Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.139

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.139.1

दुर्योधनस्तु पापात्मा भीममाशीविषहदे ।
प्रक्षिप्य कृतकृत्यं स्वमात्मानं मन्यते तदा ॥ १.१३९.१ ॥

然而恶念的难敌将怖军投入毒蛇之池后,便自以为大功告成。

1.139.2

प्रभातायां रजन्यां च प्रविवेश पुरं ततः ।
ब्रुवाणो भीमसेनस्तु यातो ह्यग्रत एव नः ॥ १.१३९.२ ॥

黎明时分,夜已过去,他们进入城中,并说怖军已先我们而去。

1.139.3

युधिष्ठिरस्तु धर्मात्मा ह्यविदन्पापमात्मनि ।
स्वेनानुमानेन परं साधुं समनुपश्यति ॥ १.१३९.३ ॥

然而法性的坚战不知自身有恶,便以己度人,视他人亦为善。

1.139.4

सोऽभ्युपेत्य तदा पार्थो मातरं भ्रातृवत्सलः ।
अभिवाद्याब्रवीत्कुन्तीमम्ब भीम इहागतः ॥ १.१३९.४ ॥

于是爱护兄弟的普利塔之子走到母亲面前,行礼后对贡蒂说:母亲,怖军已经来到这里。

1.139.5

क्व गतो भविता मातर्नेह पश्यामि तं शुभे ।
उद्यानानि वनं चैव विचितानि समन्ततः ॥ १.१३९.५ ॥

母亲,他会去了哪里呢?吉祥的母亲,我在这里看不到他。花园和森林已经四处搜寻过了。

1.139.6

तदर्थं न च तं वीरं दृष्टवन्तो वृकोदरम् ।
मन्यमानास्ततः सर्वे यातो नः पूर्वमेव सः ॥ १.१३९.६ ॥

他们寻找他,却没有见到那位英雄狼腹,于是大家认为他已先我们而去。

1.139.7

आगताः स्म महाभागे व्याकुलेनान्तरात्मना ।
इहागम्य क्व नु गतस्त्वया वा प्रेषितः क्व नु ॥ १.१३९.७ ॥

尊贵的女子啊,我们怀着忧虑的心来到这里。他来到这里之后,究竟去了哪里?还是你把他派到哪里去了?

1.139.8

कथयस्व महाबाहुं भीमसेनं यशस्विनि ।
नहि मे शुध्यते भावस्तं वीरं प्रति शोभने ॥ १.१३९.८ ॥

请告诉我大臂的怖军,尊贵的女子啊;关于那位英雄,我的心无法平静,光彩照人的女子啊。

1.139.9

यतः प्रसुप्तं मन्येऽहं भीम् नेति हतस्तु सः ।
इत्युक्ता च ततः कुन्ती धर्मराजेन धीमता ॥ १.१३९.९ ॥

我认为怖军是睡着了,并没有被杀。智慧的法王如此说完之后,贡提……

1.139.10

हाहेति कृत्वा संभ्रान्ता प्रत्युवाच युधिष्ठिरम् ।
न पुत्र भीमं पश्यामि न मामभ्येत्यसाविति ॥ १.१३९.१० ॥

贡提惊慌地叫了一声“哎呀!”,对坚战说:“孩子,我看不见怖军;他没有到我这里来。”

1.139.11

शीघ्रमन्वेषणे यत्नं कुरु तस्यानुजैः सह ।
द्रुतं गत्वा पुरोद्यानं विचिन्वन्तिस्म पाण्डवाः ॥ १.१३९.११ ॥

“快与他的弟弟们一起去寻找他。”于是般度子孙迅速走到前面的花园里开始寻找。

1.139.12

भीमभीमेति ते वाचा पाण्डवाः समुदैरयन् ।
विचिन्वन्तोऽथ ते सर्वे न स्म पश्यन्ति भ्रातरम् ॥ १.१३९.१२ ॥

般度子孙高声呼喊:“怖军,怖军!”他们一边寻找,却都没有看见兄弟。

1.139.13

आगताः स्वगृहं भूय इदमूचुः पृथां तदा ।
न दृश्यते महाबाहुरम्ब भीमो वने चितः ॥ १.१३९.१३ ॥

他们回到自己的家中,便再次对普利塔说道:“母亲,大臂的毗摩在森林中搜寻也不见踪影。”

1.139.14

विचितानि च सर्वाणि ह्युद्यानानि नदीस्तथा ।
ततो विदुरमानाय्य कुन्ती सा स्वं निवेशनम् ॥ १.१३९.१४ ॥

所有的花园和河流也都搜寻过了。于是贡蒂召来维杜罗,在她自己的住所……

1.139.15

उवाच बलवान्क्षत्तर्भीमसेनो न दृश्यते ॥ १.१३९.१५ ॥

她说:“哦,刹多,强壮的毗摩森纳不见了!”

