Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.144

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.144.1

कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत ।
दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् ॥ १.१४४.१ ॥

婆罗多啊,德罗纳见到精通武艺的持国之子与般度之子,便对民众之主持国王说道。

1.144.2

कृपस्य सोमदत्तस्य वाह्लीकस्य च धीमतः ।
गाङ्गेयस्य च सान्निध्ये व्यासस्य विदुरस्य च ॥ १.१४४.२ ॥

在克利巴、索摩达塔、智者婆里迦、甘伽之子(毗湿摩)、毗耶娑和维杜罗面前。

1.144.3

राजन्संप्राप्तविद्यास्ते कुमाराः कुरुसत्तम ।
ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव ॥ १.१४४.३ ॥

国王啊,库鲁中最优秀者,愿那些已学成的王子在你的允许下展示他们的技艺。

1.144.4

ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना ।
भारद्वाज महत्कर्म कृतं ते द्विजसत्तम ॥ १.१४४.४ ॥

于是大王心怀喜悦地说:婆罗堕阇之子啊,再生者中最优秀者,你完成了伟大的功业。

1.144.5

यदानुमन्यसे कालं यस्मिन्देशे यथायथा ।
तथातथा विधानाय स्वयमाज्ञापयस्व माम् ॥ १.१४४.५ ॥

你认可的任何时间、任何地点,以及你认为合适的安排方式,请亲自命令我去办理。

1.144.6

स्पृहयाम्यद्य निर्वेदान्पुरुषाणां सचक्षुषाम् ।
अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् ॥ १.१४४.६ ॥

今天我渴望见到那些为兵器之学而奋勉的有眼之人的喜悦景象;他们将会看到我的儿子们。

1.144.7

क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा ।
न हीदृशं प्रियं मन्ये भविता धर्मवत्सल ॥ १.१४४.७ ॥

维杜罗啊,照导师所说的去做吧。爱护正法者啊,我认为没有比这更令我欣喜的事了。

1.144.8

ततो राजानमामन्त्र्य विदुरानुमतोपि हि ।
भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् ॥ १.१४४.८ ॥

随后,他向国王告辞,并得到维杜罗的同意,大智的跋罗婆阇下令丈量土地。

1.144.9

समामवृक्षां निर्गुलमामुदक्प्रवणसंस्थिताम् ।
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते ॥ १.१४४.९ ॥

在那片平坦、无树、无灌木、向北倾斜的土地上,他在星宿所尊的太阴日举行了献祭。

1.144.10

अवघुष्टं पुरं चापि तदर्थं भरतर्षभ ।
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि ॥ १.१४४.१० ॥

为此,城中也发布了告示,婆罗多族的雄牛啊;而在竞技场中,按照经典所规定的仪轨,建造了极为宽广的建筑。

1.144.11

प्रेक्षागारं सुविहितं चक्रस्ते तस्य शिल्पिनः ।
रक्षां सर्वायुधोपेतां स्त्रीणां चैव नरर्षभ ॥ १.१४४.११ ॥

工匠们建造了布置妥当的观览厅,人中之牛啊;又为妇女安排了配备各种武器的守卫。

1.144.12

मञ्चांश्च कारयामासुर्यत्र जानपदा जनाः ।
विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः ॥ १.१४४.१२ ॥

他们还建造了宽敞高大的看台,供乡间百姓就座,并为大富者准备了轿子。

1.144.13

तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा ।
सान्तःपुरः सहामात्यो व्यासस्यानुमते तदा।
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् ॥ १.१४४.१३ ॥

那一天到来时,国王在毗耶娑的许可下,与大臣、后宫妇女及侍从一同出发,让毗湿摩走在前面,并带上最优秀的导师克利巴。

1.144.14

बाह्लीकं सोमदत्तं च भूरिश्रवसमेव च ।
कुरूनन्यांश्च सचिवानादाय नगराद्बहिः ॥ १.१४४.१४ ॥

他带上巴赫利迦、索摩达塔、布利斯罗婆斯、俱卢族人和其他大臣,走出城外。

1.144.15

रङ्गभूमिं समासाद्य ब्राह्मणैः सहितो नृपः ॥ १.१४४.१५ ॥

国王在婆罗门的陪同下来到了赛场。

1.144.16

मुक्ताजालपरिक्षिप्तं वैदूर्यममिशोभितम् ।
शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् ॥ १.१४४.१६ ॥

