Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.137

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.137.1

ततः क्षत्ता च भीष्मश्च व्यासो राजा च बन्धुभिः ।
ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा ॥ १.१३७.१ ॥

于是刻差、毗湿摩、毗耶娑与国王同亲属一起为般度举行了充满斯瓦陀与甘露的葬礼祭祀。

1.137.2

पुरोहितसहायास्ते यथान्यायमकुर्वत ।
कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः।
रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरांस्तथा ॥ १.१३७.२ ॥

在家庭祭司的协助下,他们依照规则行礼;供养了数千名俱卢人和主要婆罗门,将珠宝堆与上好的村庄施予最尊贵的再生者。

1.137.3

कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् ।
आदाय विविशुः सर्वे पुरं वारणसाह्वयम् ॥ १.१३७.३ ॥

众人净身之后,带着那些婆罗多族的雄牛般的般度五子,一同进入了名为婆罗那婆多的城市。

1.137.4

सततं स्मानुशोचन्तस्तमेव भरतर्षभम् ।
पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् ॥ १.१३७.४ ॥

城中与乡间的所有人都为那位婆罗多族的雄牛不断哀悼,仿佛他是自己已故的亲人。

1.137.5

श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् ।
संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ॥ १.१३७.५ ॥

葬礼祭祀结束后,毗耶娑见众人悲痛,便对他那因痛苦与哀伤而迷惘煎熬的母亲说道。

1.137.6

अतिक्रान्तसुखाः कालाः पर्युपस्थितदारुणाः ।
श्वःश्वः पापिष्ठदिवसाः पृथिवी गतयौवना ॥ १.१३७.६ ॥

欢乐的时代已经过去,可怕的时代已经来临;一天接着一天,都是最为罪恶的日子,大地已失去了她的青春。

1.137.7

बहुमायासमाकीर्णो नानादोषसमाकुलः ।
लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ॥ १.१३७.७ ॥

将会到来一个可怕的时代,充满诸多幻象,被种种过失所扰乱,法的仪轨与正行都将消失。

1.137.8

कुरूणामनयाच्चापि पृथिवी न भविष्यति ।
गच्छ त्वं योगमास्थाय युक्ता वस तपोवने ॥ १.१३७.८ ॥

由于库鲁族的不义,大地也将不再属于他们。你去吧,修习瑜伽,克己地住在苦行林中。

1.137.9

माद्राक्षीस्त्वं कुलस्यास्य घोरं संक्षयमात्मनः ।
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् ॥ १.१३७.९ ॥

你将亲眼见到这个家族可怕的毁灭,那也是你自己的家族。她说‘就这样吧’,表示同意,然后走进去对儿媳说。

1.137.10

अम्बिक तव पौत्रस्य दुर्नयात्किल भारताः ।
सानुबन्धा विनङ्क्ष्यन्ति पौराश्चैवेति नः श्रुतम् ॥ १.१३७.१० ॥

啊,安比迦,我们听说,由于你孙子的不义,婆罗多人连同他们的亲属,以及城中居民,都将灭亡。

1.137.11

तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् ।
वनमादाय भद्रं ते गच्छावो यदि मन्यसे ॥ १.१३७.११ ॥

因此,带着这位为儿子之痛所折磨、忧伤的考莎莉雅一同去森林吧,愿你吉祥;如果你认为可以,我们就去吧。

1.137.12

तथेत्युक्ता त्वम्बिकया भीष्ममामन्त्र्य सुव्रता ।
वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ॥ १.१३७.१२ ॥

安比迦说了‘就这样吧’之后,持戒坚定的萨蒂雅瓦蒂向毗湿摩辞别,啊,婆罗多,与两位儿媳一同前往森林。

1.137.13

ताः सुघोरं तपस्तप्त्वा देव्यो भरतसत्तम ।
देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ॥ १.१३७.१३ ॥

诸位天女修行了极为严酷的苦行,婆罗多之最,大王啊,于是舍弃身体,抵达了所愿的归宿。

1.137.14

अथाप्तवन्तो वेदोक्तान्संस्कारान्पाण्डवास्तदा ।
संव्यवर्धन्त भोगांस्ते भुञ्जानाः पितृवेश्मनि ॥ १.१३७.१४ ॥

