摩诃婆罗多 · 章 1.150
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.150.1
द्रुपदस्यापि विप्रर्षे श्रोतुमिच्छामि संभवम् ।
कथं चापि समुत्पन्नः कथमस्त्राण्यवाप्तवान् ॥ १.१५०.१ ॥
婆罗门中的贤者啊,我也想听闻德鲁帕达的出生:他如何降生,又如何获得了武器?
1.150.2
एतदिच्छामि भगवंस्त्वत्तः श्रोतुं द्विजोत्तम ।
कौतूहलं जन्मसु मे कीर्त्यमानेष्वनेकशः ॥ १.१५०.२ ॥
尊贵的再生者中的最优者啊,这正是我想从您这里听到的:那些被多次讲述的诸生,令我好奇。
1.150.3
राजा बभूव पाञ्चालः पुत्रार्थी पुत्रकारणात् ।
वनं गतो महाराजस्तपस्तेपे सुदारुणम् ॥ १.१५०.३ ॥
般遮罗国王渴望有子,为了求子,那位大王进入森林,修行极为严苛的苦行。
1.150.4
आराधयन्प्रयत्नेन महर्षीन्संशितव्रतान् ।
तस्य संतप्यमानस्य वने मृगगणायुते ॥ १.१५०.४ ॥
他竭力侍奉那些持守严厉誓愿的大仙;在充满鹿群的森林中,他痛苦地坚持修行。
1.150.5
कालस्तु सुमहान्राजन्नत्ययात्सुतकारणात् ।
स तु राजा महातेजास्तपस्तीव्रं समाददे ॥ १.१५०.५ ॥
大王啊,为了求子,漫长的时间流逝了;那位大有光辉的国王便开始了猛烈的苦行。
1.150.6
कंचित्कालं वायुभक्षो निराहारस्तथैव च ।
तथैव तु महाबाहोर्वर्तमानस्य भारत ॥ १.१५०.६ ॥
他有一段时间以风为食,不进饮食;婆罗多啊,那位大臂者也这样持续着。
1.150.7
कालस्तस्य महाराज यातो वै नृपसत्तम ।
ततो नातिचिरात्काले वसन्ते कामदीपने ॥ १.१५०.७ ॥
伟大的国王啊,诸王中最优秀者,他的时间过去了。不久之后,燃起欲望的春天到来了。
1.150.8
फुल्लाशोकवने चैव प्राणिनां सुमनोहरे ।
नद्यास्तीरं ततो गत्वा गङ्गायाः पद्मलोचनः ॥ १.१५०.८ ॥
在盛开的无忧树林中,对众生极为悦意,然后那莲花眼者来到恒河的岸边。
1.150.9
नियमस्थश्च राजासीत्तदा भरतसत्तम ।
ततो नातिचिरात्काले वनं तन्मनुजेश्वर ॥ १.१५०.९ ॥
婆罗多中最优秀者啊,那时国王持守着誓戒。不久之后,人主啊,他前往那片森林……
1.150.10
संप्राप्ता ह्यप्सरा राजन्मेनकेत्यभिविश्रुता ।
पुष्पद्रुमान्सज्जमाना राज्ञो दर्शनमागमत् ॥ १.१५०.१० ॥
国王啊,名叫梅那卡的著名天女来了,她在开花的树间流连,来到了国王的面前。
1.150.11
न ददर्श तु सा राजंस्तत्र स्थानगतं नृपम् ।
दृष्ट्वा चाप्सरसं तां तु शुक्रं राज्ञोऽपतद्भुवि ॥ १.१५०.११ ॥
国王啊,她没有看见站在那里的国王。见到那位天女,国王的精液落在了地上。
1.150.12
ततः स राजा राजेन्द्र लज्जया नृपतिः स्वयम् ।
पद्भ्यामाक्रमतायुष्मंस्ततस्तु द्रुपदोऽभवत् ॥ १.१५०.१२ ॥
然后,诸王之主啊,长寿者啊,那位国王因羞愧,亲自用脚踩踏,变成了德鲁帕达。
1.150.13
ततस्तु तपसा तस्य राजर्षेर्भावितात्मनः ।
पुत्रः समभवच्छीघ्रं पदोस्तस्य क्रमेण तु ॥ १.१५०.१३ ॥
此后,凭借那位心灵纯净的王仙的苦行,不久便依次从他的双足中诞生了一子。
1.150.14
तेनास्य ऋषयः सर्वे समागम्य तपोधनाः ।
नाम चुक्रुर्हि विद्वांसो द्रुपदोऽस्त्विति भारत ॥ १.१५०.१४ ॥
婆罗多啊,所有富于苦行的仙人聚集一处,博学者为他取名:“就叫德鲁帕达吧。”
1.150.15
स तस्यैवाश्रमे राजन्भरद्वाजस्य भारत ।
ववृधे सुमुखं तत्र कामैः सर्वैर्नृपोत्तम ॥ १.१५०.१५ ॥
国王啊,婆罗多啊,那位面容俊美的少年就在婆罗堕闍的净修林中成长,诸般愿望皆得满足,王中之最。
1.150.16
पाञ्चालोऽपि हि राजेन्द्र स्वराज्यं गतवान्प्रभुः ।
भरद्वाजस्य विद्यार्थं सुतं दत्वा महात्मनः ॥ १.१५०.१६ ॥
王中之王啊,般遮罗王也返回了自己的国土,将儿子交给了伟大的婆罗堕闍,让他学习。
1.150.17
स कुमारस्ततो राजन्द्रोणेन सहितो वने ।
वेदांश्चाधिजगे साङ्गान्धनुर्वेदांश्च भारत ॥ १.१५०.१७ ॥
此后,国王啊,那少年与德罗纳一同在林中,婆罗多啊,精通了包括支分在内的吠陀与弓箭之学。
1.150.18
परया स मुदा युक्तो विचचार वने सुखम् ।
तस्यैवं वर्तमानस्य वने वनचरैः सह ॥ १.१५०.१८ ॥
他怀着无上的喜悦,在林中快乐地游荡。当他这样与林中的居民一同生活时——
1.150.19
कालेनातिचिराद्राजन्पिता स्वर्गमुपेयिवान् ।
स समागम्य पाञ्चालैः पाञ्चालेष्वभिषेचितः ॥ १.१५०.१९ ॥
大王啊,过了很久以后,父亲升入天界。他与般遮罗人会合,并在般遮罗人中被灌顶为王。
1.150.20
प्राप्तश्च राज्यं राजेन्द्र सुहृदां प्रीतिवर्धनः ।
राज्यं ररक्ष धर्मेण यथा चेन्द्रस्त्रिविष्टपम् ॥ १.१५०.२० ॥
大王之主啊,他获得王国,增添了朋友们的喜悦。他以正法守护王国,如同因陀罗守护三界。
1.150.21
एतन्मया ते राजेन्द्र यथावत्परिकीर्तितम् ।
द्रुपदस्य च राजर्षेर्धृष्टद्युम्नस्य जन्म च ॥ १.१५०.२१ ॥
大王之主啊,我已将此事如实讲述给你——王仙德鲁帕达的出生,以及德里斯塔迪优姆那的出生。