1.139.16

उद्यानान्निर्गताः सर्वे भ्रातरो भ्रातृभिः सह ।
तत्रैकस्तु महाबाहुर्भीमो नाभ्येति मामिह ॥ १.१३९.१६ ॥

所有兄弟都与他们的兄弟一起从花园里出来了;但有一人,大臂的毗摩,并没有来到我这里。

1.139.17

न च प्रीणयते चक्षुः सदा दुर्योधनस्य सः ।
क्रूरोऽसौ दुर्मतिः क्षुद्रो राज्यलुब्धोऽनपत्रपः ॥ १.१३९.१७ ॥

他从来不让难敌的眼睛感到高兴;那残酷、心术不正、卑劣、贪图王国、无耻之徒。

1.139.18

निहन्यादपि तं वीरं जातमन्युः सुयोधनः ।
तेन मे व्याकुलं चित्तं हृदयं दह्यतीव च ॥ १.१३९.१८ ॥

苏耶陀那心怀怒火,甚至可能杀死那位英雄;因此我的心乱了,心如同在燃烧。

1.139.19

मैवं वदस्व कल्याणि शेषसंरक्षणं कुरु ।
प्रत्यादिष्टो हि दुष्टात्मा शेषेऽपि प्रहरेत्तव ॥ १.१३९.१९ ॥

善良的女人啊,不要这样说;保护剩下的人吧。即使被拒绝,那心怀恶意的人仍可能伤害你剩下的儿子们。

1.139.20

दीर्घायुषस्तव सुता यथोवाच महामुनिः ।
आगमिष्यति ते पुत्रः प्रीतिं चोत्पादयिष्यति ॥ १.१३९.२० ॥

正如大仙所说,你的儿子们将长寿。你的儿子将归来,给你带来喜悦。

1.139.21

एवमुक्त्वा ययौ विद्वान्विदुरः स्वं निवेशनम् ।
कुन्ती चिन्तापरा भूत्वा सहासीना सुतैर्गृहे ॥ १.१३९.२१ ॥

说完这些,智者毗杜罗便回到自己的住所。昆蒂满怀忧虑,与儿子们一同坐在屋中。

1.139.22

ततोऽष्टमे तु दिवसे प्रत्यबुध्यत पाण्डवः ।
तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली ॥ १.१३९.२२ ॥

到第八天,般度之子(毗摩)醒来;待那药液消化之后,这位力量无量的勇士醒了过来。

1.139.23

तं दृष्ट्वा प्रतिबुध्यन्तं पाण्डवं ते भुजङ्गमाः ।
सान्त्वयामासुरव्यग्रा वचनं चेदमब्रुवन् ॥ १.१३९.२३ ॥

看见般度之子醒来,那些蛇神从容地安慰他,并说出了这些话。

1.139.24

यत्ते पीतो महाबाहो रसोऽयं वीर्यसंभृतः ।
तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यसि ॥ १.१३९.२४ ॥

因为你饮下了这充满力量的药液,啊,臂力强大者,你将拥有万头象的力量,在战场上不可战胜。

1.139.25

गच्छाद्य त्वं च स्वगृहं स्नातो दिव्यैरिमैर्जलैः ।
भ्रातरस्तेऽनुतप्यन्ति त्वां विना कुरुपुङ्गव ॥ १.१३९.२५ ॥

现在你也去你的家吧,用这些神圣的水沐浴之后。没有你,你的兄弟们正在悲伤,俱卢之雄。

1.139.26

ततः स्नातो महाबाहुः शुचिशुक्लाम्बरस्रजः ।
ततो नागस्य भवने कृतकौतुकमङ्गलः ॥ १.१३९.२६ ॥

然后,这位大臂者沐浴后,身着洁白的衣裳,佩戴花环,在那伽的宫殿中完成了吉祥的仪式。

1.139.27

ओषधीभिर्विषघ्नीभिः सुरभीभिर्विशेषतः ।
भुक्तवान्परमान्नं च नागैर्दत्तं महाबलः ॥ १.१३९.२७ ॥

这位大力者食用了那伽所赠的上好食物,其中配有解毒和芬芳的草药。

1.139.28

पूजितो भुजगैर्वीर आशीर्भिश्चाभिनन्दितः ।
दिव्याभरणसंछन्नो नागानामन्त्र्य पाण्डवाः ॥ १.१३९.२८ ॥

受到蛇众的尊敬,并以祝福相迎,这位英雄身披神圣的饰物,向那伽告别,即般度之子。

1.139.29

उदतिष्ठत्प्रहृष्टात्मा नागलोकादरिन्दमः ।
उत्क्षिप्य च तदा नागैर्जलाज्जलरुहेक्षणः ॥ १.१३९.२९ ॥

