摩诃婆罗多 · 章 1.141
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.141.1
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् ।
अब्रवीत्पार्थिवं राजन्सखायं विद्धि मामिह ॥ १.१४१.१ ॥
于是威勇的婆罗堕遮(德罗纳)走到德鲁帕达面前对那位国王说:“国王啊,请知道我在此是你的朋友。”
1.141.2
इत्येवमुक्तः सख्या स प्रीतिर्पूर्वं जनेश्वरः ।
भारद्वाजेन पाञ्चाल्यो नामृष्यत वचोऽस्य तत् ॥ १.१४१.२ ॥
婆罗堕遮以友谊之名如此说话时,昔日对他怀有情谊的那位潘遮罗国王、人民之主,不能忍受他的这些话。
1.141.3
स क्रोधामर्षजिह्मभ्रूः कषायीकृतलोचनः ।
ऐश्वर्यमदसंपन्नो द्रोणं राजाऽब्रवीदिदम् ॥ १.१४१.३ ॥
这位国王因愤怒与不满而眉头紧皱,双眼泛红,充满权势的骄狂,对德罗纳说了这番话。
1.141.4
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा ।
यन्मां व्रवीषि प्रसभं सखा तेऽहमिति द्विज ॥ १.१४१.४ ॥
婆罗门啊,你的见识不当,你竟胆敢对我说“我是你的朋友”,这毫不恰当,再生者啊。
1.141.5
न हि राज्ञामुदीर्णानामेवंभूतैर्नरैः क्वचित् ।
सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥ १.१४१.५ ॥
愚钝之人啊,与那些失去福运、丧失财富的此类人,高贵的国王绝不会结交为友。
1.141.6
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यतः ।
सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ॥ १.१४१.६ ॥
即便友谊,也会随时间而衰退,对于被时间磨损的人而言;从前我与你的友谊,是势均力敌的纽带。
1.141.7
न सख्यमजरं लोके हृदि तिष्ठति कस्यचित् ।
कामश्चैतन्नाशयति क्रोधो वैनं रहत्युत ॥ १.१४१.७ ॥
世上任何人心中的友谊都不会永不衰退;欲望毁灭它,或者愤怒抛弃它。
1.141.8
मैवं जीर्णमुपास्स्व त्वं सख्यं भवदुपाधिकृत् ।
आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ॥ १.१४१.८ ॥
最优秀的婆罗门啊,不要紧抓这样衰败的友谊。那由你的境况所生的友谊,对我而言是建立在利益之上的。
1.141.9
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा ।
न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते ॥ १.१४१.९ ॥
穷人不是富人的朋友,无知者不是学者的朋友,懦夫不是英雄的朋友。那么,何必去追求旧日的友谊呢?
1.141.10
ययोरेव समं वित्तं ययोरेव समं श्रुतम् ।
तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः ॥ १.१४१.१० ॥
只有财富相等、学识相同的两人之间才有婚姻与友谊,而不是富者与不富者之间。
1.141.11
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ।
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥ १.१४१.११ ॥
不通吠陀者不是吠陀学者的朋友,无车者不是车战者的朋友,非国王者也不是国王的朋友。那么,何必去追求旧日的友谊呢?
