स्म तातेति हा अनाथा भवामहे ॥ १.१३४.५४ ॥

パーンドゥの足を抱きしめて、パーンダヴァたちは嘆いた。「ああ、父よ、我らは滅びた! ああ、我らは孤児となった!」

1.134.55

त्वद्विहीना महाप्राज्ञ कथं जीवाम बालकाः ।
लोकनाथस्य पुत्राः स्मो न सनाथा भवामहे ॥ १.१३४.५५ ॥

偉大な知恵の人よ、あなたを失って、幼い私たちはどう生きればよいのか。世界の主の子でありながら、私たちには庇護者がない。

1.134.56

क्षणेनैव महाराज अहो लोकस्य चित्रता ।
नास्मद्विधा राजपुत्रा अधन्याः सन्ति भारत ॥ १.१३४.५६ ॥

偉大な王よ、一瞬にして世界はなんと不可思議なことか。バーラタよ、私たちのような王子たちも不運になってしまった。

1.134.57

त्वद्विनाशाच्च राजेन्द्र राज्यप्रस्खलनात्तदा ।
पाण्डवाश्च वयं सर्वे प्राप्ताः स्म व्यसनं महत् ॥ १.१३४.५७ ॥

王中の王よ、あなたの滅亡により、そして王国が失われたことにより、私たちパーンドゥの子らは皆、大きな災厄に陥った。

1.134.58

किं करिष्यामहे राजन्कर्तव्यं च प्रसीदताम् ।
हित्वा राज्यं च भोगांश्च शतशृङ्गनिवासिना ॥ १.१३४.५८ ॥

王よ、私たちはどうすればよいのか。王国と快楽を捨て、シャタシュリンガに住む方と共に、私たちの務めを教えてください。

1.134.59

त्वया लब्धाः स्म राजेन्द्र महता तपसा वयम् ।
हित्वा मानं वनं गत्वा स्वयमाहृत्य भक्षणम् ॥ १.१३४.५९ ॥

王中の王よ、私たちはあなたの大いなる苦行によって得られたのだ。名誉を捨て、森へ行って自ら食べ物を集めねばならない。

1.134.60

शाकमूलफलैर्वन्यैर्भरणं वै त्वया कृतम् ।
पुत्रानुत्पाद्य पितरो यमिच्छ्ति महातम्नः ॥ १.१३४.६० ॥

野菜、根、果実、森の産物によって、あなたは確かに私たちを養ってくださった。父は息子を生んだ後に望むもの——偉大な魂よ……

1.134.61

त्रिवर्गफलमिच्छन्तस्तस्य कालोऽयमागतः ।
अभुक्त्वैव फलं राजन्गन्तुं नार्हसि भारत ॥ १.१३४.६१ ॥

三つの目的の果実を望む者にとって、その時が来た。王よ、バラタの子孫よ、果実を味わわずに去るべきではない。

1.134.62

इत्येवमुक्त्वा पितरं भीमोऽपि विललाप ॥ १.१३४.६२ ॥

父にこのように語ると、ビーマもまた嘆き悲しんだ。

1.134.63

प्रनष्टं भारतं वंशं पाण्डुना पुनरुद्धृतम् ।
तस्मिंस्तदा वनगते नष्टं राज्यमराजकम् ॥ १.१३४.६३ ॥

バラタの家系は滅びていたが、パーンドゥが再びそれを興した。彼が森へ行くと、王を失った王国は滅んでしまった。

1.134.64

पुनर्निःसारितं क्षत्रं पाण्डुपुत्रैश्च पञ्चभिः ।
एतच्छ्रुत्वाऽनुमोदित्वा गन्तुमर्हसि शङ्कर ॥ १.१३४.६४ ॥

パーンドゥの五人の息子によって、クシャトリヤは再び追放された。これを聞いて同意し、シャンカラよ、あなたは去るべきである。

1.134.65

इत्येवमुक्त्वा पितरं विललाप धनञ्जयः ।
दुःसहं च तपः कृत्वा लब्ध्वा नो भरतर्षभ ॥ १.१३४.६५ ॥

父にこのように語ると、ダナンジャヤは嘆き悲しんだ。耐え難い苦行を行って我々を得たのだ、バラタの雄牛よ。

1.134.66

पुत्रलाभस्य महतः शुश्रूषादिफलं त्वया ।
न चावाप्तं किंचिदेव पुरा दशरथो यथा ॥ १.१३४.६६ ॥

