Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.142

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.142.1

प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह ।
पौत्रानादाय तान्सर्वान्वसूनि विविधानि च ॥ १.१४२.१ ॥

毗湿摩与般度之子一同接纳了那位师尊,带上所有孙辈和各种财物。

1.142.2

शिष्य इति ददौ राजन्द्रोणाय विधिपूर्वकम् ।
तदा द्रोणोऽब्रवीद्वाक्यं भीष्मं बुद्धिमतां वरम् ॥ १.१४२.२ ॥

他视之为弟子,哦国王,依礼交给了德罗纳;于是德罗纳对智者中最优秀的毗湿摩说了这番话。

1.142.3

कृपस्तिष्ठति चाचार्यः शस्त्रज्ञः प्राज्ञसंमतः ।
मयि तिष्ठति चेद्विप्रो वैमनस्यं गमिष्यति ॥ १.१४२.३ ॥

克里帕是师长,精通武艺,为智者所推重,让他留在这里吧。若这位婆罗门与我同在,便会生出嫌隙。

1.142.4

युष्मान्किंचिच्च याचित्वा धनं संगृह्य हर्षितः ।
स्वमाश्रमपदं राजन्गमिष्यामि यथागतम् ॥ १.१४२.४ ॥

向你们求取些许,聚集财物,心中欢喜,哦国王,我将如来时一样,回到我的修行处。

1.142.5

एवमुक्ते तु विप्रेन्द्रं भीष्मः प्रहरतां वरः ।
अब्रवीद्द्रोणमाचार्यमुख्यं शस्त्रविदां वरम् ॥ १.१४२.५ ॥

此言既出,战士中最杰出的毗湿摩对婆罗门之首、师长中最主要、精通武艺者中最优秀的德罗纳说道。

1.142.6

कृपस्तिष्ठतु पूज्यश्च भर्तव्यश्च मया सदा ।
त्वं गुरुर्भव पौत्राणामाचार्यस्त्वं मतो मम।
प्रतिगृह्णीष्व पुत्रांस्त्वमस्त्रज्ञान्कुरु वै सदा ॥ १.१४२.६ ॥

让克里帕留下吧;他值得尊敬,我应永远供养他。你做孙辈的师长,我心中认定你就是他们的老师。接受这些孩子,并让他们始终精通武艺。

1.142.7

ततः संपूजितो द्रोणो भीष्मेण द्विपदां वरः ।
विशश्राम महातेजाः पूजितः कुरुवेश्मनि ॥ १.१४२.७ ॥

于是,受到毗湿摩尊敬的、人中之最、大光辉的德罗纳,在俱卢的宫室中歇息,并受到礼遇。

1.142.8

विश्रान्तेऽथ गुरौ तस्मिन्पौत्रानादाय कौरवान् ।
शिष्यत्वेन ददौ भीष्मो वसूनि विविधानि च ॥ १.१४२.८ ॥

导师歇息之后,毗湿摩带来俱卢族的孙辈,将他们作为弟子交予他,并赠予多种财富。

1.142.9

गृहं च सुपरिच्छन्नं धनधान्यसमाकुलम् ।
भारद्वाजाय सुप्रीतः प्रत्यपादयत प्रभुः ॥ १.१४२.९ ॥

主人毗湿摩极为欢喜,将一座屋顶完好、充满财物与谷物的房屋赠予婆罗堕遮(德罗纳)。

1.142.10

स ताञ्शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् ।
पाण्डवान्धार्तराष्ट्रांश्च द्रोणो मुदितमानसः ॥ १.१४२.१० ॥

那位大弓手德罗纳心怀喜悦,接纳了那些弟子——俱卢族、般度族,以及持国之子。

1.142.11

प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् ।
रहस्येकः प्रतीतात्मा कृतोपसदनांस्तथा ॥ १.१४२.११ ॥

德罗纳接纳了他们所有人之后,独自在私下,心意笃定,对那些恭敬走近的弟子说了这些话。

1.142.12

कार्यं मे काङ्क्षितं किंचिद्धृदि संपरिवर्तते ।
कृतास्त्रैस्तत्प्रदेयं मे तदेतद्वदतानघाः ॥ १.१४२.१२ ॥

我心中萦绕着一件想要完成的事;无过失的诸位,精通武艺的你们,应当将那件事交给我——请说出此诺。

1.142.13

तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशांपते ।
अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तप ॥ १.१४२.१३ ॥

