摩诃婆罗多 · 章 1.136
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.136.1
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय ।
राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ॥ १.१३६.१ ॥
维杜拉啊,为狮子般的王者般度举行一切葬礼,如同为君王那样,尤其也为摩德丽如此举行。
1.136.2
पशून्वासांसि रत्नानि धनानि विविधानि च ।
पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ॥ १.१३६.२ ॥
将牛群、衣物、珠宝和各种财物交给般度与摩德丽,并交给需要之人,给予他们所希望的数量。
1.136.3
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु ।
यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ॥ १.१३६.३ ॥
如同尊敬贡蒂那样尊敬摩德丽;让她严密遮蔽,使风与太阳都不能看见她。
1.136.4
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः ।
यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ॥ १.१३६.४ ॥
无罪的般度不值得悲悼;他是值得赞颂的人王,他有五位如天神之子般的英勇儿子。
1.136.5
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत ।
पाण्डुं संस्कारयामास देशे परमपूजिते ॥ १.१३६.५ ॥
婆罗多啊,维杜拉说“就这样吧”,与毗湿摩一起在一处极受尊崇的地方为般度举行了火葬。
1.136.6
ततस्तु नगरात्तूर्णमाज्यगन्धपुरस्कृताः ।
निर्हृताः पावका दीप्ताः पाण्डो राजन्पुरोहितैः ॥ १.१३६.६ ॥
随后,国王啊,伴随着酥油的芳香,家族祭司迅速将熊熊燃烧的圣火从城中为般度送出。
1.136.7
अथैनामार्तवैः पुष्पैर्गन्धैश्च विविधैर्वरैः ।
शिबिकां तामलङ्कृत्य वाससाऽऽच्छाद्य सर्वशः ॥ १.१३६.७ ॥
随后,用应时的花朵和各种上好的香料装饰那顶轿子,并用布从各方面完全遮盖。
1.136.8
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः ।
अमात्या ज्ञातयश्चैनं सुहृदश्चोपतस्थिरे ॥ १.१३६.८ ॥
轿子以花环和贵重衣物如此装饰,大臣、亲族和朋友都来到它的近旁侍立。
1.136.9
नृसिंहं नरयुक्तेन परमालङ्कृतेन तम् ।
अवहन् यानमुख्येन सह माद्र्या सुसंवृतम् ॥ १.१३६.९ ॥
用人力牵引、装饰极其华美的上好车辆,将人中雄狮(般度)与摩德利一同载运,并覆盖严密。
1.136.10
पाण्डुरेणातपत्रेण चामरव्यजनेन च ।
सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः ॥ १.१३६.१० ॥
随后,他们以白伞、牦牛尾拂和各种乐器的声音装饰了队伍。
1.136.11
रत्नानि चाप्युपादाय बहूनि शतशो नराः ।
प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तस्यौर्ध्वदेहिके ॥ १.१३६.११ ॥
成百上千的人取了许多珠宝,分给那些想要的人,用于般度的葬礼仪式。
1.136.12
अथ च्छत्राणि शुभ्राणि चामराणि बृहन्ति च ।
आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ॥ १.१३६.१२ ॥
随后为这位俱卢后裔取来了白伞、大型牦牛尾拂和精美的衣物。
1.136.13
याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः ।
अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः ॥ १.१३६.१३ ॥
身着白衣的祭司所奉献的祭火,光辉闪耀、装饰精美,走在他的前面。
1.136.14
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः ।
रुदन्तः शोकसंतप्ता अनुजग्मुर्नराधिपम् ॥ १.१३६.१४ ॥
婆罗门、刹帝利、吠舍和首陀罗成千上万,悲泣并被忧伤煎熬,跟随着人主。
1.136.15
अयमस्मानपाहाय दुःखे चाधाय शाश्वते ।
कृत्वा चास्माननाथांश्च क्व यास्यति नराधिपः ॥ १.१३६.१५ ॥
这位人主抛弃我们,使我们陷入永恒的悲痛,使我们成为孤儿,将去向何方?