大いなる子の授かりによる奉仕などの果実を、あなたは何も得ていない。かつてダシャラタが得られなかったように。

1.134.67

एवमुक्त्वा यमौ चापि विलेपतुरथातुरौ ॥ १.१३४.६७ ॥

このように言って、悲嘆にくれた双子もまた嘆き悲しんだ。

1.134.68

अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम ।
अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय ॥ १.१३४.६८ ॥

私は長子の正妻であり、法の果報は長子のものです。マードリーよ、必ず起こることから私を引き留めないでください。

1.134.69

अन्विष्यामीह भर्तारमहं प्रेतवशं गतम् ।
उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् ॥ १.१३४.६९ ॥

死の支配に落ちた夫を、私はここで探しましょう。あなたは立ち上がり、この方を離れて、子らを守りなさい。

1.134.70

अवाप्य पुत्रांल्लब्धार्थान्वीरपत्नीत्वमर्थये ।
मद्रराजसुता कुन्तीमिदं वचनमब्रवीत् ॥ १.१३४.७० ॥

息子たちを得て目的を果たした今、私は英雄の妻としての境遇を望みます。マドラ王の娘は、クンティにこの言葉を語った。

1.134.71

अहमेवानुयास्यामि भर्तारमपलापिनम् ।
न हि तृप्ताऽस्मि कामानां ज्येष्ठा मामनुमन्यताम् ॥ १.१३४.७१ ॥

去られた夫の後を、私こそが追いましょう。私は欲望に満足していません。姉上、どうか私に同意してください。

1.134.72

मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः ।
समुच्छिद्यामि तत्कामं कथं नु यमसादने ॥ १.१३४.७२ ॥

私のもとに来て、欲望に衰えたこのバラタの最良の人よ。その欲望を、ヤマの館でどうして満たしましょうか。

1.134.73

मम हतोर्हि राजाऽयं दिवं राजर्पिसत्तमः ।
न चैव तादृशी बुद्धिर्बान्धवाश्च न तादृशाः ॥ १.१३४.७३ ॥

夫が殺されたため、王仙の中で最も優れたこの王は天に去ってしまった。そのような思慮もなく、そのような親族もない。

1.134.74

न चोत्सहे धारयितुं प्राणान्भर्त्रा विना कृता ।
तस्मात्तमनुयास्यामि यान्तं वैवस्वतक्षयम् ॥ १.१३४.७४ ॥

夫を失った私は命を保つことができない。ゆえに、ヴィヴァスヴァット・ヤマの住処へ行く夫に従おう。

1.134.75

वर्तेयं न समां वृत्तिं जात्वहं न सुतेषु ते ।
तथाहि वर्तमानां मामधर्मः संस्पृशेन्महान् ॥ १.१३४.७५ ॥

あなたの息子たちに対して、私は決して同等の振る舞いで生きることはない。そのように振る舞い続ければ、大きな非法が私に触れるだろう。

1.134.76

तस्मान्मे सुतयोर्देवि वर्तितव्यं स्वपुत्रवत् ।
अन्वेष्यामि च भर्तारं व्रजन्तं यमसादनम् ॥ १.१३४.७६ ॥

ゆえに、王妃よ、あなたは私の二人の息子を自分の息子と同じように扱うべきである。そして私は、ヤマの住処へ行く夫を探し求めて従おう。

1.134.77

मां हि कामयमानोऽयं राजा प्रेतवशं गतः ।
राज्ञः शरीरेण सह मामपीदं कलेवरम् ॥ १.१३४.७७ ॥

この王は私を求めながら死者の支配下に入った。王の身体とともに、この私の身体もまた。

1.134.78

दग्धव्यं सुप्रतिच्छन्नं त्वेतदार्ये प्रियं कुरु ।
दारकेष्वप्रमत्ता त्वं भवेश्चाभिहिता मया।
अतोऽहं न प्रपश्यामि संदेष्टव्यं हितं तव ॥ १.१३४.७८ ॥

この身体は人目につかぬよう隠して焼かねばならない。高貴な女性よ、あなたの望むことをせよ。子供たちに気を配り、私が言ったことを心に留めよ。ゆえに、あなたに与えるべき有益な助言は見当たらない。

