摩诃婆罗多 · 章 1.143
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.143.1
ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत ।
त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं विलोक्यताम् ॥ १.१४३.१ ॥
于是德罗纳微笑着对阿周那说:“现在你必须射击这个目标,看清它吧。”
1.143.2
मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः ।
वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् ॥ १.१४३.२ ॥
“在我说话的同时,你必须在此放箭。孩子,拉开你的弓,稍稍站立片刻。”
1.143.3
एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः ।
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥ १.१४३.३ ॥
被这样吩咐之后,善用双手的阿周那将弓拉成圆形,受师长之言的驱使,瞄准那只鸟站立着。
1.143.4
मुहूर्तादिव तं द्रोणस्तथैव समभाषत ।
पश्यस्येनं स्थितं भासं द्रुमं मामपि चार्जुन ॥ १.१४३.४ ॥
片刻之后,德罗纳以同样的话对他说:“阿周那,你看见这只站立着的鸟、这棵树,还有我吗?”
1.143.5
पश्याम्येकं भासमिति द्रोणं पार्थोऽभ्यभाषत ।
न तु वृक्षं भवन्तं वा पश्यामीति च भारत ॥ १.१४३.५ ॥
“我看见一只鸟。”阿周那回答德罗纳说。“婆罗多之裔啊,我既不见树,也不见您。”
1.143.6
ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः ।
प्रत्यभाषत दुर्धर्षः पाण्डवानां महारथम् ॥ १.१४३.६ ॥
于是德罗纳心中欢喜,仿佛过了片刻,又回答了那位在般度子孙中不可战胜的大车战士。
1.143.7
भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः ।
शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् ॥ १.१४३.७ ॥
若你看见的是婆沙鸟,那就再说一遍。我看见的是婆沙的头,而非身体——他如是说。
1.143.8
अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः ।
मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् ॥ १.१४३.८ ॥
阿周那如此说后,德罗纳喜悦得毛发竖立,说:“放开!”般度之子便不加思索地放开了。
1.143.9
ततस्तस्य गस्थस्य क्षुरेण निशितेन च ।
शिर उत्कृत्य तरसा पातयामास पाण्डवः ॥ १.१४३.९ ॥
于是般度之子以锋利的刀头箭迅速斩下那站立之物的头颅,使其坠落。
1.143.10
तस्मिन्कर्मणि संसिद्धे पर्यष्वजत पाण्डवम् ।
मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम् ॥ १.१४३.१० ॥
此事既成,他拥抱般度之子,并认为德鲁帕达与其随从在战中已被击败。
1.143.11
कस्य चित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः ।
जगाम गङ्गामभितो मज्जितुं भरतर्षभ ॥ १.१४३.११ ॥
过了一段时间,阿夷罗之最德罗纳与弟子们前往恒河沐浴,哦,婆罗多族的雄牛!
1.143.12
अवगाढमथो द्रोणं सलिले सलिलेचरः ।
ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः ॥ १.१४३.१२ ॥
德罗纳深入水中时,一只强大的水中之物——鳄鱼,受时运驱使,咬住了他的小腿下部。
1.143.13
स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् ।
ग्राहं हत्वा तु मोक्ष्यध्वं मामिति त्वरयन्निव ॥ १.१४३.१३ ॥
他虽有能力,却催促所有弟子,仿佛急迫地说:“杀死鳄鱼,使我解脱吧。”
1.143.14
तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः ।
अवार्यैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् ॥ १.१४३.१४ ॥
就在这些话音刚落之时,比跋苏(阿周那)以五支锋利、无可抵挡的箭射中了沉入水中的鳄鱼。
1.143.15
इतरे त्वथ संमूढास्तत्रपत्र प्रपेदिरे ।
तं तु दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् ॥ १.१४३.१५ ॥
其余人在那里茫然失措;而德罗纳见那位善于行动的般度之子,便认为他最为出众。
1.143.16
विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा ।
स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः ॥ १.१४३.१६ ॥
见他在所有弟子中出类拔萃,德罗纳当时甚为欢喜;那鳄鱼被般度之子的箭射成了许多碎块。
1.143.17
ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः ।
सर्वक्रियाभ्यनुज्ञानात्तथा शिष्यान्समानयत् ॥ १.१४३.१७ ॥
鳄鱼松开了这位大德之人的腿,走向了死亡;随后,在得到一切行动的许可后,他把弟子们召集起来。
1.143.18
दुर्योधनं चित्रसेनं दुःशासनविविंशती ।
अर्जुनं च समानीय ह्यश्वत्थामानमेव च ॥ १.१४३.१८ ॥
他将难敌、奇特塞那、难近、毗文沙提,以及阿周那和阿湿婆陀摩都召集到一起。
1.143.19
शिशुकं मृण्मयं कृत्वा द्रोणो गङ्गाजले ततः ।
शिष्याणां पश्यतां चैव क्षिपति स्म महाभुजः ॥ १.१४३.१९ ॥
大臂的德罗那用泥捏了一个小像,然后在弟子们注视下将它投入恒河水中。
1.143.20
चक्षुषी वाससा चैव बद्ध्वा प्रादाच्छरासनम् ।
शिशुकं विद्ध्यतेमं वै जलस्थं बद्धचक्षुषः ॥ १.१४३.२० ॥
他用布蒙住眼睛,把弓交给他,说:“像蒙着眼睛的人那样,射中这水中站立的小像吧。”
1.143.21
तत्क्षणेनैव बीभत्सुरावापैर्दशभिर्वशी ।
पञ्चकैरनुविव्याध मग्नं शिशुकमम्भसि ॥ १.१४३.२१ ॥
就在那一刻,克己的比波特苏(阿周那)先以十箭、再以五箭,接连射穿了沉没在水中的那个小像。
1.143.22
ताः स दृष्ट्वा क्रियाः सर्वा द्रोणोऽमन्यत पाण्डवम् ।
विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा।
तथाब्रवीन्महात्मानं भारद्वाजो महारथम् ॥ १.१४३.२२ ॥
德罗那看到所有这些功绩,认为般度之子胜过所有弟子,心中欢喜;于是伟大的战车武士、婆罗堕遮之子对那位大德这样说。
1.143.23
गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् ।
अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् ॥ १.१४३.२३ ॥
大臂者啊,请接受这件名为“梵首”的殊胜神兵,它难以抵御,并附有发射与收回之法。
1.143.24
न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथंचन ।
जगद्विनिर्दहेदेतदल्पतेजसि पातितम् ॥ १.१४३.२४ ॥
你绝不可以对人类使用此箭;若射向力量微弱之人,它将焚毁整个世界。
1.143.25
असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते ।
तद्धारयेथाः प्रयतः शृणु चेदं वचो मम ॥ १.१४३.२५ ॥
孩子啊,此武器在三界中被称为非凡。你应当谨慎地持守它,并听我这番话。
1.143.26
बाधेतामानुषः शत्रुर्यदि त्वां वीर कश्चन ।
तद्वधाय प्रयुञ्जीथास्तदस्त्रमिदमाहवे ॥ १.१४३.२६ ॥
英雄啊,若有某个非人的敌人来侵扰你,你就在战斗中施用此武器将其诛灭。
1.143.27
तथेति संप्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः ।
जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः।
भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः ॥ १.१४३.२७ ॥
Bībhatsu(阿周那)说“就这样吧”,双手合十接受了那件至高的武器。于是老师又对他说:世上将没有另一个与你同样的射手。