摩诃婆罗多 · 章 1.151
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.151.1
धृतराष्ट्रस्तु राजन्द्रे यदा कौरवनन्दनम् ।
युधिष्ठिरं विजानन्वै समर्थं राज्यरक्षणे ॥ १.१५१.१ ॥
当持国王知道库鲁族的喜悦者坚战有能力守护王国时,
1.151.2
यौवराज्याभिषेकार्थममन्त्रयत मन्त्रिभिः ।
ते तु बुद्ध्वान्वतप्यन्त धृतराष्ट्रात्मजास्तदा ॥ १.१५१.२ ॥
为了册立太子,他与大臣商议;得知此事后,持国王的诸子当时都深感懊恼。
1.151.3
ततः संवत्सरस्यान्ते यौवराज्याय पार्थिव ।
स्थापितो धृतराष्ट्रेण पाण्डुपुत्रो युधिष्ठिरः ॥ १.१५१.३ ॥
然后,在一年之末,大王啊,持国王立潘杜之子坚战为太子。
1.151.4
ततोऽदीर्घेण कालेन कुन्तीपुत्रो युधिष्ठिरः ।
पितुरन्तर्दधे कीर्तिं शीलवृत्तसमाधिभिः ॥ १.१५१.४ ॥
此后不久,贡蒂之子坚战以其品德、行为与定力,超过了父亲的声望。
1.151.5
असियुद्धे गदायुद्धे रथयुद्धे च पाण्डवः ।
संकर्षणादशिक्षद्वै शश्वच्छिक्षां वृकोदरः ॥ १.१५१.५ ॥
在剑术、杖术与车战中,般度之子狼腹(怖军)不断受到桑卡尔沙那(大力罗摩)的教导。
1.151.6
समाप्तशिक्षो भीमस्तु द्युमत्सेनसमो बले ।
पराक्रमेण संपन्नो भ्रातॄणामचरद्वशे ॥ १.१५१.६ ॥
完成学业后,怖军的力量与德尤玛特塞那相当,勇武过人,并且服从诸兄弟而行动。
1.151.7
प्रगाढदृढमुष्टित्वे लाघवे वेधने तथा ।
क्षुरनाराचभल्लानां विपाठानां च तत्त्ववित् ॥ १.१५१.७ ॥
精通紧握之力、手法之敏捷与射中目标,并知晓刀刃箭、铁箭与新月箭发射之法的真谛者。
1.151.8
ऋजुवक्रविशालानां प्रयोक्ता फाल्गुनोऽभवत् ।
लाघवे सौष्ठवे चैव नान्यः कश्चन विद्यते ॥ १.१५१.८ ॥
Phālguna(阿周那)成为直箭、弯箭与宽箭的善用者;论敏捷与技艺,无人能与之相比。
1.151.9
बीभत्सुसदृशो लोक इति द्रोणो व्यवस्थितः ।
ततोऽब्रवीद्गुडाकेशं द्रोणः कौरवसंसदि ॥ १.१५१.९ ॥
德罗纳断定世上无人能与比跋苏(阿周那)相比。随后,在俱卢众的集会上,德罗纳对古达凯莎说道。
1.151.10
अगस्त्यस्य धनुर्वेदे शिष्यो मम गुरुः पुरा ।
अग्निवेश्य इति ख्यातस्तस्य शिष्योऽस्मि भारत ॥ १.१५१.१० ॥
我昔日的老师,是阿伽斯提亚弓箭之学的弟子,以阿耆尼吠舍之名著称;婆罗多啊,我便是他的弟子。
1.151.11