这位制伏敌人者心中欢喜,从那伽界起身。那时,那伽们把这位莲花眼者从水中托起。

1.139.30

तस्मिन्नेव वनोद्देशे स्थापितः कुरुनन्दनः ।
ते चान्तर्दधिरे नागाः पाण्डवस्यैव पश्यतः ॥ १.१३९.३० ॥

他被放置在那片森林之中,那伽们在般度之子注视之下消失了。

1.139.31

तत उत्थाय कौन्तेयो भीमसेनो महाबलः ।
आजगाम महाबाहुर्मातुरन्तिकमञ्जसा ॥ १.१३९.३१ ॥

于是,贡蒂之子、大力的怖军站起身来,径直来到母亲身边。

1.139.32

ततोऽभिवाद्य जननीं ज्येष्ठं भ्रातरमेव च ।
कनीयसः समाघ्राय शिरस्स्वरिविमर्दनः ॥ १.१३९.३२ ॥

然后,他向母亲和兄长致敬,这位击溃敌人者拥抱弟弟们,并嗅了嗅他们的头顶。

1.139.33

तैश्चापि संपरिष्वक्तः सह मात्रा नरर्षभैः ।
अन्योन्यगतसौहार्दाद्दिष्ट्या दिष्ट्येति चाब्रुवन् ॥ १.१३९.३३ ॥

那些人中雄牛也与母亲一同拥抱了他,并因彼此的深情说道:“吉祥!吉祥!”

1.139.34

ततस्तत्सर्वमाचष्ट दुर्योधनविचेष्टितम् ।
भ्रातॄणां भीमसेनश्च महाबलपराक्रमः ॥ १.१३९.३४ ॥

于是,大力勇猛的怖军把难敌的所有诡计告诉了兄弟们。

1.139.35

नागलोके च यद्वृत्तं गुणदोषमशेषतः ।
तच्च सर्वमशेषेण कथयामास पाण्डवः ॥ १.१३९.३५ ॥

那龙界所发生的一切,连同其中的优劣得失,这位潘度之子全都毫无遗漏地讲述了。

1.139.36

ततो युधिष्ठिरो राजा भीममाह वचोऽर्थवत् ।
तूष्णीं भव न ते जल्प्यमिदं कार्यं कथंचन ॥ १.१३९.३६ ॥

于是国王坚战对怖军说了有意义的话:“住口吧;这件事你无论如何都不应当说出来。”

1.139.37

इतःप्रभृति कौन्तेयं रक्षतान्योन्यमादृताः ।
एवमुक्त्वा महाबाहुर्धर्मराजो युधिष्ठिरः ॥ १.१३९.३७ ॥

从今以后,贡蒂之子们应互相尊敬、彼此守护。大臂的法王坚战如此说道

1.139.38

भ्रातृभिः सहितः सर्वैरप्रमत्तोऽभवत्तदा ।
यदा त्ववगतास्ते वै पाण्डवास्तस्य कर्म तत् ॥ १.१३९.३८ ॥

那时,他与众兄弟一同保持警惕。当般度五子被发觉时,那便是他的所为。

1.139.39

नत्वेव बहुलं चक्रुः प्रयता मन्त्ररक्षणे ।
धर्मात्मा विदुरस्तेषां प्रददौ मतिमान्मतिम् ॥ १.१३९.३९ ॥

然而,他们在守护密议方面并不常常谨慎。德行高尚、智慧过人的维杜罗给了他们建议。

1.139.40

दुर्योधनोऽपि तं दृष्ट्वा पाण्डवं पुनरागतम् ।
निश्वसंश्चिन्तयंश्चैवमहन्यहनि तप्यते ॥ १.१३९.४० ॥

难敌见那般度子再次归来,便叹息并如此思虑,日复一日地煎熬。

1.139.41

कुमारान्क्रीडमानांस्तान्दृष्ट्वा राजातिदुर्मदान् ।
गुरुं शिक्षार्थमन्विष्य गौतमं तान्न्यवेदयत् ॥ १.१३९.४१ ॥

国王见那些极为傲慢的王子在嬉戏,便寻找老师来教导他们,并将他们托付给乔达摩。

1.139.42

शरस्तम्बे समुद्भूतं वेदशास्त्रार्थपारगम् ।
राज्ञा निवेदितास्तस्मै ते च सर्वे च निष्ठिताः।
अधिजग्मुश्च कुरवो धनुर्वेदं कृपात्तु ते ॥ १.१३९.४२ ॥

克利巴出生于芦丛之中,精通吠陀与诸学之义。国王将他推荐给这些王子,他们全都从克利巴那里圆满学会了射艺。