1.141.12
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् ।
मुहूर्तं चिन्तयित्वा तु मन्युनाऽभिपरिप्लुतः ॥ १.१४१.१२ ॥
德鲁帕达如此说后,威武的婆罗堕遮(德罗纳)沉思片刻,随即被愤怒淹没。
1.141.13
स विनिश्चित्य मनसा पाञ्चाल्यं प्रतिबुद्धिमान् ।
शिष्यैः परिवृतः श्रीमान्पुत्रेण सहितस्तथा ॥ १.१४१.१३ ॥
他心中已决意反对般遮罗王,这位聪慧而光荣的人便在弟子环绕下,与儿子一同启程。
1.141.14
जगाम कुरुमुख्यानां नागरं नागसाह्वयम् ।
तां प्रतिज्ञां प्रतिज्ञाय यां कर्ता नचिरादिव ॥ १.१४१.१४ ॥
他前往俱卢族首领的城市,名为那伽婆耶(象城),他已立下即将实现的誓愿。
1.141.15
स नागपुरमागम्य गौतमस्य निवेशने ।
भारद्वाजोऽवसत्तत्र प्रच्छन्नं द्विजसत्तमः ॥ १.१४१.१५ ॥
他来到象城哈斯蒂纳普尔,在乔达摩(克利帕)的住所中秘密住下;这位再生者中的最优者,是婆罗堕遮之子。
1.141.16
ततोऽस्य तनुजः पार्थान्कृपस्यानन्तरं प्रभुः ।
अस्त्राणि शिक्षयामास नाबुध्यन्त च तं जनाः ॥ १.१४१.१६ ॥
此后,他那强大的儿子在克利帕之后,教导普利塔之子(般度五子)弓箭之术;人们却不知道他是谁。
1.141.17
एवं स तत्र गूढात्मा कंचित्कालमुवास ह ।
कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् ॥ १.१४१.१७ ॥
他就这样在那里以隐藏的身份住了一段时间;之后,王子们从名为象城的城市出来,聚集在一起。
1.141.18
क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा ।
तेषां संक्रीडमानानामुदपानेऽङ्गुलीयकम् ॥ १.१४१.१८ ॥
那些英雄在那里玩球,欢乐地四处走动;在他们玩耍时,一枚指环掉进了井里。
1.141.19
पपात धर्मपुत्रस्य वीटा तत्रैव चापतत् ।
गर्तान्बुना प्रतिच्छन्नं तारारूपमिवाम्बरे ॥ १.१४१.१९ ॥
法之子的球就落在那里;它隐没在井底,看起来像天空中星星的形状。
1.141.20
दृष्ट्वा चैते कुमाराश्च तं यत्नात्पर्यवारयन् ।
ततस्ते यत्नमातिष्ठन्वीटामुद्धर्तुमादृताः।
न च ते प्रत्ययद्यन्त कर्म वीटोपलब्धये ॥ १.१४१.२० ॥
这些少年见此,尽力想要阻止它;然后他们恭敬地设法把球取出,却未能成功把球拿回。
1.141.21
ततोऽन्योन्यमवैक्षन्त व्रीडयावनताननाः ।
तस्या योगमविदन्तो भृशं चोत्कण्ठिताभवन् ॥ १.१४१.२१ ॥
于是他们因羞愧而低着头,彼此相望;不知道取回它的办法,他们十分焦急。
1.141.22
तेऽपश्यन्ब्राह्मणं श्याममापन्नं पलितं कृशम् ।
कृत्यवन्तमदूरस्थमग्निहोत्रपुरस्कृतम् ॥ १.१४१.२२ ॥
他们看见一位婆罗门,肤色黝黑,年事已高,头发花白,身形瘦削,就站在不远处,面前安放着火供之火,正在行祭祀之事。
1.141.23
ते तं दृष्ट्वा महातमानमुपगम्य कुमारकाः ।
भग्नोत्साहक्रियात्मानो ब्राह्मणं पर्यवारयन् ॥ १.१४१.२३ ॥
这些少年看到那位大德之人,便走近前去,锐气和行动都已消沉,于是把婆罗门围了起来。
1.141.24
अथ द्रोणः कुमारांस्तान्दृष्ट्वा कत्यवशस्तदा ।
प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् ॥ १.१४१.२४ ॥
这时,德罗纳这位勇士因怜悯而动情,看见那些少年,微微一笑,出于善意向他们说话。
1.141.25
अहो वो धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् ।
भरतस्यान्वये जाता ये वीटां नाधिगच्छत ॥ १.१४१.२५ ॥
唉!你们的刹帝利之力可耻,你们的武艺也可耻;你们生于婆罗多之族,竟未能取得那个球。
1.141.26
वीटां च मुद्रिकां चैव ह्यहमेतदपि द्वयम् ।
उद्धरेयमिषीकाभिर्भोजनं मे प्रदीयताम् ॥ १.१४१.२६ ॥
那球与戒指,这两样我都要用箭射起来。请给我食物。
1.141.27