तीर्थात्तीर्थं गमयितुमहमेतत्समुद्यतः ।
तपसा यन्मया प्राप्तममोघमशनिप्रभम् ॥ १.१५१.११ ॥
我已准备好将此物从一处圣地带到另一处圣地;我以苦行所得,是不失其效、如雷电般光辉的。
1.151.12
अस्त्रं ब्रह्मशिरो नाम यद्दहेत्पृथिवीमपि ।
ददता गुरुणा चोक्तं न मनुष्येष्विदंत्वया ॥ १.१५१.१२ ॥
名为“梵首”的武器,能焚烧大地;传授时,师尊说:“你不可将此用于人类之上。”
1.151.13
भारद्वाज विमोक्तव्यमल्पवीर्येषु संयुगे ।
यद्यदन्तर्हितं भूतं किंचिद्युद्ध्येत्त्वया सह ॥ १.१५१.१३ ॥
婆罗堕阁之子啊,不可在战斗中对弱小者使用它,对任何与你交战的生灵,即使隐藏着,也不可使用。
1.151.14
महातेजस्त्वमेतेन हन्याः शस्त्रेण संयुगे ।
त्वया प्राप्तमिदं वीर दिव्यं नान्योऽर्हति त्विदम् ॥ १.१५१.१४ ॥
光辉伟大的人啊,你应当在战斗中用这件武器杀敌。英雄啊,你已获得这神圣的兵器,此外无人配得上它。
1.151.15
समयस्तु त्वया रक्ष्यो मुनिसृष्टो विशांपते ।
आचार्यदक्षिणां देहि ज्ञातिग्रामस्य पश्यतः ॥ १.१५१.१५ ॥
人主啊,你须遵守这位仙人所立的约定。在众亲族面前,把师尊的束脩献给老师。
1.151.16
ददानीति प्रतिज्ञाते फाल्गुनेनाब्रवीद्गुरुः ।
युद्धेऽहं प्रतियोद्धव्यो युध्यमानस्त्वयाऽनघ ॥ १.१५१.१६ ॥
他答应说“我会给”之后,师尊对法尔古那说:“无垢者啊,在战斗中,你作战时必须与我对战。”
1.151.17
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः ।
उपसंगृह्य चरणावुपतस्थे विनीतवत् ॥ १.१५१.१७ ॥
他说“就这样吧”,俱卢之牛抓住德罗纳的双足,谦逊地侍立在他身旁。
1.151.18
द्रोणो जगाद वचनं समालिङ्ग्य तु फाल्गुनम् ।
यन्मयोक्तं पुरा पार्थ तव लोके नरं क्वचित् ॥ १.१५१.१८ ॥
德罗纳拥抱法尔古那,说出这些话:“普利塔之子啊,我先前所说的:这世上任何地方都没有像你这样的人。”
1.151.19
सदृशं कारये नैव सर्वप्रहरणे युधि ।
तत्कृतं च मया सम्यक्तव तुल्यो न वर्तते ॥ १.१५१.१९ ॥
在战斗中,在所有兵器的运用上,我没有培养出与你相等的人;我所善做的这一切——没有人能与你相比。
1.151.20
देवा युधि न शक्तास्त्वां योद्धुं दैत्या न दानवाः ।
नाहं त्वत्तो विशिष्टोऽस्मि किं पुनर्मानवा रणे ॥ १.१५१.२० ॥
在战斗中,连天神也不能与你交战,也没有阿修罗和檀那婆能胜你;我也不比你更优秀——更何况战场上的凡人呢?