考勒瓦们听了这话,默不作声,人民之主啊。于是阿周那承诺一切照办,敌人的焚烧者啊。

1.142.14

ततोऽर्जुनं तदा मूर्ध्नि समाघ्राय पुनः पुनः ।
प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा ॥ १.१४२.१४ ॥

于是德罗纳一次又一次地嗅着阿周那的头,满怀爱意地拥抱他,然后欢喜地哭了。

1.142.15

अश्वत्थामानमाहूय द्रोणो वचनमब्रवीत् ।
सखायं विद्धि ते पार्थं मया दत्तः प्रगृह्यताम् ॥ १.१४२.१५ ॥

德罗纳召来阿湿缚塔曼,说道:'要知道,般度之子是你的朋友;我已将他交给你,你接受他吧。'

1.142.16

साधुसाध्विति तं पार्थः परिष्वज्येदमब्रवीत् ।
अद्यप्रभृति विप्रेन्द्र परवानस्मि धर्मतः ॥ १.१४२.१६ ॥

阿周那说了一声'好,好!',拥抱了他,说道:'婆罗门中最优秀者啊,从今天起,我依法听从您。'

1.142.17

शिष्योऽहं त्वत्प्रसादेन जीवामि द्विजसत्तम ।
इत्युक्त्वा तु तदा पार्थः पादौ जग्राह पाण्डवः ॥ १.१४२.१७ ॥

他说:'婆罗门中最优秀者啊,我是您的弟子,唯有凭您的恩惠我才得以生存。'说完,般度之子阿周那便抱住了他的双脚。

1.142.18

ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च ।
ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ॥ १.१४२.१८ ॥

于是有力的德罗纳让般度之子们学习了各种神圣和凡俗的兵器。

1.142.19

राजपुत्रास्तथा चान्ये समेत्य भरतर्षभ ।
अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् ॥ १.१४२.१९ ॥

婆罗多族的雄牛啊,王子们和其他人聚集在一起,为了学习武器之术,前去拜见再生族中最优秀的德罗纳。

1.142.20

वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः ।
सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा ॥ १.१४२.२० ॥

维里施尼族和安陀迦族、各地的国王,以及御者之子罗德耶(迦尔纳),当时都前往他们的老师德罗纳处。

1.142.21

स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः ।
दुर्योधनं समाश्रित्य सोऽवमन्यत पाण्डवान् ॥ १.१४२.२१ ॥

与普利塔之子(阿周那)竞争的御者之子极其不能容忍,依靠难敌,轻视般度五子。

1.142.22

अभ्ययात्स ततो द्रोणं धनुर्वेदचिकीर्षया ।
शिक्षाभुजवलोद्योगैस्तेषु सर्वेषु पाण्डवः ॥ १.१४२.२२ ॥

他怀着精通弓箭之学的愿望前往德罗纳处;在学业、臂力和勤奋上,般度之子在他们所有人中最为出色。

1.142.23

अस्त्रविद्यानुरागाच्च विशिष्टोऽभवदर्जुनः ।
तुल्येष्वस्त्रप्रयोगेषु लाघवे सौष्टवेषु च ॥ १.१४२.२३ ॥

因热爱武器之学,阿周那变得卓越非凡;在运用武器、手法灵巧和技艺娴熟方面,他与同辈相当,却独树一帜。

1.142.24

सर्वेषामेव शिष्याणां बभूवाभ्यधिकोऽर्जुनः ।
ऐन्द्रिमप्रतिमं द्रोण उपदेशेष्वमन्यत ॥ १.१४२.२४ ॥

在所有弟子中,阿周那成为最为出众的人;德罗纳在教导中认为他无与伦比,如同因陀罗一般。

1.142.25

एवं सर्वकुमाराणामिष्वस्त्रं प्रत्यपादयत् ।
कमण्डलुं च सर्वेषां प्रायच्छच्चिरकारणात् ॥ १.१४२.२५ ॥

如是,他教导所有王子以武器之术,因他们耽搁甚久,便给了他们每人一个水瓶(kamaṇḍalu)。

1.142.26

पुत्राय च ददौ कुम्भमविलम्बनकारणात् ।
यावत्ते नोपगच्छ्ति तावदस्मै परां क्रियाम् ॥ १.१४२.२६ ॥