1.134.79

ऋषयस्तान्समाश्वास्य पाण्डवान्सत्यविक्रमान् ।
ऊचुः कुन्तीं च माद्रीं च समाश्वास्य तपस्विनः ॥ १.१३४.७९ ॥

真の勇者であるパーンドゥの子らを慰めた後、苦行の聖仙たちはクンティーとマードリーにも慰めを与えて語った。

1.134.80

सुभगे बालपुत्रा तु न मर्तव्यं तथंचन ।
पाण्डवांश्चापि नेष्यामः कुरुराष्ट्रं परन्तपान् ॥ १.१३४.८० ॥

幸いなる女よ、幼子を持つ者よ、決して死んではならない。敵を焼き尽くすパーンドゥの子らをもクル国へ連れて行こう。

1.134.81

अधर्मेष्वर्थजातेषु धृतराष्ट्रश्च लोभवान् ।
स कदाचिन्न वर्तेत पाण्डवेषु यथाविधि ॥ १.१३४.८१ ॥

不正な富の獲得に貪欲なドリタラーシュトラは、パーンドゥの子らに対して規定どおりに振る舞うことは決してないであろう。

1.134.82

कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च ।
माद्र्याश्च बलिनांश्रेष्ठः शल्यो भ्राता महारथः ॥ १.१३४.८२ ॥

クンティーの庇護者はヴリシュニ族であり、クンティボージャも同様である。マードリーについては、強者の中で最も優れた大戦車兵である兄のシャリヤが庇護者である。

1.134.83

भर्त्रा तु मरणं सार्धं फलवन्नात्र संशयः ।
युवाभ्यां दुष्करं चैतद्वदन्ति द्विजपुङ्गवाः ॥ १.१३४.८३ ॥

夫と共に死ぬことは確かに実りがある、疑いはない。しかし最上のドヴィジャたちは、それはお前たち二人にとって難しいことだと言う。

1.134.84

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रते स्थिता ।
यमैश्च नियमैः पूता मनोवाक्कायजैः शुभा ॥ १.१३४.८४ ॥

夫が死んだならば、貞淑な女は梵行の誓いに堅く留まるべきである。自制と戒律によって清められ、意と言葉と身体から生じる清浄によって吉祥となって。

1.134.85

भर्तारं चिन्तयन्ती सा भर्तारं निस्तरेच्छुभा ।
तारितश्चापि भर्ता स्यादात्मा पुत्रस्तथैव च ॥ १.१३४.८५ ॥

夫を思い続けるその吉祥の女性が夫を渡らせるべきである。こうして夫は救われ、自己も、息子も同様に救われる。

1.134.86

तस्माञ्जीवितमेवैतद्युवयोर्विद्म शोभनम् ॥ १.१३४.८६ ॥

ゆえに、この生こそ二人にとって善いものだと私たちは知っている。

1.134.87

यथा पाण्डोस्तु निर्देशस्तथा विप्रगणस्य च ।
आज्ञा शिरसि निक्षिप्ता करिष्यामि च तत्तथा ॥ १.१३४.८७ ॥

パーンドゥの命令があるように、バラモンの集団の命令もまたそうである。私はその命を頭に戴き、そのとおりにしよう。

1.134.88

यदाद्दुर्भगवन्तोऽपि तन्मन्ये शोभनं परम् ।
भर्तुश्च मम पुत्राणामात्मनश्च न संशयः ॥ १.१३४.८८ ॥

あなたが言ったこと、不幸な方よ、それを私は最上の吉祥と思う。夫にも、私の息子たちにも、私自身にも益があることは疑いない。

1.134.89

कुन्ती समर्था पुत्राणां योगक्षेमस्य धारणे ।
अस्या हि न समा बुद्ध्या यद्यपि स्यादरुन्धती ॥ १.१३४.८९ ॥

クンティーは息子たちの幸福と守護を担う力がある。たとえアルンダティーであっても、知恵において彼女に並ぶ者はいない。

1.134.90

कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च ।
नाहं त्वमिव पुत्राणां समर्था धारणे तथा ॥ १.१३४.९० ॥

クンティーの庇護者はヴリシュニ族であり、同じくクンティボージャもいる。私はあなたのように息子たちを支えることはできない。

1.134.91

साऽहं भर्तारमन्विष्ये संतृप्ता नापि भोगतः ।
भर्तृलोकस्य तु ज्येष्ठा देवी मामनुमन्यताम् ॥ १.१३४.९१ ॥