ततोऽब्रवीत्तदा द्रोणं कुन्तीपुत्रो युधिष्ठिरः ।
कृपस्यानुमते ब्रह्मन्भिक्षामाप्नुहि शाश्वतीम् ॥ १.१४१.२७ ॥
于是贡提之子坚战对德罗纳说:婆罗门啊,经克里帕同意,您便可获得长久的布施。
1.141.28
एवमुक्तः प्रत्युवाच प्रहस्य भरतानिदम् ।
एषा मुष्टिरिषीकाणां मयाऽस्त्रेणाभिमन्त्रिता ॥ १.१४१.२८ ॥
德罗纳听了这话,笑着对婆罗多人说:这一把箭,是我以武器咒语加持过的。
1.141.29
अस्या वीर्यं निरीक्षध्वं यदन्येषु न विद्यते ।
वेत्स्यामीषिकया वीटां तामिषीकां तथाऽन्यया ॥ १.१४१.२९ ॥
请看此箭之力,这是别人所没有的。我将用一支箭认出那球,再用另一支箭认出那支箭。
1.141.30
तामन्यया समायोगे वीटाया ग्रहणं मम ।
ततो यथोक्तं द्रोणेन तत्सर्वं कृतमञ्जसा ॥ १.१४१.३० ॥
以此箭与另一箭相接,取得那球,便是我的事。随后,正如德罗纳所说,一切都迅速完成了。
1.141.31
तदवेक्ष्य कुमारास्ते विस्मयोत्फुल्ललोचनाः ।
आश्चर्यमिदमत्यन्तमिति मत्वा वचोऽब्रुवन् ॥ १.१४१.३१ ॥
众王子见此,惊奇地睁大双眼,心想“这真是太奇妙了”,于是说道:
1.141.32
मुद्रिकामणि विप्रर्षे शीध्रमेतां समुद्धरथ ।
ततः शरं समादाय धनुश्चापि महायशाः ॥ १.१४१.३२ ॥
“婆罗门圣仙啊,请快把这枚指环宝石取出来。”于是这位大名鼎鼎者取过箭与弓。
1.141.33
शरेण विद्ध्वा मुद्रां तामूर्ध्वमावाहयत्प्रभुः ।
स शरं समुपादाय कूपादङ्गुलिवेष्टनम् ॥ १.१४१.३३ ॥
他以箭射穿那印章,将它向上拉起。随后他取过那支箭,从井中取出了指环。
1.141.34
ददौ ततः कुमाराणां विस्मितानामविस्मितः ।
मुद्रिकामुद्धृतां दृष्ट्वा तमाहुस्ते कुमारकाः ॥ १.१४१.३४ ॥
于是他自己并不惊讶,将它交给了惊讶的王子们。王子们见取出的指环,便对他说道。
1.141.35
अभिवन्दामहे ब्रह्मन्नैतदन्येषु विद्यते ।
कोऽसि कस्यासि जानीमो वयं किं करवामहे ॥ १.१४१.३५ ॥
“婆罗门啊,我们向您致敬;这样的技艺在别人身上找不到。您是谁,是谁的儿子?我们不知道;我们该做什么呢?”
1.141.36
एवमुक्तस्ततो द्रोणः प्रत्युवाच कुमारकान् ।
आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् ॥ १.१४१.३६ ॥
被这样询问后,德罗纳回答王子们说:“你们去告诉毗湿摩,并从我的容貌与德行来认识我。”
1.141.37
स एव सुमहातेजाः सांप्रतं प्रतिपत्स्यते ।
तथेत्युक्त्वा च गत्वा च भीष्ममूचुः कुमारकाः ॥ १.१४१.३७ ॥
这位大光明者如今将会应允。众童子说“好”,便去告诉毗湿摩。
1.141.38
ब्राह्मणस्य वचः कृत्स्नं तच्च कर्म तथाविधम् ।
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत ॥ १.१४१.३८ ॥
毗湿摩从童子们那里听到婆罗门的全部话语和那样的行为,便认出了那位德罗纳。
1.141.39
युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च ।
अथैनमानीय तदा स्वयमेव सुसत्कृतम् ॥ १.१४१.३९ ॥
他想:“此人确是相称的师长。”毗湿摩便亲自将他迎来,给予极好的礼敬。
1.141.40
परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः ।
हेतुमागमने तच्च द्रोणः सर्वं न्यवेदयत् ॥ १.१४१.४० ॥
持兵器者中的最优者毗湿摩仔细询问,德罗纳便将来意一一禀告。
1.141.41
महर्षेरग्निवेश्यस्य सकाशमहमच्युत ।
अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया ॥ १.१४१.४१ ॥
阿周那啊,我先前为求武器,想要掌握弓术,去到大仙阿耆尼吠舍面前。
1.141.42
ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः ।
अवसं सुचिरं तत्र गुरुशुश्रूषणे रतः ॥ १.१४१.४२ ॥