又为儿子给了一只瓮,以免耽误;在他们到来之前,为他举行最高的仪式。

1.142.27

द्रोण आचष्ट पुत्राय कर्म तज्जिष्णुरौहत ।
ततः स वारुणास्त्रेण पूरयित्वा कमण्डलुम् ॥ १.१४२.२७ ॥

德罗纳将那个仪轨教给儿子,胜利者阿周那接受了它。随后,他以伐楼那之箭装满水瓶——

1.142.28

सममाचार्यपुत्रेण गुरुमभ्येति फाल्गुनः ।
आचार्यपुत्रात्तस्मात्तु विशेषोपचयेऽपृथक् ॥ १.१४२.२८ ॥

法尔古那与老师之子一同来到老师面前;然而在技艺的特别积累上,他与老师之子并无分别。

1.142.29

न व्यहीयत मेधावी पार्थोऽप्यस्त्रविदां वरः ।
अर्जुनः परमं यत्नमातिष्ठद्गुरुपूजने ॥ १.१४२.२९ ॥

聪慧的帕尔塔虽是诸知武器者中最优秀的,也不落后;阿周那在敬奉老师上付出了最大的努力。

1.142.30

अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् ।
तं दृष्ट्वा नित्यमुद्युक्तमिष्वस्त्रं प्रति फाल्गुनम् ॥ १.१४२.३० ॥

在武器之术中,他达到了最高的造诣,也成为德罗纳所喜爱的人;见法尔古那总是专注于射箭——

1.142.31

आहूय वचनं द्रोणो रहः सूदमभाषत ।
अन्धकारेऽर्जुनायान्नं न देयं ते कदाचन।
न चाख्येयमिदं चापि मद्वाक्यं विजयेत्वया ॥ १.१४२.३१ ॥

德罗纳召来厨师,私下对他说:"在黑暗中绝不可给阿周那食物。也不可把我这句话告诉任何人。"

1.142.32

ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने ।
तेन तत्र प्रदीपः स दीप्यमानो विलोपितः ॥ १.१४२.३२ ॥

一次,阿周那正在用餐,风吹过来,那里燃烧的灯便被吹灭了。

1.142.33

भुक्त एव तु कौन्तेयो नास्यादन्यत्र वर्तते ।
हस्तस्तेजस्विनस्तस्य अनुग्रहणकारणात् ॥ १.१४२.३३ ॥

即使吃完之后,贡蒂之子的手也不会转向别处,这是那位光辉者练习所带来的恩惠。

1.142.34

तदभ्यासकृतं मत्वा रात्रावपि स पाण्डवः ।
योग्यां चक्रे महाबाहुर्धनुषा पाण्डुनन्दनः ॥ १.१४२.३४ ॥

他认为这是自己练习的结果,于是那位大臂的般度之子,即使在夜间,也用弓进行了适当的练习。

1.142.35

तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत ।
उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् ॥ १.१४२.३५ ॥

婆罗多之子啊,德罗纳听到了他弓弦的响声。他走近前去,站起身来拥抱他,然后说道:

1.142.36

प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः ।
त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते ॥ १.१४२.३६ ॥

我会努力使世上不会再有与你同等的另一位弓箭手。这是我对你说的实话。

1.142.37

ततो द्रोणोऽर्जुनं भूयो हयेषु च गजेषु च ।
रथेषु भूमावपि च रणशिक्षामशिक्षयत् ॥ १.१४२.३७ ॥

随后,德罗纳又在马上、象上、车上,乃至地面上,教授阿周那战争之术。

1.142.38

गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु ।
द्रोणः संकीर्णयुद्धे च शिक्षयामास कौरवान् ॥ १.१४२.३८ ॥

德罗纳教导俱卢子弟使用铁棒、剑术,以及投枪、长矛、标枪,并教授混战之法。

1.142.39

तस्य तत्कौशलं श्रुत्वा धनुर्वेदजिघृक्षवः ।
सजानो राजपुत्राश्च समाजग्मुः सहस्रशः ॥ १.१४२.३९ ॥

闻其精湛技艺,欲学弓术的王子们与亲族一同成千上万地聚集而来。

1.142.40

तान्सर्वाञ्शिक्षयामास द्रोणः शस्त्रभृतां वरः ।
ततो निषादराजस्य हिरण्यधनुषः सुतः।
एकलव्यो महाराज द्रोणमभ्याजगाम ह ॥ १.१४२.४० ॥

德罗纳,持兵器者中的最优者,教导了他们所有人。然后,大王啊,尼沙陀王希兰亚达努之子伊迦罗毗耶来到德罗纳面前。

1.142.41

न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् ।
शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया ॥ १.१४२.४१ ॥

