摩诃婆罗多 · 章 1.145
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.145.1
कुरुराजे हि रङ्गस्थे भीमे च बलिनां वरे ।
पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ॥ १.१४५.१ ॥
当库鲁王与力士中最优秀的毗摩站在角斗场时,人群因偏袒而生的偏爱,仿佛一分为二。
1.145.2
जय हे कुरुराजेति जय हे भीम इत्युत ।
पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ॥ १.१४५.२ ॥
“库鲁王万岁!”与“毗摩万岁!”——人们的巨大欢呼声骤然响起。
1.145.3
ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् ।
भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ॥ १.१४५.३ ॥
于是,智者婆罗堕遮之子(德罗纳)望见那如同翻腾大海的角斗场,对他心爱的儿子马嘶(阿什瓦塔曼)说道。
1.145.4
वारयैतौ महावीर्यौ कृतयोग्यावुभावपि ।
मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ॥ १.१४५.४ ॥
“拦住这两位大力之士,两人皆已受训,莫使毗摩与难敌所引起的这场角斗场骚乱发生。”
1.145.5
तत उत्थाय वेगेन अश्वत्थामा न्यवारयत् ।
गुरोराज्ञा भीम इति गान्धारे गुरुशासनम्।
अलं शिक्षाकृतं वेगमलं साहसमित्युत ॥ १.१४५.५ ॥
于是马嘶迅速起身加以制止:“这是师尊的命令,毗摩啊!甘陀利之子啊!这是师尊的教诲:训练所成的疾勇已足够,胆大妄为也已足够。”
1.145.6
ततस्तावुद्यतगतौ गुरुपुत्रेण वारितौ ।
युगान्तानिलसंक्षुब्धौ महावेलाविवार्णवौ ॥ १.१४५.६ ॥
那时,已经冲上前去的二人被师尊之子拦住;他们如同被末劫之风所搅动的两片大海,岸边辽阔。
1.145.7
ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् ।
निवार्य वादित्रगणं महामेघनिभस्वनम् ॥ १.१४५.७ ॥
于是德罗纳走到竞技场的庭院中,止住了那如大雷云般轰鸣的乐器队伍,说了这番话。
1.145.8
यो मे पुत्रात्प्रियतरः सर्वशस्त्रविशारदः ।
ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति ॥ १.१४५.८ ॥
"愿那位比我的儿子还亲爱的帕尔特,精通一切兵器,因陀罗之子,与因陀罗之弟相等的人,显现出来。"
1.145.9
आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा ।
बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ॥ १.१४५.९ ॥
于是,依师言完成吉祥仪式后,那位青年束好皮制指套,携带满箭袋和弓,走上前来。
1.145.10
काञ्चनं कवचं बिभ्रत्प्रत्यदृश्य फाल्गुनः ।
सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः ॥ १.१४५.१० ॥
身披金甲的法尔古那显现出来,如同与太阳、因陀罗之雷电及黄昏相伴的云。
1.145.11
ततः सर्वस्य रङ्गस्य समुत्पिञ्जलकोऽभवत् ।
प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ॥ १.१४५.११ ॥
于是整个竞技场都骚动起来,四面八方响起了乐器与法螺之声。
1.145.12
एष कुन्तीसुतः श्रीमानेष मध्यमपाण्डवः ।
एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ॥ १.१४५.१२ ॥
"此人是光荣的贡蒂之子,这便是中间的般度子。此人是伟大因陀罗之子;此人是俱卢的守护者。"
1.145.13
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः ।
एष शीलवतां चापि शीलज्ञाननिधिः परः ॥ १.१४५.१३ ॥
他是精通兵器者中的最优者,是持守法度者中的最上者,也是德行与智慧的至高宝藏,即便在有德之人中亦是如此。
1.145.14
इत्येवं तुमुला वाचः शुश्रुवुः प्रेक्षकेरिताः ।
कुन्त्याः प्रस्रवसंयुक्तैरस्रैः क्लिन्नमुरोऽभवत् ॥ १.१४५.१४ ॥
如此,观众所发出的喧嚣之声传入耳中;昆提的胸前被涌流的泪水浸湿了。
1.145.15
तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् ।
धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ॥ १.१४५.१५ ॥
那巨大的声音充满了耳朵,人中之最的持国以欢喜之心对毗杜罗说道。
1.145.16
क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः ।
सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ॥ १.१४५.१६ ॥
啊,刹多啊,这如同搅动的大海般的巨大声响是什么?它突然在场中升起,仿佛要劈开天空。
1.145.17
