Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.135

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.135.1

पाण्डोरुपरमं दृष्ट्वा देवकल्पा महर्षयः ।
ततो मन्त्रविदः सर्वे मन्त्रयांचक्रिरे मिथः ॥ १.१३५.१ ॥

众天神般的大仙见到般度之死,于是所有通晓谋略者彼此商议。

1.135.2

हित्वा राज्यं च राष्ट्रं च स महात्मा महायशाः ।
अस्मिंस्थाने तपस्तप्त्वा तापसाञ्शरणं गतः ॥ १.१३५.२ ॥

那位大德、大名者舍弃王国与国土,在此处修行苦行后,投奔于苦行者的庇护之下。

1.135.3

स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह ।
प्रादायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ॥ १.१३५.३ ॥

般度王将新生的儿子与妻子托付给你们,便从此处升往天界。

1.135.4

तस्येमानात्मजान्देहं भार्यां च सुमहात्मनः ।
स्वराष्ट्रं गृह्य गच्छामो धर्म एष हि नः स्मृतः ॥ १.१३५.४ ॥

我们带着这位大德的这些儿子、遗体与妻子,回到自己的国土去吧,因为这被认为是我们的法。

1.135.5

ते परस्परमामन्त्र्य देवकल्पा महर्षयः ।
पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ॥ १.१३५.५ ॥

那些众天神般的大仙彼此告别,让般度诸子走在前面,向名为那伽萨呼亚的城市进发。

1.135.6

उदारमनसः सिद्धा गमने चक्रिरे मनः ।
भीष्माय पण्डवान्दातुं धृतराष्ट्राय चैव हि ॥ १.१३५.६ ॥

心地高尚的成就者们决定启程,要把般度五子交给毗湿摩与持国。

1.135.7

तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे ।
पाण्डोर्दारांश्च पुत्रांश्च शरीरे ते च तापसाः ॥ १.१३५.७ ॥

就在那一刻,众人带着他们出发了——般度的妻子与儿子们,还有那些苦行者。

1.135.8

सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला ।
प्रपन्ना दीर्घमध्वानं संक्षिप्तं तदमन्यत ॥ १.१३५.८ ॥

她从前总是快乐而疼爱儿子,如今走在漫长的路上,却觉得路程很短。

1.135.9

सा त्वदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम् ।
वर्धमानपुरद्वारमाससाद यशस्विनी ॥ १.१३५.९ ॥

这位荣耀的女子不久便抵达了俱卢-阇安伽罗之地,来到了伐尔达玛那城的门前。

1.135.10

द्वारिणं तापसा ऊचू राजानं च प्रकाशय ।
ते तु गत्वा क्षणेनैव सभायां विनिवेदिताः ॥ १.१३५.१० ॥

苦行者对守门人说:"请禀报国王。"(使者)很快前去,在朝堂上便通报了。

1.135.11

तं चारणसहस्राणां मुनीनामागमं तदा ।
श्रुत्वा नागपुरे नॄणां विस्मयः समपद्यत ॥ १.१३५.११ ॥

听闻数千名歌者与贤哲到来,那时那伽城(象城)的人们无不惊叹。

1.135.12

मुहूर्तोदित आदित्ये सर्वे बालपुरस्कृताः ।
सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ॥ १.१३५.१२ ॥

吉时已到、太阳升起之时,城中百姓携妻带子,让孩子走在前面,纷纷出城去看望苦行者。

1.135.13

स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घसमास्थिताः ।
ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ॥ १.१३५.१३ ॥

妇女的人群与刹帝利的人群乘坐众多车辆,与婆罗门一同出发;婆罗门的妇女也一同出发。

1.135.14

तथा विट्शूद्रसङ्घानां महान्यतिकरोऽभवत् ।
न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ॥ १.१३५.१४ ॥

同样,吠舍与首陀罗的人群中也出现了巨大的拥挤;没有人心生嫉妒,因为他们心怀正法。

1.135.15

तथा भीष्मः शान्तनवः सोमदत्तो।ञथ बाह्लिकः ।
प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ॥ १.१३५.१५ ॥

同样,夜摩之子……即Śantanu之子毗湿摩、索摩达多、跋利迦,王仙慧眼(盲人持国)以及总管毗杜罗本人也一同前往。

1.135.16

सा च सत्यवती देवी कौसल्या च यशस्विनी ।
राजदारैः परिवृता गान्धारी चापि निर्ययौ ॥ १.१३५.१६ ॥

女神萨提亚瓦蒂与声名显赫的考莎利亚被王后们簇拥着出发,甘陀利也出发了。

1.135.17

धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः ।
भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ॥ १.१३५.१७ ॥