德罗纳精通正法,心想:“他是尼沙陀之子。”遂不收他为弓术弟子,只是出于对那些王子们的顾虑。

1.142.42

शिष्योऽसि मम नैषादे प्रयोगे बलत्तरः ।
निवर्तस्व गृहानेव अनुज्ञातोऽसि नित्यशः ॥ १.१४२.४२ ॥

尼沙陀之子啊,你在练习中比我的弟子更强;然而你还是回去吧,回家去——你永远被允许如此。

1.142.43

स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः ।
अरण्यमनुसंप्राप्य कृत्वा द्रोणं महीमयम् ॥ १.१४२.४३ ॥

那位折磨敌人的英雄以头触碰德罗纳的双足,进入森林,用泥土塑造了德罗纳的像。

1.142.44

तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा ।
इष्वस्त्रे योगमातस्थे परं नियममास्थितः ॥ १.१४२.४४ ॥

他在那尊像前保持弟子对师长的最高礼敬,于是专心练习箭术与兵器,恪守最严格的戒律。

1.142.45

परया श्रद्धयोपेतो योगेन परमेण च ।
विमोक्षादानसन्धाने लघुत्वं परमाप सः ॥ १.१४२.४५ ॥

他以至高的信心和至高的修练,在放箭、取箭与搭箭上获得了极大的敏捷。

1.142.46

लाघवं चास्त्रयोगं च नचिरात्प्रत्यपद्यत ।
अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः।
रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः ॥ १.१४२.४६ ॥

他不久便同时获得了敏捷与施用兵器的本领。后来,一次,在德罗纳许可下,俱卢与般度诸子这些摧敌者,都乘车出外狩猎。

1.142.47

तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया ।
राजन्ननुजगामैकः श्वानमादाय पाण्डवान् ॥ १.१४२.४७ ॥

大王啊,那里有一人偶然携带器具,独自带着一条狗,跟随般度诸子而行。

1.142.48

तेषां विचरतां तत्र तत्तत्कर्मचिकीर्षया ।
श्वाचरन्स पथा क्रीडन्नैषादिं प्रति जग्मिवान् ॥ १.१४२.४८ ॥

他们在那里游荡,各自想做自己的事,那条狗一路嬉戏,朝尼沙陀女人的方向去了。

1.142.49

स कृष्णमलदिग्धाङ्गं कृष्णाजिनजटाघरम् ।
नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके ॥ १.१४२.४९ ॥

狗看见那身体涂满黑色污垢、身穿黑羚羊皮、头戴发结的尼沙陀猎人,便吠叫着站到他身旁。

1.142.50

तदा तस्याथ भषतः शुनः सप्त शरान्मुखे ।
लाघवं दर्शन्नस्त्रे मुमोच युगपद्यथा ॥ १.१४२.५० ॥

于是他展示其娴熟的技艺,同时向那只吠叫的狗的口中射出七支箭。

1.142.51

स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह ।
तं दृष्ट्वा पाण्डवा वीराः परं विस्मयमागताः ॥ १.१४२.५१ ॥

那只狗口中满是箭,来到了般度五子面前。英勇的般度五子见到它,都极为惊讶。

1.142.52

लाघवं शब्धवेधित्वं दृष्ट्वा तत्परमं तदा ।
प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ॥ १.१४२.५२ ॥

他们见到这至高的技艺与听声辨位的本领,便看着他,感到惭愧,并从各方面称赞他。

1.142.53

तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् ।
ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ॥ १.१४२.५३ ॥

国王啊,他们在森林中寻找他,看见那位森林居民正不停地射箭。

1.142.54

न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् ।
तथैनं परिपप्रच्छ्रुः को भवान्कस्य वेत्युत ॥ १.१४२.५४ ॥

然而他们在那副丑陋的形貌中并未认出他,于是问他:“你是谁?是谁的儿子?”