एष पार्थो महाराज फाल्गुनः पाण्डुनन्दनः ।
अवतीर्णः सकवचस्तत्रैव सुमिहास्वनः ॥ १.१४५.१७ ॥
大王啊,这是班度之子、普利塔之子、法尔古那(阿周那);他披着铠甲,就在那里降下,发出巨大的吼声。
1.145.18
धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते ।
पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ॥ १.१४५.१८ ॥
智者啊,我有福,蒙恩,受到保护;由普利塔的火钻所生的三位班度火焰保护了我。
1.145.19
तस्मिन्प्रमुदिते रङ्गे कथंचित्प्रत्युपस्थिते ।
दर्शयामास बीभत्सुराचार्यायास्त्रलाघवम् ॥ १.१४५.१९ ॥
在那欢乐的比武场上,机会终于出现,毗跋苏(阿周那)向师父展示了他的箭术娴熟。
1.145.20
आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः ।
वायव्येनासृजद्वह्निं पार्जन्येनासृजद्धनान् ॥ १.१४५.२० ॥
他以火神箭生出火,以水神箭生出水,以风神箭生出火,以雨神箭生出云。
1.145.21
भौमेन प्रासृजद्भूमिं पार्वतेनासृजद्गिरीन् ।
अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥ १.१४५.२१ ॥
他以地神箭生出大地,以山神箭生出群山;又以隐形箭再次隐没了身形。
1.145.22
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः ।
क्षणेन रथमध्यस्थः क्षणेनावतरन्महीम् ॥ १.१४५.२२ ॥
刹那间他身材高大,刹那间又矮小;刹那间立于车轭之上,刹那间立于车厢中央;刹那间又下到地面。
1.145.23
सुकुमारं च सूक्ष्मं च गुरु चापि गुरुप्रियः ।
सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ॥ १.१४५.२३ ॥
无论纤细的、细小的,还是沉重的目标,这位深得师父宠爱的人凭着娴熟的技艺,以各种箭矢将其射穿。
1.145.24
भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् ।
पञ्चबाणानसंक्तान्संमुमोचैकबाणवत् ॥ १.१४५.२४ ॥
在旋转的野猪与铁制机关之前,他一齐射出五支箭,箭与箭互不纠缠,仿佛只是一支箭。
1.145.25
गव्ये विषाणकोशे च चले रज्ज्ववलम्बिनि ।
निचखान महावीर्यः सायकानेकविंशतिम् ॥ १.१४५.२५ ॥
在悬于绳上摇晃的牛皮与角制靶壳中,那位大力者射入了二十一支箭。
1.145.26
इत्येवमादि सुमहत्खड्गे धनुषि चानघ ।
गदायां शस्त्रकुशलो मण्डलानि ह्यदर्शयत् ॥ १.१४५.२६ ॥
诸如此类,还有许多:用剑、用弓,也用铁锤,无瑕者啊,精通武器的人展示了环绕的技艺。
1.145.27
ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत ।
मन्दीभूते समाजे च वादित्रस्य च निःस्वने ॥ १.१४५.२७ ॥
于是,婆罗多的后裔啊,当那场表演大多已结束,集会渐趋平静,乐器的声音也已低落时,
1.145.28
द्वारदेशात्समुद्भूतो माहात्म्यबलसूचकः ।
वज्रनिष्पेषसदृशः शुश्रुवे भुजनिःस्वनः ॥ १.१४५.२८ ॥
从门口升起了臂膀的声音,昭示着威严与力量,犹如金刚相击,被人听见。
1.145.29
दीर्यन्ते किं नु गिरयः किंस्विद्भूमिर्विदीर्यते ।
किंस्विदापूर्यते व्योम जलधाराघनैर्घनैः ॥ १.१४५.२९ ॥
是群山在崩裂吗?大地本身在撕裂吗?天空是否正被浓密、倾注着水流的云层所充满?
1.145.30
रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप ।
द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा ॥ १.१४५.३० ॥
大地之主啊,霎时间,场中之人心中便有了这样的念头;于是所有观众都转身面向门口。
1.145.31
पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो वभौ ।
पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ॥ १.१४५.३१ ॥
被五位兄弟般的般度之子包围的德罗纳,光彩如同与萨维特拉星宿及五颗星相连的月亮。
1.145.32
अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितम् ।
दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ॥ १.१४५.३२ ॥
与阿说瓦塔曼一起,百位强大的兄弟包围了起身的杜尔约达纳,这位灭敌者。
1.145.33
स तैस्तदा भ्रातृभिरुद्यतायुधै-
र्गदाग्रपाणिः समवस्थितैर्वृतः।
बभौ यथा दानवसंक्षये पुरा ।
पुनन्दरो देवगणैः समावृतः ॥ १.१४५.३३ ॥
他被那些举起兵器的兄弟们包围,手持铁棍,光彩如往昔歼灭达那婆时被众神环绕的因陀罗。