于是般度的儿子们接受了吠陀所规定的礼仪,在父亲的府邸享受安乐,逐渐长大。

1.137.15

धार्तराष्ट्रैश्च सहिताः क्रीडन्तो मुदिताः सुखम् ।
बालक्रीडासु सर्वासु विशिष्टास्तेजसाऽभवन् ॥ १.१३७.१५ ॥

与持国的儿子们一同快乐地嬉戏,在童年的各种游戏中,他们以光彩超群。

1.137.16

जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे ।
धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ॥ १.१३७.१६ ॥

在赛跑、夺取目标、饮食以及拖拽于尘土之中,毗摩把持国的所有儿子都压服了。

1.137.17

हर्षात्प्रक्रीडमानांस्तान् गृह्य राजन्निलीयते ।
शिरःसु विनिगृह्यैतान्योजयामास पाण्डवैः ॥ १.१३७.१७ ॥

大王啊,他抓住欢快嬉戏的那些人后便躲藏起来;他按住他们的头,使这些人与般度之子们相互对抗。

1.137.18

शतमेकोत्तरं तेषां कुमाराणां महौजसाम् ।
एक एव निगृह्णाति नातिकृच्छ्राद्वृकोदरः ॥ १.१३७.१८ ॥

那些威力强大的王子共有一百零一人,然而狼腹(毗摩)一人便能毫不费力地制服他们。

1.137.19

कचेषु च निगृह्यैनान्विनिहत्य बलाद्बली ।
चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोंसकान् ॥ १.१३७.१९ ॥

这位大力者揪住他们的头发,用力将他们打倒,在他们哭喊时把他们拖过地面,膝、头与肩都被磨破。

1.137.20

दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः ।
आस्ते स्म सलिले मग्नो मृतकल्पान्विमुञ्चति ॥ १.१३७.२० ॥

他用双臂抱住十个孩子,在水中嬉戏,沉在水下;直到他们快要死去时才放开。

1.137.21

फलानि वृक्षमारुह्य विचिन्वन्ति च ये तदा ।
तदा पादप्रहारेण भीमः कम्पयते द्रुमान् ॥ १.१३७.२१ ॥

当那些爬上树采摘果实的孩子在树上时,毗摩便用脚一踢,摇动树木。

1.137.22

प्रहारवेगाभिहता द्रुमा व्याघूर्णितास्ततः ।
सफलाः प्रपतन्ति स्म द्रुमात्स्रस्ताः कुमारकाः ॥ १.१३७.२२ ॥

树木被击中的力道撼动得摇摇晃晃;于是孩子们连同果实从树上滑落跌下。

1.137.23

केचिद्भग्नशिरोरस्काः केचिद्भग्नकटीमुखाः ।
निपेतुर्भ्रातरः सर्वे भीमसेनभुजार्दिताः ॥ १.१३७.२३ ॥

有人头部与胸膛破碎,有人腰与面部破碎;所有兄弟都被毗摩森那的臂膀折磨,纷纷倒下。

1.137.24

न ते नियुद्धे न जवे न योग्यासु कदाचन ।
कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ॥ १.१३७.२४ ॥

无论角力、赛跑还是任何合适的比试,他们从未能胜过;即便竞争,那些孩子也无法回应狼腹。

1.137.25

एवं स धार्तराष्ट्रांश्च स्पर्धमानो वृकोदरः ।
अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ॥ १.१३७.२५ ॥

如此,狼腹(Vṛkodara)与持国之子争竞,过度地坚持做令人不快之事;然因年幼,其心并无害人之念。

1.137.26

ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् ।
भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ॥ १.१३७.२६ ॥

于是,持国的有力之子得知怖军之力名声远扬,便显露了他的恶念。

1.137.27

तस्य धर्मादपेतस्य पापानि परिपश्यतः ।
मोहादैश्वर्यलोभाच्च पापा मतिरजायत ॥ १.१३७.२७ ॥