1.142.55

निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् ।
द्रोणशिष्यं च मां वित्त धुर्वेदकृतश्रमम् ॥ १.१४२.५५ ॥

诸位勇士,请知道我是尼沙陀之主希兰雅驮努之子,德罗纳的弟子,曾在弓术之学中勤苦修习。

1.142.56

ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः ।
यथा वृत्तं वने सर्वं द्रोणायाचख्युरद्भुतम् ॥ १.१४२.५६ ॥

他们真正认出了他,于是返回,把在林中发生的那一切奇异之事全都告诉了德罗纳。

1.142.57

कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् ।
रहो द्रोणं समासाद्य प्रणयादिदमब्रवीत् ॥ १.१४२.५७ ॥

国王啊,贡蒂之子阿周那想起了伊迦罗婆,独自走到德罗纳身边,怀着情意说了这番话。

1.142.58

नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः ।
भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ॥ १.१४२.५८ ॥

难道不是你亲自拥抱着我,怀着情意,独自对我说过:我的弟子没有一个会胜过你的吗?

1.142.59

अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् ।
अन्योऽस्ति भवतः शिष्यो निषादाधिपतेः सुतः। ॥ १.१४२.५९ ॥

那么,你还有另一名弟子,尼沙陀之主之子,在世上既勇猛又胜过我,这是怎么回事?

1.142.60

मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् ।
सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ॥ १.१४२.६० ॥

德罗纳仿佛思量片刻,拿定了主意,带着善用双手的阿周那,朝尼沙陀之子走去。

1.142.61

ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् ।
एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् ॥ १.१४२.६१ ॥

他看到一身污垢、头发纠结、身穿树皮衣的伽罗婆耶手持弓箭,不停地射箭。

1.142.62

एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् ।
अभिगम्योपसंगृह्य जगाम शिरसा महीम् ॥ १.१४२.६२ ॥

伽罗婆耶看见德罗纳走近,便走到他面前,抱住他的双脚,以头触地致敬。

1.142.63

पूजयित्वा ततो द्रोणं विधिवत्स निषादजः ।
निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ॥ १.१४२.६३ ॥

随后,这位尼沙陀之子依礼恭敬地礼拜德罗纳,自称为弟子,合掌立于他面前。

1.142.64

ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः ।
यदि शिष्योऽसि मे वीर वेतनं दीयतां मम ॥ १.१४२.६४ ॥

于是,国王啊,德罗纳对伽罗婆耶说了这些话:勇士啊,如果你是我的弟子,就请给我酬报。

1.142.65

एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् ।
किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः ॥ १.१४२.६५ ॥

伽罗婆耶听后欢喜地说:尊者啊,我该给什么呢?愿老师吩咐我。

1.142.66

न हि किंचिददेयं मे गुरवे ब्रह्मवित्तम ।
तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतामिति ॥ १.१४२.६६ ॥

最知梵者啊,我并没有什么可以奉献给老师的。于是德罗纳对他说:请把你的右手大拇指交给我。

1.142.67

एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् ।
प्रतिज्ञामात्मनो रक्षन्सत्ये च नियतः सदा ॥ १.१४२.६७ ॥

艾迦拉维耶听到德罗纳严厉的话语,守护自己的誓言,始终坚守真理,

1.142.68

तथैव हृष्टवदनस्तथैवादीनमानसः ।
छित्त्वाऽविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः ॥ १.१४२.६८ ॥

同样,他面带喜色、心不沮丧,毫不犹豫地割下自己的拇指交给德罗纳。

1.142.69

ततः शरं तु नैषादिरङ्गुलीभिर्व्यकर्षत ।
न तथा च स शीघ्रोऽभूद्यथा पूर्वं नराधिप ॥ १.१४२.६९ ॥

然后尼沙达之子用手指拉开箭,但它不再像先前那样迅疾,哦人主。

1.142.70

ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः ।
द्रोणश्च सत्यवागासीन्नान्योऽभिभविताऽर्जुनं ॥ १.१४२.७० ॥

于是阿周那心中欢喜,忧虑消散;德罗纳言而有信,再无他人能胜过阿周那。

1.142.71

द्रोणस्य तु तदा शिष्यौ गदायोग्यौ बभूवतुः ।
दुर्योधनश्च भीमश्च सदा संरब्धणानसौ ॥ १.१४२.७१ ॥

于是德罗纳的两名弟子擅长使用铁锤:难敌与怖军,二人在战斗中总是十分凶猛。

1.142.72

अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् ।
तथाऽतिपुरुषानन्यान्त्सारुकौ यमजावुभौ ॥ १.१४२.७२ ॥

马嘶在所有秘密技艺上都超过众人;其他杰出之人,以及那对孪生兄弟也是如此。

1.142.73

युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः ।
प्रथितः सागरान्तायां रथयूथपयूथपः ॥ १.१४२.७३ ॥