我作为梵行者,心怀谦逊,头发蓬乱,专心侍奉师尊,在那里住了很多年。
1.141.43
पाञ्चाल्यो राजपुत्रश्च यज्ञसेनो महाबलः ।
इष्वस्त्रहेतोर्न्यवसत्तस्मिन्नेव गुरौ प्रभुः ॥ १.१४१.४३ ॥
般遮罗王子、大力的祭祀军,为学习弓箭之术,住在那位老师的同一家中。
1.141.44
स मे तत्र सखा चासीदुपकारी प्रियश्च मे ।
तेनाहं सह संगम्य वर्तयन्सुचिरं प्रभो ॥ १.१४१.४४ ॥
他在那里是我的朋友,乐于助人,对我亲爱。主啊,与他相聚,我度过了很长时间。
1.141.45
बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च ।
स मे सखा सदा तत्र प्रियवादी प्रियंकरः ॥ १.१४१.४५ ॥
哦,俱卢之后,我们从童年起就一同学习。他在那里始终是我的朋友,言语悦耳,行事令我欢喜。
1.141.46
अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् ।
अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः ॥ १.१४१.४६ ॥
他对我说了这些增进情谊的话:哦,毗湿摩,“我是我父亲、大德德罗纳最心爱的儿子。”
1.141.47
अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा ।
तद्भोज्यं भवता राज्यमर्धं सत्येन ते शपे ॥ १.१४१.४७ ॥
当那位般遮罗王立我为王时,你便可享有那王国的一半——我以真实向你发誓。
1.141.48
मम भोगाश्च वित्तं च त्वदधीनं सुखानि च ।
एवमुक्त्वाऽथ वव्राज कृतास्त्रः पूजितो मया ॥ १.१४१.४८ ॥
我的享乐、财富与快乐,都将听从于你。说完这话,他精通武艺,受到我的尊敬,便离去了。
1.141.49
तच्च वाक्यमहं नित्यं मनसा धारयंस्तदा ।
सोऽहं पितृनियोगेन पुत्रलोभाद्यशस्विनीम् ॥ १.१४१.४९ ॥
我始终将那些话铭记在心。那时,我遵从父命,出于渴望有子之心,娶了那位名声显赫的女子。
1.141.50
शारद्वतीं महाप्रज्ञामुपयेमे महाव्रताम् ।
अग्निहोत्रे च सत्रे च दमे च सततं रताम् ॥ १.१४१.५० ॥
我娶了沙罗特瓦特之女沙罗特瓦蒂,她智慧非凡,持守大誓,始终热衷于火祭、祭祀与克制自身。
1.141.51
लेभे च गौतमी पुत्रमश्वत्थामानमौरसम् ।
भीमविक्रमकर्माणमादित्यसमतेजसम् ॥ १.१४१.५१ ॥
我从嘉烏塔米那里得到了亲生之子阿湿婆陀摩,他的功业勇猛可怖,光辉堪比太阳。
1.141.52
पुत्रेण तेन प्रीतोऽहं भरद्वाजो मया यथा ।
गोक्षीरं पिबतो दृष्ट्वा धनिनस्तत्र पुत्रकान्।
अश्वत्थामारुदद्बालस्तन्मे संदेहयद्दिशः ॥ १.१४१.५२ ॥
我因此子而欢喜,正如我的父亲婆罗堕阇因我而欢喜。我在那里看见富人的孩子饮用牛奶,童子阿湿婆陀摩便哭了起来,他的哭声让我的四方都陷入迷惘。
1.141.53
न स्नातकोऽवसीदेत वर्तमानः स्वकर्मसु ।
इति संचिन्त्य मनसा तं देशं बहुशो भ्रमन् ॥ १.१४१.५३ ॥
已完成学业、安住本分的家主不应陷于困顿。我心中如此思量,多次游历那片土地。
1.141.54
विशुद्धणिच्छन्गाङ्गेय धर्मोपेतं प्रतिग्रहम् ।
अन्तादन्तं परिक्रम्य नाध्यगच्छं पयस्विनीम् ॥ १.१४१.५४ ॥
恒河之子啊,我寻求清净而合乎法义的布施,四处走遍,却找不到一头产乳的母牛。
1.141.55
यवपिष्टोदकेनैनं लोभयेयं कुमारकम् ।
पीत्वा पिष्टरसं बालः क्षीरं पीतं मयाऽपि च ॥ १.१४१.५५ ॥
我要用混有大麦粉的水哄骗这个孩子。孩子喝了磨碎谷物的汁,而我也曾喝过牛奶。
1.141.56
ननर्तोत्थाय कौरव्य हृष्टो बाल्याद्विमोहितः ।
तं दृष्ट्वा नृत्यमानं तु बालैः परिवृतं सुतम् ॥ १.१४१.५६ ॥
哦,库鲁的后裔,他因孩童的痴迷而欢喜,起身跳舞。看见儿子在众童围绕中舞蹈……
1.141.57
हास्यतामुपसंप्राप्तं कश्मलं तत्र मेऽभवत् ।
द्रोणं धिगस्त्वधनिनं यो धनं नाधिगच्छति ॥ १.१४१.५७ ॥
在那里,我成了众人讥笑的对象,心中一阵烦乱。羞耻啊,这个无法获得财富的贫穷的德罗纳!