私は夫を探しに行きます。享楽に満ち足りたからではありません。夫の世界の長女たる女神よ、どうか私をお許しください。

1.134.92

धर्मज्ञस्य कृतज्ञस्य सत्यसन्धस्य धीमतः ।
पादौ परिचरिष्यामि तथार्याऽद्यानुमन्यताम् ॥ १.१३४.९२ ॥

法を知り、恩を忘れず、誓いを守る賢明な夫の足に仕えましょう。尊き方よ、今どうか許してください。

1.134.93

एवमुक्त्वा तदा राजन्मद्रराजसुता शुभा ।
ददौ कुन्त्यै यमौ माद्री शिरसाऽभिप्रणम्य च ॥ १.१३४.९३ ॥

王よ、そう言うと、マドラ王の吉祥なる娘マードリーは頭を垂れ、双子をクンティーに託した。

1.134.94

अभिवाद्य महर्षीन्सा परिष्वज्य च पाण्डवान् ।
मूर्ध्न्युपाघ्राय बहुशः पार्थानात्मसुतौ तदा ॥ १.१३४.९४ ॥

彼女は大仙たちに礼拝し、パーンダヴァを抱きしめ、プリター の息子たちと自分の息子たちの頭に幾度も口づけした。

1.134.95

हस्ते युधिष्ठिरं गृह्य माद्री वाक्यमभाषत ।
कुन्ती माता अहं धात्री युष्माकं तु पिता मृतः ॥ १.१३४.९५ ॥

マードリーはユディシュティラの手を取って言った。「クンティーがあなたがたの母です。私は乳母です。そしてあなたがたの父はもう亡くなりました。」

1.134.96

युधिष्ठिरः पिता ज्येष्ठश्चतुर्णां धर्मतः सदा ।
वृद्धाद्युपासनासक्ताः सत्यधर्मपरायणाः ॥ १.१३४.९६ ॥

法に従えば、ユディシュティラは四人の中で最年長であり、常に父のようである。年長者への奉仕に専念し、真理と法に徹している。

1.134.97

तादृशा न विनश्यन्ति नैव यान्ति पराभवम् ।
तस्मात्सर्वे कुरुध्वं वै गुरुवृत्तिमतन्द्रिताः ॥ १.१३४.९७ ॥

そのような人々は滅びることも、敗北に陥ることもない。ゆえに汝ら皆、怠ることなく尊長に対する務めを行え。

1.134.98

ऋषीणां च पृथायाश्च नमस्कृत्य पुनःपुनः ।
आयासकृपणा माद्री प्रत्युवाच पृथां तदा ॥ १.१३४.९८ ॥

幾度も聖仙たちとプリター(クンティー)に礼拝した後、苦悩にやつれたマードリーは、そのときプリターに答えた。

1.134.99

ऋषीणां संनिधावेषां यथा वागभ्युदीरिता ।
दिदृक्षमाणायाः स्वर्गं न ममैषा वृथा भवेत् ॥ १.१३४.९९ ॥

これらの聖仙たちの前で語られたこの言葉が、天界を見たいと願う私にとって無駄になりませんように。

1.134.100

धन्या त्वमसि वार्ष्णेयि नास्ति स्त्री सदृशी त्वया ।
वीर्यं तेजश्च योगं च माहात्म्यं च यशस्विनाम् ॥ १.१३४.१०० ॥

ああ、ヴリシュニの娘よ、あなたは幸いです。あなたに並ぶ女性はいません。名高い人々の勇気、輝き、神通力、威光があなたにはあるのです。

1.134.101

कुन्ति द्रक्ष्यसि पुत्राणां पञ्चानाममितौजसाम् ।
आर्या चाप्यभिवाद्या च मम पूज्या च सर्वतः ॥ १.१३४.१०१ ॥

クンティーよ、あなたは計り知れぬ威力をもつ五人の息子たちを見るでしょう。あなたは高貴な方で、礼拝されるにふさわしく、私にとってあらゆる面で敬うべき方です。

1.134.102

ज्येष्ठा वरिष्ठा त्वं देवि भूषिता स्वगुणैः शुभैः ।
अभ्यनुज्ञातुमिच्छामि त्वया यावनन्दिनि ॥ १.१३४.१०२ ॥