坚战是车战勇士中最杰出的;然而,在四海之内,财主(阿周那)名声远扬,是车队统帅中的统帅。

1.142.74

बुद्धियोगबलोत्साहः सर्वास्त्रेषु च निष्ठितः ।
अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः ॥ १.१४२.७४ ॥

阿周那具足智慧、修行、力量与精进,于一切兵器皆臻圆满;在射艺与对师尊的敬爱上尤为出众。

1.142.75

तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् ।
एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः ॥ १.१४२.७५ ॥

诸王子所受射艺教导相同,然阿周那以精湛技艺与勇力,独自成为众王子中的大战车勇士。

1.142.76

प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् ।
धार्तराष्ट्रा दुरात्मानो नामृष्यन्त परस्परम् ॥ १.१४२.७६ ॥

德兰纳斯特拉的恶子不能容忍比性命更亲的怖军,以及学问精通的财主(阿周那),彼此之间也互相嫉妒。

1.142.77

तांस्तु सर्वान्समानीय सर्वविद्यास्त्रशिक्षितान् ।
द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभः ॥ १.१४२.७७ ॥

德罗纳,人中雄牛,将他们全部召集——他们皆精通一切学问与兵器——欲考察其兵器之知。

1.142.78

कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् ।
अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥ १.१४२.७८ ॥

他将工匠所制、王子们从未见过的一只假鸟置于树梢,指示它作为靶子。

1.142.79

शीघ्रं भन्तः सर्वेऽपि धनूंष्यादाय सर्वशः ।
भासमेतं समुद्दिश्य तिष्ठध्वं सन्धितेषतः ॥ १.१४२.७९ ॥

孩子们,你们都快拿起弓,瞄准这只婆萨鸟,搭好箭站立。

1.142.80

मद्वाक्यसमकालं तु शिरोऽस्य विनिपात्यताम् ।
एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः ॥ १.१४२.८० ॥

在我下令的那一刻,就把它的头射落。我会逐一指派你们;孩子们,照此行事。

1.142.81

ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः ।
संधत्स्व बामं दुर्धर्ष मद्वाक्यान्ते विमुञ्चतम् ॥ १.१४२.८१ ॥

于是安吉罗萨族中最优秀者先对坚战说:啊,难以战胜者,搭上左弓,在我话音终了时放箭。

1.142.82

ततो युधिष्ठिरः पूर्वं धनुर्गृह्य परन्तपः ।
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥ १.१४२.८२ ॥

于是,令敌人苦恼的坚战先拿起弓,受师长之言驱使,对准婆萨鸟站立。

1.142.83

ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् ।
स मुहूर्तादुवाचेदं वचनं भरतर्षभ ॥ १.१४२.८३ ॥

于是德罗纳看着那位拉满弓站立的俱卢之喜。片刻之后,他说道:啊,婆罗多族之雄牛,

1.142.84

पश्यसि त्वं द्रुमाग्रस्थं भासं नरवरात्मज ।
पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः ॥ १.१४२.८४ ॥

人中之最的儿子啊,你看见树梢上的那只婆萨鸟吗?坚战回答老师说:“我看见了。”

1.142.85

स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत ।
अथ वृक्षमिमं मां वा भ्रातॄन्वाऽपि प्रपश्यसि ॥ १.१४२.८५ ॥

片刻之后,德罗纳又对他说:“现在你看见的是这棵树,还是我,还是你的兄弟们?”

1.142.86

तमुवाच स कौन्तेयः पश्याम्येनं नवस्पतिम् ।
भन्तं च तथा भ्रातॄन्भासं चेति पुनःपुनः ॥ १.१४२.८६ ॥

昆提之子一再对他说:“我看见这棵树、那只鸟,还有兄弟们。”

1.142.87

तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव ।
नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् ॥ १.१४२.८७ ॥

德罗纳似乎不悦,对他说:“退开。”并责备他说:“这个目标你射不中。”

1.142.88

ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः ।
तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत ॥ १.१४२.८८ ॥

于是那位大名之人,想要知道,按同样的次序询问了难敌等持国之子。

1.142.89

अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् ।
यदा च सर्वे तत्सर्वं पश्याम इति कुत्सिताः ॥ १.१४२.८९ ॥

他又询问了其他弟子、般度之子怖军等人,以及出生于他乡的诸王;当众人都说“我们都看见了”时,他们便受到了责备。