持国的儿子们以难敌为首,佩戴着光彩夺目、各式各样的饰物,共一百人出发。

1.135.18

तान्महर्षिगणान्दृष्ट्वा शिरोभिरभिवाद्य च ।
उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ॥ १.१३५.१८ ॥

众位大仙人一经看见,诸俱卢便低头敬礼,与祭司们一同在他们身旁坐下。

1.135.19

तथैव शिरसा भूमावभिवाद्य प्रणम्य च ।
उपोपविविशुः सर्वे पौरजानपदा अपि ॥ १.१३५.१९ ॥

同样,他们以头触地行礼致敬,城镇与乡野的所有人也都在近旁坐下。

1.135.20

तमकूजमभिज्ञाय जनौघं सर्वशस्तदा ।
पूजयित्वा यथान्यायं पाद्येनार्घ्येण च प्रभो ॥ १.१३५.२० ॥

他完全认出了那寂静的人群,主啊,随后依礼以洗足水和敬奉之礼款待了他们。

1.135.21

भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् ।
तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी।
ऋषीणां मतमाज्ञाय महर्षिरिदमब्रवीत् ॥ १.१३५.२१ ॥

毗湿摩向大仙人们禀报了王国与国土。随后,他们中年纪最长的那位大仙人,头发蓬乱、身披鹿皮,起身了解了众仙人的意见,说了这番话。

1.135.22

यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः ।
कामभोगान्परित्यज्य शतशृङ्गमितो गतः ॥ १.१३५.२२ ॥

那位名叫般度的国王,乃俱卢族的继承人,舍弃了欲望之乐,从此地前往百峰山。

1.135.23

राजा भोगान्परित्यज्य तपस्वी संबभूव ह ।
स यथोक्तं तपस्तेपे पत्रमूलफलाशनः ॥ १.१३५.२३ ॥

国王舍弃享乐,成为苦行者。他依照所说的方式修苦行,以树叶、根茎和果实为食。

1.135.24

पत्नीभ्यां सह धर्मात्मा संचित्कालमतन्द्रितः ।
तेन वृत्तसमाचारैस्तपसा च तपस्विनः ॥ १.१३५.२४ ॥

这位心地正直者与他的两位妻子一道,长时间不懈怠;凭借他的品行与苦行,他在苦行者之中受到尊敬。

1.135.25

तोषितास्तापसास्तत्र शतशृङ्गनिवासिनः ।
स्वर्गलोकं गन्तुकामं तापसाः संनिवार्य तम् ॥ १.१३५.२५ ॥

居于百峰的苦行者们心生欢喜,在那里拦住了想要前往天界的他。

1.135.26

उद्यन्तं सह पत्नीभ्यां विप्रा वचनमब्रुवन् ।
अनपत्यस्य राजेन्द्र पुण्या लोका न सन्ति ते ॥ १.१३५.२६ ॥

当他与两位妻子准备出发时,婆罗门们说道:大王啊,无子嗣者没有功德之界。

1.135.27

तस्माद्धर्मं च वायुं च महेन्द्रं च तथाऽश्विनौ ।
आराधयस्व राजेन्द्र पत्नीभ्यां सह देवताः ॥ १.१३५.२७ ॥

因此,大王啊,你应与两位妻子一同供奉法神、风神、因陀罗及双阿濕波神。

1.135.28

प्रीताः पुत्रान्प्रदास्यन्ति ऋणमुक्तो भविष्यसि ।
तपसा दिव्यचक्षुष्ट्वात्पश्यामस्ते तथा सुतान् ॥ १.१३५.२८ ॥

他们欢喜之后会赐你子嗣,你便脱离了债务。凭借苦行与天眼,我们如此看见你的诸子。

1.135.29

अस्माकं वचनं श्रुत्वा देवानाराधयत्तदा ।
ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना ॥ १.१३५.२९ ॥

他听了我们的话,便去供奉诸神。持守梵行誓愿的他,借着神圣的方法而如此行事。

1.135.30

साक्षाद्धर्मादयं पुत्रस्तत्र जातो युधिष्ठिरः ।
तथैनं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः ॥ १.१३५.३० ॥

这位儿子坚战便是直接从法神降生于彼处的。同样,你应知道这位强者中的翘楚,乃是那位大德国王之子。

1.135.31

मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ।
पुरन्दरादयं जज्ञे कुन्त्यां सत्यपराक्रमः ॥ १.१३५.३१ ॥

摩多利湿梵赐予一子,名为婆罗摩,大力无比。此真勇之士由因陀罗(Purandara)所生,诞于贡蒂之腹。

1.135.32

अस्मिञ्जाते महेष्वासे पृथामिन्द्रस्तदाऽब्रवीत् ।
मत्प्रसादादयं जातः कुन्ति सत्यपराक्रमः ॥ १.१३५.३२ ॥