女神よ、あなたは年長で最も優れており、その吉祥な徳によって飾られています。ナンディニーよ、私はあなたの許しを得たいと思います。

1.134.103

धर्मं स्वर्गं च कीर्तिं च त्वत्कृतेऽहमवाप्नुयाम् ।
यथा तथा विधत्स्वेह मा च कार्षीर्विचारणां ॥ १.१३४.१०३ ॥

あなたのために、私は法・天界・名声を得ますように。どのようにでも、ここで取り計らいなさい。迷ってはならない。

1.134.104

बाष्पसंदिग्धया वाचा कुन्त्युवाच यशस्विनी ।
अनुज्ञाताऽसि कल्याणि त्रिदिवे सङ्गमोऽस्तु ते ॥ १.१३४.१०४ ॥

涙に声を詰まらせて、名高いクンティーは言った。「吉祥なる者よ、あなたは許された。天界で再会せんことを。」

1.134.105

भर्त्रा सह विशालिक्षि क्षिप्रमद्यैव भामिनि ।
संगतास्वर्गलोके त्वं रमेथाः शाश्वतीः समाः ॥ १.१३४.१०५ ॥

広い目の女性よ、今日すぐに夫と結ばれ、天界で永遠の歳月を楽しみなさい。

1.134.106

ततः पुरोहितः स्नात्वा प्रेतकर्मणि पारगः ।
हिरण्यशकलानाज्यं तिलं दधि च तण्डुलान् ॥ १.१३४.१०६ ॥

そののち、家の司祭は沐浴し、葬儀の儀式に精通して、金片、澄ましバター、胡麻、凝乳、米粒を(持ってこさせた)。

1.134.107

उदकुम्भांश्च परशुं समानीय तपस्विभिः ।
अश्वमेधाग्निमाहृत्य यथान्यायं समन्ततः ॥ १.१३४.१०७ ॥

苦行者たちは水瓶と斧を持ってきて、馬祀祭の火を運び、規定どおり四方に(すべてを整えた)。

1.134.108

काश्यपः कारयामास पाण्डोः प्रेतस्य तां क्रियाम् ।
पुरोहितोक्तविधिना पाण्डोः पुत्रो युधिष्ठिरः ॥ १.१३४.१०८ ॥

カーシャパは死者パーンドゥのためにその儀式を行わせた。司祭の定めた方式に従い、パーンドゥの子ユディシュティラも(それに加わった)。

1.134.109

तेनाग्निनाऽदहत्पाण्डुं कृत्वा चापि क्रियास्तदा ।
रुदञ्छोकाभिसंतप्तः पपात भुवि पाण्डवः ॥ १.१३४.१०९ ॥

彼はその火でパーンドゥを荼毘に付し、その後ほかの儀式も行った。悲しみに打ちひしがれ泣きながら、そのパーンダヴァは地に倒れた。

1.134.110

ऋषीन्पुत्रान्पृथां चैव विसृज्य च नृपात्मज ।
नमस्कृत्य चिताग्निस्थं धर्मपत्नी नरर्षभम् ॥ १.१३४.११० ॥

王子よ、聖仙たちと息子たち、そしてプリターを送り出し、火葬の火の中に立つ人中の雄牛に礼拝した、正妻(ダルマ妻)である。

1.134.111

मद्रराजसुता तूर्णमन्वारोहद्यशस्विनी ॥ १.१३४.१११ ॥

マドラ王の娘、栄光ある彼女は、速やかに(薪の上へ)彼の後に登った。

1.134.112

अहताम्बरसंवीतो भ्रातृभिः सहितोऽनघः ।
उदकं कृतवांस्तत्र पुरोहितमते स्थितः ॥ १.१३४.११२ ॥

新しい衣をまとい、兄弟たちとともに、無垢なる彼は司祭の教えに従ってそこに立ち、水の供養を行った。

1.134.113

अर्हतस्तस्य कृत्यानि शतशृङ्गनिवासिनः ।
तापसा विधिवच्चक्रुश्चारणा ऋषिभिः सह ॥ १.१३४.११३ ॥

百峰山に住む苦行者たちは、チャーラナやリシたちとともに、その尊き人のための儀式を規定どおりに行った。