Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.147

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.147.1

ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः ।
विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव ॥ १.१४७.१ ॥

于是阿提罗他衣襟滑落,汗流浃背,浑身颤抖,走入赛场,仿佛性命系于手中的杖上而呼喊着。

1.147.2

तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः ।
कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत ॥ १.१४७.२ ॥

卡尔纳见到他,因敬父之心所束缚,放下弓,以仍被灌顶之水沾湿的头低头行礼。

1.147.3

ततः पादाववच्छाद्य पटान्तेन ससंभ्रमः ।
पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिम् ॥ १.१४७.३ ॥

随后,他以衣角遮掩对方的双脚,满怀激动,对御者说道:“孩子”。

1.147.4

परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः ।
अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः ॥ १.१४७.४ ॥

随后,他满怀深情,拥抱了他,又以泪水再次沾湿他那仍因安伽国灌顶而湿润的头顶。

1.147.5

तं दृष्ट्वा सूतपुत्रोऽयमिति संचिन्त्य पाण्डवः ।
भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव ॥ १.१४७.५ ॥

般度之子毗摩塞那见到他,心想:“这是御者之子。”于是,他仿佛含笑,说出了这番话。

1.147.6

न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् ।
कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया ॥ १.१४७.६ ॥

御者之子啊,你不应死于普利塔之子之手;快拿起鞭子,符合你的家族吧。

1.147.7

अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम ।
श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे ॥ १.१४७.७ ॥

卑贱之人啊,你不配享有安伽王国,正如狗不配享用祭祀中放在火边的祭饼。

1.147.8

एवमुक्तस्ततः कर्णः किंचित्प्रस्फुरिताधरः ।
गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत ॥ १.१४७.८ ॥

被如此斥责后,迦尔纳的嘴唇微微颤动;他深深叹息,抬头望向天空中的太阳。

1.147.9

ततो दुर्योधनः कोपादुत्पपात महाबलः ।
भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ॥ १.१४७.९ ॥

于是大力的难敌因愤怒而跃起,如同醉象从其兄弟的莲花林中站起。

1.147.10

सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् ।
वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ॥ १.१४७.१० ॥

他对站在那里、行事凶猛的毗摩森那说:"狼腹啊,你说这样的话是不适宜的。"

1.147.11

क्षत्रियाणां बलं ज्यष्ठं योक्तव्यं क्षत्रबन्धुना ।
शूराणां च नदीनां च प्रभवो दुर्विभावनः ॥ १.१४७.११ ॥

刹帝利的力量最为殊胜,应由徒有刹帝利之名的人施用;英雄与河流的源头难以辨识。

1.147.12

सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् ।
दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् ॥ १.१४७.१२ ॥

从水中升起的火焰,遍满了动与不动的世界;以达提琦的骨骼所制的金刚杵,杀死了檀那婆。

1.147.13

आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि ।
श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः ॥ १.१४७.१३ ॥

据说他是阿耆尼之子、昴宿之子、罗陀之子,也是恒河之子。人们听说,那位尊贵的神祇Guha充满一切秘密。

1.147.14

क्षत्रियेभ्यश्च ये जाता ब्राह्मणास्ते च ते श्रुताः ।
विश्वामित्रप्रभृतयः प्राप्ता ब्रह्मत्वमव्ययम् ॥ १.१४७.१४ ॥

出身于刹帝利者,也被称为婆罗门。毗首弥多罗等人获得了不灭的婆罗门身份。

1.147.15

आचार्यः कलशाज्जातो द्रोणः शस्त्रभृतां वरः ।
गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः ॥ १.१४७.१५ ॥

持武器者中最优秀的导师德罗纳生于瓦罐;在乔答摩的家族中,乔答摩(克里帕)生于一束芦苇。

1.147.16

भवतां च यथा जन्म तदप्यागमितं मया ।
सकुण्डलं सकवचं सर्वलक्षणलक्षितम्।
कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति ॥ १.१४७.१६ ॥

我也已讲述了你们的出生。一只母鹿怎能生下老虎——那有耳环和铠甲、带有一切吉祥之相、如太阳般的人呢?

1.147.17

पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः ।
अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना ॥ १.१४७.१७ ॥

这位人主配得上统治大地,而不只是盎伽国——凭借他臂膀的力量,并且服从我的命令。

1.147.18

यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् ।
रथमारुह्य पद्भ्यां स विनामयतु कार्मुकम् ॥ १.१४७.१८ ॥

凡是不能容忍我这一行为的人,无论乘车还是步行,都请拉弓。

1.147.19

ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् ।
साधुवादानुसंबद्धः सूर्यश्चास्तमुपागमत् ॥ १.१४७.१९ ॥

于是全场爆发出巨大的哗然声,与赞叹之声交织在一起,太阳也落山了。

1.147.20

ततो दुर्योधनः कर्णमालम्ब्याग्रकरे नृपः ।
दीपिकाभिः कृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ॥ १.१४७.२० ॥

于是国王难敌扶着迦尔纳的手臂,在火把照耀下走出了那处场地。

1.147.21

पाण्डवाश्च सहद्रोणाः सकृपाश्च विशांपते ।
भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् ॥ १.१४७.२१ ॥

众人之主啊,般度子孙与德罗纳、克利帕一同,在毗湿摩陪伴下,各自返回了自己的住所。

1.147.22

अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत ।
कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ॥ १.१४७.२२ ॥

薄罗多啊,有人高呼“阿周那!”,有人高呼“迦尔纳!”,也有人高呼“难敌!”,于是纷纷散去。

1.147.23

कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् ।
पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरजायत ॥ १.१४७.२३ ॥

贡蒂认出了她的儿子,他以天神的标记显现,是盎伽之王;被慈爱遮掩的柔情在她心中涌起。

1.147.24

दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव ।
भयमर्जुनसंजातं क्षिप्रमन्तरधीयत ॥ १.१४७.२४ ॥

君王啊,难敌因阿周那而生的恐惧,在他走近迦尔纳之后也很快消散了。

1.147.25

स चापि वीरः कृतशस्त्रनिश्रमः ।
परेण साम्नाऽभ्यवदत्सुयोधनम्।
युधिष्ठिरस्याप्यभवत्तदा मति-
र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ॥ १.१४७.२५ ॥

那位勤于习练兵器的英雄,以极其温和的言辞对难敌说话。当时,坚战心中也如此想:大地上没有能与迦尔纳相比的弓手。