此大弓箭手诞生时,因陀罗对普利塔说:"贡蒂啊,凭我的恩典,这真勇之士已经诞生。"

1.135.33

अजेयानपि जेताऽरीन्देवतादीन्न संशयः ।
यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति ॥ १.१३५.३३ ॥

他将征服不可战胜的敌人,包括诸神在内;此无疑问。他的名声将超越所有大弓箭手。

1.135.34

युधिष्ठिरो राजसूयं भ्रातृवीर्यादवाप्स्यति ।
एष जेता मनुष्यांश्च सर्वान्गन्धर्वराक्षसान् ॥ १.१३५.३४ ॥

坚战将凭借兄弟们的勇力获得王祭(Rājasūya)。此人将征服所有人类、乾达婆与罗刹。

1.135.35

एष दुर्योधनादीनां कौरवाणां च जेष्यति ।
वीरस्यैतस्य विक्रान्तैर्धर्मपुत्रो युधिष्ठिरः ॥ १.१३५.३५ ॥

此人还将征服难敌等俱卢族人;凭这位英雄的勇力,法之子坚战[将获胜]。

1.135.36

यक्ष्यते राजसूयाद्यैर्धर्म एव परः सदा ।
यौ तु माद्री महेष्वासावसूत पुरुषोत्तमौ ॥ १.१३५.३६ ॥

他将举行以王祭为首的祭祀;唯有法永远是他的至上准则。而玛德丽所生的那两位大弓箭手,乃是人中的至尊。

1.135.37

अश्विभ्यां पुरुषव्याघ्राविमौ तावपि तिष्ठतः ।
नकुलः सहदेवश्च तावप्यमिततेजसौ ॥ १.१३५.३७ ॥

由双马童所生的这两位人中之虎,他们也留在那里。无敌之光的那无尼俱罗与萨诃提婆,这二人亦然。

1.135.38

चरता धर्मनित्येन वनवासं यशस्विना ।
एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ॥ १.१३५.३८ ॥

荣耀的般度,始终奉行法,在林中流亡时,再次振兴了这祖先的家族。

1.135.39

पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च ।
पश्यन्तः सततं पाण्डोः परां प्रीतिमवाप्स्यथ ॥ १.१३५.३९ ॥

时常目睹诸子的降生、成长与吠陀学习,你将为般度获得无上的喜悦。

1.135.40

वर्तमानः सतां वृत्ते पुत्रलाभमवाप च ।
पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ॥ १.१३५.४० ॥

般度行于善人之道,获得诸子,于第十七日从此处前往祖先之界。

1.135.41

तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् ।
प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ॥ १.१३५.४१ ॥

得知他已被置于火葬柴堆,并献入火神的口中,摩德利舍弃自己的生命,走入火中。

1.135.42

सा गता सह तेनैव पतिलोकमनुव्रता ।
तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ॥ १.१३५.४२ ॥

她虔诚地追随丈夫,与他一同前往夫之界。现在应当为他们二人举行应有的仪式。

1.135.43

पृथां च शरणं प्राप्तां पाण्डवांश्च यशस्विनः ।
यथावदनुमन्यन्तां धर्मो ह्येष सनातनः ॥ १.१३५.४३ ॥

寻求庇护的普利塔和名声显赫的般度五子,应当依礼接纳,因为这是永恒的达摩。

1.135.44

इमे तयोः शरीरे द्वे पुत्राश्चेमे तयोर्वराः ।
क्रियाभिरनुगृह्यन्तां सह मात्रा परंतपाः ॥ १.१३५.४४ ॥

这是他们二人的遗体,这些是他们优秀的儿子。啊,焚烧敌人者,愿以仪式与母亲一同礼敬他们。

1.135.45

प्रेतकार्ये निवृत्ते तु पितृमेधं महायशाः ।
लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ॥ १.१३५.४५ ॥

待丧葬仪式完毕,名声远播、通晓一切达摩、承担俱卢族重任的般度,应当举行祖先祭祀。

1.135.46

एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् ।
क्षणेनान्तर्हिताः सर्वे तापसा गुह्यकैः सह ॥ १.१३५.४६ ॥

说完这些话,所有苦行者连同古耶卡一起,在眨眼之间消失了,所有俱卢人都亲眼看见。

1.135.47

गन्धर्वनगराकारं तथैवान्तर्हितं पुनः ।
ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ॥ १.१३५.४७ ॥

那景象如同乾闼婆城,又一次消失了;看到那群仙人与悉陀,他们感到极大的惊异。