1.141.58
पिष्टोदकं सुतो यस्य पीत्वा क्षीरस्य तृष्णया ।
नृत्यतिस्म मुदाविष्टः क्षीरं पीतं मयाऽप्युत ॥ १.१४१.५८ ॥
他的儿子喝了磨碎谷物的水,因渴望牛奶而欢喜起舞,而我也曾喝过牛奶。
1.141.59
इति संभाषतां वाचं श्रुत्वा मे बुद्धिरच्यवत् ।
आत्मानं चात्मना गर्हन्मनसेदं व्यचिन्तयम् ॥ १.१४१.५९ ॥
听到这样的话,我的心智动摇了。我自责不已,在心中这样思量。
1.141.60
अपि चाहं पुरा विप्रैर्वर्जितो गर्हितो वसे ।
परोपसेवां पापिष्ठां न च कुर्यां धनेप्सया ॥ १.१४१.६० ॥
我以前也曾被婆罗门所弃、所责而生活。但我不会因贪求财富而去做他人最罪恶的服务。
1.141.61
इति मत्वा प्रियं पुत्रं भीष्मादाय ततो ह्यहम् ।
पूर्वस्नेहानुरागित्वात्सदारः सौमकिं गतः ॥ १.१४१.६१ ॥
如此思量,我带着心爱的儿子,从毗湿摩处得到(资助),因昔日的情谊,与妻子前往苏摩迦那里。
1.141.62
अभिषिक्तं तु श्रुत्वैव कृतार्थोऽस्मीति चिन्तयन् ।
प्रियं सखायं सुप्रीतो राज्यस्थं समुपागमम् ॥ १.१४१.६२ ॥
听闻他已被灌顶为王,我心想「我已成就」,极为欢喜,便前往那位已居王位的亲爱朋友处。
1.141.63
संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत् ।
ततो द्रुपदमागम्य सखइपूर्वमहं प्रभो ॥ १.१४१.६३ ॥
回想当年的相会与他的话语,然后来到德鲁巴达处,主啊,我如从前一般以朋友的身份……
1.141.64
अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति ।
उपस्थितस्तु द्रुपदं सखिवच्चास्मि सङ्गतः ॥ १.१४१.६४ ॥
人中之虎啊,我说:「请知道我是你的朋友。」我来到德鲁巴达面前,如朋友般与他相见。
1.141.65
स मां निराकारमिव प्रहसन्निदमब्रवीत् ।
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा ॥ १.१४१.६५ ॥
他仿佛不认识我,笑着对我说:「婆罗门啊,你的这种见识不成熟,很不恰当。」
1.141.66
यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज ।
संगतनीह जीर्यन्ति कालेन परिजीर्यतः ॥ १.१४१.६६ ॥
二生者啊,你对我大胆地说「我是你的朋友」。此处友谊不因时间而衰老,只是那随时间而衰老的人……
1.141.67
सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ।
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ॥ १.१४१.६७ ॥
从前你我的友谊是同等能力的纽带。精通吠陀者的朋友不会不通吠陀,车手的朋友不会没有车。
1.141.68
साम्याद्धि सख्यं भवति वैषम्यान्नोपपद्यते ।
न सख्यमजरं लोके विद्यते जातु कस्यचित् ॥ १.१४१.६८ ॥
友谊确实产生于平等;由不平等则无法建立。世间没有任何人的友谊是永不衰老的。
1.141.69
कामो वैनं विहरति क्रोधो वैनं रहत्युत ।
मैवं जीर्णमुपास्स्व त्वं सख्यं भवदुपाधिकृत् ॥ १.१४१.६९ ॥