1.136.16
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च ।
बाह्लीकः सोमदत्तश्च तथा भूरिश्रवा नृपः ॥ १.१३६.१६ ॥
所有般度子在哭喊,还有毗湿摩、维杜拉、巴利迦、索摩达塔,以及国王布利室罗婆斯。
1.136.17
अन्योन्यं वै समाश्लिष्य अनुजग्मुः सहस्रशः ।
रमणीये वनोद्देशे गङ्गातीरे समे शुभे ॥ १.१३६.१७ ॥
彼此相拥,成千上万地跟随,在可爱的林地上,恒河边平坦而吉祥之处。
1.136.18
न्यासयामासुरथं तां शिबिकां सत्यवादिनः ।
सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ॥ १.१३६.१८ ॥
诚实之人放下那顶轿子,其中躺着人中狮子般庄重的般度,与他的妻子们同在,他的行为从不疲倦。
1.136.19
ततस्तस्य शरीरं तु सर्वगन्धाधिवासितम् ।
शुचिकालीयकादिग्धं दिव्यचन्दनरूषितम् ॥ १.१३६.१९ ॥
随后,以诸香熏其身,以纯净的迦利耶迦等香膏涂抹,并以天上的檀香敷之。
1.136.20
पर्यषिञ्चञ्जलेनाशु शातकुम्भमयैर्घटैः ।
चन्दनेन च शुक्लेन सर्वतः समलेपयन् ॥ १.१३६.२० ॥
他们迅速以金瓶洒水,并以白檀从四面涂抹。
1.136.21
कालागुरुविमिश्रेण तथा तुङ्गरसेन च ।
अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् ॥ १.१३६.२१ ॥
随后,以混有迦罗羯如的吞伽树脂,为他涂抹,并以本地produced的白色衣服为他穿戴。
1.136.22
संछन्नः स तु वासोभिर्जीवन्निव नराधिपः ।
शुशुभे स नव्याघ्रो महार्हशयनोचितः ॥ १.१३६.२२ ॥
君王身覆衣衫,光彩如生;这位人中之虎,配得上贵重的卧床。
1.136.23
हयमेधाग्निना सर्वे याजकाः सपुरोहिताः ।
वेदोक्तेन विधानेन क्रियांचक्रुः समन्त्रकम् ॥ १.१३६.२३ ॥
在马祭的火前,所有祭司与家祭司依吠陀所规定的仪轨,持咒完成了法事。
1.136.24
याजकैरभ्यनुज्ञाते प्रेतकर्मण्यनिष्ठिते ।
घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् ॥ १.१३६.२४ ॥
经祭司许可,葬礼尚未完毕,国王以酥油洒浇,与摩德利一同被盛装打扮。
1.136.25
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना ।
सरलं देवदारुं च गुग्गुलं लाक्षया सह ॥ १.१३६.२५ ॥
与 tuṅga、padmaka 混合的芬芳檀香,sarala 与 devadāru,guggula,以及紫胶。
1.136.26
हरिचन्दनकाष्ठैश्च हरिबेरैरुशीरकैः ।
अन्यैश्च विविधैर्गन्धैर्विधिना समदाहयन् ॥ १.१३६.२६ ॥
以红檀木、harībera 根与香根草,以及其他各种香料,依礼仪将二人完全焚化。
1.136.27
ततस्तयोः शरीरे द्वे दृष्ट्वा मोहवशं गता ।
हाहा पुत्रेति कौसल्या पपात सहसा भुवि ॥ १.१३६.२७ ॥
此时,见到两具尸身,被迷惑所control的考萨利亚大呼:“哎呀,哎呀,儿啊!”随即忽然倒在地上。
1.136.28
तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः ।
रुरोद दुःखसंतप्तो राजभक्त्या कृपाऽन्वितः ॥ १.१३६.२८ ॥
众城乡百姓见她倒地悲恸,因悲伤而痛苦,满怀对君王的忠诚与怜悯,痛哭起来。
1.136.29
कुन्त्याश्चैवार्तनादेन सर्वाणि च विचुक्रुशुः ।
मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि ॥ १.१३६.२९ ॥
听闻昆提痛苦的哭喊,众人皆哀号;与人类一同,生于畜类胎中的众生也哀号起来。
1.136.30
तथा भीष्मः शान्तनवो विदुरश्च महामतिः ।
सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः ॥ १.१३६.३० ॥
同样,檀多之子毗湿摩、智者维杜罗以及众俱卢人,极度悲伤,放声哀号。
1.136.31
ततो भीष्मोऽथ विदुरो राजा च सह पाण्डवैः ।
उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः ॥ १.१३६.३१ ॥
随后,毗湿摩、维度罗和国王与般度五子一同为他奉献了水祭,库鲁族的所有妇女也同样做了。
1.136.32
चुक्रुशुः पाण्डवाः सर्वे भीष्मः शान्तनवस्तथा ।
विदुरो ज्ञातयश्चैव चक्रुश्चाप्युदकक्रियाः ॥ १.१३६.३२ ॥
所有般度五子、珊陀奴之子毗湿摩、维度罗及亲属都痛哭哀号,并举行了水祭仪式。
1.136.33
कृतोदकांस्तानादाय पाण्डवाञ्छोककर्शितान् ।
सर्वाः प्रकृतयो राजञ्शोचमाना न्यवारयन् ॥ १.१३६.३३ ॥
国王啊,那些完成水祭、因悲伤而憔悴的般度五子被带走了,所有臣民悲痛地将他们拦住。
1.136.34
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः ।
तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः ॥ १.१३६.३४ ॥
正如般度五子与亲属一同躺卧在地上,国王啊,以婆罗门为首的城中居民也都躺卧下来。
1.136.35
तद्गतानन्दमस्वस्थमाकुमारमहृष्टवत् ।
बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः ॥ १.१३६.३५ ॥
那座城市失去了欢乐,心神不安,甚至连孩童都显得不快。它与般度五子一同度过了十二个夜晚。