他来到了被珍珠网环绕、以青金石装饰的神圣金制观览厅。

1.144.17

गान्धारी च महाभागा कुन्ती च जयतां वर ।
स्त्रियश्च राज्ञः सर्वास्ताः सप्रेष्याः सपरिच्छदाः ॥ १.१४४.१७ ॥

胜利者中最优秀的人啊!大福的甘陀利和贡蒂,以及国王的所有女眷,连同侍从与随从。

1.144.18

हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा ।
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् ॥ १.१४४.१८ ॥

她们欢喜地登上高台,如天女登上须弥山;婆罗门、刹帝利等四种姓也迅速从城中出来。

1.144.19

दर्शनेप्सुः समभ्यागात्कुमाराणां कृतास्त्रताम् ।
क्षणेनैकस्थतां तत्र दर्शनेप्सुर्जगाम ह ॥ १.१४४.१९ ॥

渴望观看王子们的武艺,众人聚集而来;顷刻之间,所有人都聚集在一处,渴望一睹。

1.144.20

प्रवादितैश्च वादित्रैर्जनकौतूहलेन च ।
महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा ॥ १.१४४.२० ॥

在乐器的鸣响与众人的好奇之中,那集会此时如大海般翻腾起来。

1.144.21

ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् ।
शुक्लकेशः सितश्मश्रुः शुक्लाल्यानुलेपनः ॥ १.१४४.२१ ॥

随后,他身着白衣,披挂白色圣线,白发白须,涂着白色的香膏……

1.144.22

रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह ।
नभो जलधरैर्हीनं साङ्गारक इवांशुमान् ॥ १.१४४.२२ ॥

那时,阿阇梨与他的儿子进入了赛场中央,犹如无云的天空中太阳伴着火星。

1.144.23

व्यासस्यानुमते चक्रे बलिं बलवतां वरः ।
ब्राह्मणांस्तु सुमन्त्रज्ञान्कारयामास मङ्गलम् ॥ १.१४४.२३ ॥

在毗耶娑的许可下,强者中的最优者献上了祭品,并让通晓善咒的婆罗门举行吉祥的仪式。

1.144.24

सुवर्णमणिरत्नानि वस्त्राणि विविधानि च ।
प्रददौ दक्षिणां राजा द्रोणाय च कृपाय च ॥ १.१४४.२४ ॥

国王以布施之礼赠予德罗纳和克里帕黄金、宝石、珍珠与各式衣服。

1.144.25

सुखपुण्याहघोषस्य पुण्यस्य समनन्तरम् ।
विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः ॥ १.१४४.२५ ॥

在吉祥的祝福之声与神圣仪式之后,众人随即持各式兵器与器具入内。

1.144.26

ततो बद्धाङ्गुलित्राणा बद्धकक्ष्या महारथाः ।
बद्धथूणाः सधनुषो विविशुर्भरतर्षभाः ॥ १.१४४.२६ ॥

随后,众大车战士系紧指套、束好腰带、缚妥箭袋、持弓入内,他们是婆罗多族的雄牛。

1.144.27

रङ्गमध्ये स्थितं द्रोणमभिवाद्य नरर्षभाः ।
चक्रुः पूजां यथान्यायं द्रोणस्य च कृपस्य च ॥ १.१४४.२७ ॥

众人向站在场中的德罗纳致敬,并依礼敬拜德罗纳与克里帕。

1.144.28

आशीर्भिश्च प्रयुक्ताभिः सर्वे संहृष्टमानसाः ।
अभिवाद्य पुनः शस्त्रान्बलिपुष्पैः समर्चितान् ॥ १.१४४.२८ ॥

众人口诵吉祥祝语,心怀欢喜,再次致敬以花供养的兵器。

1.144.29

रक्तचन्दनसंमिश्रैः स्वयमर्चन्ति कौरवाः ।
रक्तचन्दनदिग्धाश्च रक्तमाल्यानुधारिणः ॥ १.१४४.२९ ॥