欲望可能使他迷失,或者愤怒可能使他离去。不要紧抓这样衰败的友谊;那是仅靠你的地位而人为维持的友谊。
1.141.70
आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ।
नह्यनाढ्यः सखाऽऽढ्यस्य नाविद्वान्विदुषः सखा ॥ १.१४१.७० ॥
啊,最优秀的再生者,我们的友谊建立在财富之上。贫穷者不是富人的朋友,无知者不是智者的朋友。
1.141.71
न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते ।
न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित् ॥ १.१४१.७१ ॥
英雄的朋友不会是懦夫。对于曾经的朋友,还能期望什么?在崇高的国王之间,与处于这种境况的人从来没有友谊。
1.141.72
सख्यं भवति मन्दात्मञ्छ्रिया हीनैर्धनच्युतैः ।
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ॥ १.१४१.७२ ॥
愚钝的人啊,友谊产生于富足的人之间,而不是在失去财富、贫穷无助的人之间。精通吠陀者的朋友不会不通吠陀,车手的朋友不会没有车。
1.141.73
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ।
अहं त्वया न जानामि राज्यार्थे संविदं कृताम् ॥ १.१४१.७३ ॥
非王者即使与地上的君主为友,又为何要求?我不知道你为王国所立的约定。
1.141.74
एकरात्रं तु ते ब्रह्मन्कामं दास्यामि भोजनम् ।
एवमुक्तस्त्वहं तेन सदारः प्रस्थितस्तदा ॥ १.१४१.७४ ॥
婆罗门啊,一夜之间我会给你你想要的食物。被他这样说后,我便与妻子一同动身了。
1.141.75
तां प्रतिज्ञां प्रतिज्ञाय यां कर्ताऽस्म्यचिरादिव ।
द्रुपदेनैवमुक्तोऽहं मन्युनाऽभिपरिप्लुतः ॥ १.१४१.७५ ॥
我立下了那个不久就会实现的誓言。德鲁帕达如此说后,我被愤怒充满。
1.141.76
अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः ।
ततोऽहं भवतः कामं संवर्धयितुमागतः ॥ १.१४१.७६ ॥
婆罗门啊毗湿摩,我带着有德行的弟子,为求财富来到俱卢族。之后,我前来满足你的心愿。
1.141.77
इदं नागपुरं रम्यं ब्रूहि किं करवाणि ते ।
एवमुक्तस्तदा भीष्मो भारद्वाजमभाषत ॥ १.१४१.७७ ॥
这是美丽的那伽城。请告诉我,我该为你做什么。被如此问后,毗湿摩便对婆罗堕阇之子说话。
1.141.78
अपज्यं क्रियतां चापं साध्वस्त्रं प्रतिपादय ।
भुङ्क्ष भोगान्भृशं प्रीतः पूज्यमानः कुरुक्षये ॥ १.१४१.७८ ॥
让弓弦松开。好好传授武器之术。在俱卢之地受人尊敬,极为欢喜地享受种种乐趣吧。
1.141.79
कुरूणामस्ति यद्वित्तं राज्यं चेदं सराष्ट्रकम् ।
त्वमेव परमो राजा सर्वे वाक्यकरास्तव ॥ १.१४१.७९ ॥
库鲁族所有的财富,以及这王国与其领土,你便是至高无上的王;所有人都听从你的命令。
1.141.80
यच्च ते प्रार्थितं ब्रह्मन्कृतं तदिति चिन्त्यताम् ।
दिष्ट्या प्राप्तोऽसि विप्रर्षे महान्मेऽनुग्रहः कृतः ॥ १.१४१.८० ॥
婆罗门啊,请认为你所求之事已经办成。幸运的是你来了,婆罗门仙人;你对我施予了大恩。