他已背离法道,却仍看着那些恶行;由于迷惑与对权势的贪欲,一个罪恶之念在他心中生起。

1.137.28

अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः ।
मध्यमः कुन्तिपुत्राणां निकृत्या सन्निगृह्यतां ॥ १.१३७.२८ ॥

此人乃强者之最,贡提之子狼腹;贡提诸子中居中者,应以诡计擒住他。

1.137.29

प्राणवान्विक्रमी चैव शौर्येण महताऽन्वितः ।
स्पर्धते चापि सहितानस्मानेको वृकोदरः ॥ १.१३७.२९ ॥

狼腹充满生命之力、英勇且具大勇,独自一人便与我们相竞,尽管我们聚在一起。

1.137.30

तं तु सुप्तं पुरोद्याने गङ्गायां प्रक्षिपामहे ।
अथ तस्मादवरजं श्रेष्ठं चैव युधिष्ठिरम् ॥ १.१३७.३० ॥

待他睡着时,我们便把他投入园前的恒河;其后,也要除去比他年少却最为优秀的坚战。

1.137.31

प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् ।
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा।
नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ॥ १.१३७.३१ ॥

“我要将他强行捆绑,然后统治大地。”恶人难敌就这样下定了决心,并且始终伺机对付伟大的怖军。

1.137.32

ततो जलविहारार्थं कारयामास भारत ।
चैलकम्बलवेश्मानि विचित्राणि महान्ति च ॥ १.१३७.३२ ॥

然后,婆罗多的后裔啊,他下令为水上嬉戏建造了大而奇妙的布帐和毛毯帐篷。

1.137.33

सर्वकामैः सुपूर्णानि पताकोच्छ्रायवन्ति च ।
तत्र संजनयामास नानागाराण्यनेकशः ॥ १.१३७.३३ ॥

他在那里建造了许多各式的房屋,里面充满了一切所欲之物,并高高竖起旗帜。

1.137.34

उदकक्रीडनं नाम कारयामास भारत ।
प्रमाणकोट्यां तं देशं स्थलं किंचिदुपेत्यह ॥ १.१३७.३४ ॥

婆罗多啊,他建造了一个名为“水戏”的地方。在该地区测定的边界处,走近一些干燥的土地,我……

1.137.35

क्रीडावसाने ते सर्वे शुचिवस्त्राः स्वलङ्कृताः ।
सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ॥ १.१३७.३५ ॥

游戏结束后,他们都穿着干净的衣服,装饰得很漂亮,慢慢地吃着那充满一切美味的食物。

1.137.36

दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः ।
विहारावसथेष्वेव वीरा वासमरोचयन् ॥ १.१३७.३६ ॥

白天结束时,疲惫的婆罗多英雄们——库鲁族的翘楚——嬉戏之后,更愿意住在那些游乐的居所里。

1.137.37

खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा ।
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः ॥ १.१३७.३७ ॥

力大的怖军因疲倦且比他人更专注于锻炼,带回了那些去水中嬉戏的少年,这位有力者。

1.137.38

प्रमाणकोट्यां वासार्थं सुष्वापारुह्य तत्स्थलम् ।
शीतं वासं समासाद्य शान्तो मदविमोहितः ॥ १.१३७.३८ ॥

为了在普拉曼纳科提休息,他登上那处地方睡去;到达凉爽的歇息处,平静而被醉意迷惑。

1.137.39

निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतवत्क्षितौ ।
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः ॥ १.१३७.३९ ॥

大王啊,般度之子一动不动地躺在地上,如同死人般睡去;于是难敌慢慢用藤索把怖军捆绑起来。

1.137.40

प्रमाणकोट्यां संसुप्तं गङ्गायां प्राक्षिपज्जले ।
ततः प्रबुद्धः कौन्तेयः सर्वान्संछिद्य बन्धनान् ॥ १.१३७.४० ॥

难敌把在普拉曼纳科提沉睡的他扔进恒河水中;随后醒来的贡蒂之子斩断了所有的绳索。

1.137.41

उदतिष्ठद्बलाद्भूयो भीमः प्रहरतां वरः ।
स विमुक्तो महातेजा नाज्ञासीत्तेन तत्कृतम् ॥ १.१३७.४१ ॥