俱卢族人亲自以混合红檀香的供物礼拜;他们身涂红檀香,佩戴红色花环。

1.144.30

सर्वे रक्तपताकाश्च सर्वे रक्तान्तलोचनाः ।
द्रोणेन समनुज्ञाता गृह्य शस्त्रं परन्तपाः ॥ १.१४४.३० ॥

众人旗帜皆红,眼角皆赤;得德罗纳允许后持起兵器的,乃是灼烧敌人的勇士。

1.144.31

धनूंषि पूर्व संगृह्य तप्तकाञ्चनभूषिताः ।
सज्यानि विविधाकाराः शरैः सन्धाय कौरवा ॥ १.१४४.३१ ॥

首先,饰以熔金、形貌各异的俱卢子弟取弓上弦,搭箭待发。

1.144.32

ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयन् ॥ १.१४४.३२ ॥

弓弦铮鸣、掌声震响,他们使一切众生都为之迷惑。

1.144.33

अनुज्येष्ठं च ते तत्र युधिष्ठिरपुनरोगमाः ।
चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ॥ १.१४४.३३ ॥

在那里,坚战与随从的大勇王子们由幼至长,展示了极为奇妙的射艺。

1.144.34

केषांचित्तत्र माल्येषु शरा निपतिता नृप ।
केषांचित्पुष्पमुकुटे निपतन्ति स्म सायकाः ॥ १.१४४.३४ ॥

君王啊,那里有人的箭落在花环上,有人的箭落在花冠上。

1.144.35

केचिल्लक्ष्याणि विविधैर्बाणैराहितलक्षणैः ।
बिभिदुर्लाघवोत्सृष्टैर्गुरूणि च लघूनि च ॥ १.१४४.३५ ॥

有人以精准瞄准、手法轻捷射出的各式箭矢穿透靶子,无论重的还是轻的。

1.144.36

केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे ।
मनुजा धृष्टमपरे वीक्षाञ्चक्रुः सुविस्मिताः ॥ १.१४४.३६ ॥

有人因惧怕箭矢飞来而低下了头,另一些人则惊叹不已,无所畏惧地注视着。

1.144.37

ते स्म लक्ष्याणि बिभिदुर्बाणैर्नामाङ्कशोभितैः ।
विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ॥ १.१४४.३७ ॥

他们骑着疾驰的马,以娴熟的技艺射出各种箭,射穿了刻有名字的靶子。

1.144.38

तत्कुमारबलं तत्र गृहीतशरकार्मुकम् ।
गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ॥ १.१४४.३८ ॥

他们看见那支手持弓箭的王子军队,宛如乾达婆城,都感到惊异。

1.144.39

सहसा चुक्रुशुश्चान्ये नराः शतसहस्रशः ।
विस्मयोत्फुल्लनयनाः साधुसाध्विति भारत ॥ १.१४४.३९ ॥

忽然,另外成千上万的人大声叫喊,惊异得睁大了眼睛,说:“好啊,好啊!”婆罗多之子啊。

1.144.40

कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् ।
गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ॥ १.१४४.४० ॥

他们用弓反复练习战车的各种行进路线;无论在象背、马背上,还是在角力之中,这些大力之士都出类拔萃。

1.144.41

गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः ।
त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ॥ १.१४४.४१ ॥

随后,手持剑与盾的那些击者,在各种场地上,依照规定的剑术路线再次操练。

1.144.42

लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् ।
ददृशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणोः ॥ १.१४४.४२ ॥

他们在那里看见了所有人使用剑与盾时的敏捷、娴熟、优美、稳定,以及紧握的拳头。

1.144.43

अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ ।
अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ॥ १.१४४.४३ ॥

于是两位常怀喜悦的人,苏由陀那与狼腹,手持铁杵下来,如同两座单峰之山。

1.144.44

बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ ।
बृंहन्तौ वासिताहेतोः समदाविव कुञ्जरौ ॥ १.१४४.४४ ॥

两位大臂者束紧腰带,坚定地站在勇力之中,吼叫如同为母象而发情的两头象。

1.144.45

तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ ।
चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ ॥ १.१४४.४५ ॥

两位大力者向右向左绕圈而行,如同两头发情的象在圈中回旋。

1.144.46

विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः ।
न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ॥ १.१४४.४६ ॥

般度之子的取火杵毗杜罗,将诸王子的一切所为报告给持国与甘陀利。