怖军,最优秀的战士,又凭力量站了起来;这位大光辉者获得解脱,却不知道是谁做的。

1.137.42

पुनर्निद्रावशं प्राप्तस्तत्रैव प्रास्वपद्बली ।
अर्धरात्र्यां व्यतीतायामुत्तस्थुः कुरुपाण्जवाः।
दुर्योधनस्तु कौन्तेयं दृष्ट्वा निर्वेदमभ्यगात् ॥ १.१३७.४२ ॥

力大的怖军再次为睡意所控,就在那里睡下;半夜过去后,俱卢与般度诸子迅速起身。但难敌看见贡蒂之子,陷入了绝望。

1.137.43

सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः ।
कुपितैर्दंशयामास सर्वेष्वेवाङ्गसन्धिषु ॥ १.१३७.४३ ॥

他仍在熟睡时,那些尖牙利齿、剧毒而愤怒的蛇又在他肢体的每一个关节上咬了他。

1.137.44

दंष्ट्राश्च दंष्ट्रिणां मर्मस्वपि तेन निपातिताः ।
त्वचं न चास्य बिभिदुः सारत्वात्पृथुपक्षसः ॥ १.१३७.४४ ॥

即使在他的要害之处,那些有牙的蛇的毒牙也被他折断了;它们无法刺穿他的皮肤,因为他坚实而胸膛宽阔。

1.137.45

प्रबुद्धो भीसेनस्तान्सर्वान्सर्पानपोथयत् ।
सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥ १.१३७.४५ ॥

毗摩娑那醒来后,把那些蛇全部碾碎,并用手掌打了他心爱的御者。

1.137.46

तथान्यदिवसे राजन्हन्तुकामोऽत्यमर्षणः ।
वलनेन सहामन्त्र्य सौबलस्य मते स्थितः ॥ १.१३७.४६ ॥

同样,在另一天,大王,怀着杀意而极度愤怒的他,与伐罗那商议,并坚持采纳娑婆罗(沙恭尼)的主意。

1.137.47

भोजने भीमसेनस्य ततः प्राक्षेपयद्विषम् ।
कालकूटं विषं तीक्ष्णं संभृतं रोमहर्षणम् ॥ १.१३७.४७ ॥

于是,他在毗摩娑那的饭食中掺入了迦罗俱吒毒——一种猛烈、配制好的、令人毛骨悚然的毒药。

1.137.48

तच्चापि भुक्त्वाऽजरदॉयदविकारो वृकोदरः ।
विकारं नाभ्यजनयत्सुतीक्ष्णमपि तद्विषम् ॥ १.१३७.४८ ॥

他吃了那食物,狼腹(毗摩)却没有任何不适;那极其猛烈的毒药也没有使他产生任何病症。

1.137.49

भीमसंहननो भीमस्त्समादजरयद्विषम् ।
ततोऽन्यदिवसे राजन्हन्तुकामो वृकोदरम् ॥ १.१३७.४९ ॥

身躯强壮的怖军消化了那毒药。大王啊,之后另一天,他想杀死狼腹……

1.137.50

सौबलेन सहायेन धार्तराष्ट्रोऽभ्यचिन्तयत् ।
चिन्तयन्नालभन्निद्रां दिवारात्रमतन्द्रितः ॥ १.१३७.५० ॥

在善钵罗(沙恭尼)的协助下,持国之子思虑良久。他日夜思索,无法入睡,却毫不疲倦。

1.137.51

एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।
अनेकैरप्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥ १.१३७.५१ ॥

如此,难敌、迦尔纳以及苏波罗之子沙恭尼,也用种种手段企图杀害那些般度之子。

1.137.52

वैश्या पुत्रस्तदाचष्ट पार्थानां हितकाम्यया ।
पाण्डवा ह्यपि तत्सर्वं प्रत्यजानन्नरिन्दमाः।
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥ १.१३७.५२ ॥

那时,吠舍妇之子(维杜罗)出于对普利塔之子的善意,把这一切告诉了他们。讨敌的般度之子也全都明白了,遵从维杜罗的意见,没有将此事张扬。