1.151.21
एकस्तवाधिको लोके यो हि वृष्णिकुलोद्भवः ।
कृष्णः कमलपत्राक्षः कंसकालियसूदनः ॥ १.१५१.२१ ॥
世上有一人胜过你:出生于伐栗尼族、莲花瓣般眼睛的黑天,杀死了羯迦和迦梨耶的人。
1.151.22
स जेता सर्वलोकानां सर्वप्रहरणायुधः ।
नैतावता ते पार्थाहं भवाम्यनृतवागिह ॥ १.१५१.२२ ॥
他是征服一切世界的人,持有一切兵器;然而,阿周那啊,仅凭这一点,我在此并不会成为说谎之人。
1.151.23
तदधीनं जगत्सर्वं तत्प्रलीनं तदुद्भवम् ।
तत्पदं न विजानन्ति ब्रह्मेशानादयोऽपि वा ॥ १.१५१.२३ ॥
整个世界依赖于他,消融于他,又从他而生;连梵天、伊赏那等也不知其境界。
1.151.24
तन्नाभिप्रभवो ब्रह्मा सर्वभूतानि निर्ममे ।
स एव कर्ता भोक्ता च संहर्ता च जगन्मयम् ॥ १.१५१.२४ ॥
从他的肚脐中生出的梵天创造了一切众生;他便是创造者、享受者,也是毁灭者,其形态即是这世界。
1.151.25
स एव भूतं भव्यं च भवच्च पुरुषः परः ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ १.१५१.२५ ॥
他即是过去、未来与现在;这至上之补鲁沙永恒、遍在、坚固、不动、古老。
1.151.26
प्रादुर्भवति योगात्मा पालनार्थं स लीलया ।
तत्तुल्यो हि न जायेत न जातो न जनिष्यते ॥ १.१५१.२६ ॥
以瑜伽为自性者,为护佑而游戏般显现;与他相等者,未曾生,今不生,将来也不会生。
1.151.27
स हि मातुलजोऽभूत्ते चराचरगुरुः पिता ।
को हि तं जेतुमीहेत जानन्नात्महितं नरः ॥ १.१५१.२७ ॥
他生为你舅家之子,是动与不动者的导师与父亲。哪个明知自身利益的人,会想要战胜他呢?
1.151.28
श्यालश्च ते सखा चासौ तस्य त्वं प्राणवल्लभः ।
स्नेहमभ्यधिकं तस्य तव सख्यमवस्थितम् ॥ १.१५१.२८ ॥
他是你的内兄与朋友,你对他比生命更珍贵。他的情谊极深,你们的友谊坚定不移。
1.151.29
न तेन भवतो युद्धं भविता नर्मतोऽपि वा ।
अपिचार्थे तव पुरा शक्रेण किल चोदितः ॥ १.१५१.२९ ॥
你不会与他交战,即使是玩笑也不会;而且从前因为你的缘故,因陀罗曾经催促过他。
1.151.30
गोकुले वर्धमानस्तु नन्दगोपस्य कारणात् ।
ममांशः पाण्डवो लोके पृथिव्यां पुरुषोत्तमः ॥ १.१५१.३० ॥
在牛村(Gokula)为牧牛人难陀而成长的,我的化身般班度之子,是这世上大地上的人中至尊。
1.151.31
कौन्तेयावरजः श्रीमानर्जुनो नाम वीर्यवान् ।
भुवो भारापहरणे साहाय्यं ते करिष्यति ॥ १.१५१.३१ ॥
昆提最小的儿子、光荣而勇猛的阿周那,将助你消除大地的重负。
1.151.32
तदर्थमभयं देहि पाहि चास्मत्कृते प्रभो ।
इत्युक्तः पुण्डरीकाक्षस्तदा शक्रेण फल्गुन ॥ १.१५१.३२ ॥
“为此,请赐予我们无畏,为我们护佑,主啊!”被因陀罗如此请求后,莲花眼者那时,哦,法尔古那。
1.151.33
तमुवाच ततः श्रीमाञ्शङ्खचक्रगदाधरः ।
जानामि पाण्डवे वंशे जातं पार्थं पितृष्वसुः ॥ १.१५१.३३ ॥
于是手持螺号、轮盘与狼牙棒的光荣者对他说:“我知道,我姑母之子般度的后代中,已降生了普利塔之子。
1.151.34
पुत्रं परमधर्मिष्ठं सर्वशस्त्रभृतां वरम् ।
पालयामि त्वदंशं तं सर्वलोकमहाभुजम् ॥ १.१५१.३४ ॥
“那位最为正直、持兵者中最优秀、在一切世界中臂力强大的儿子,你的化身,我护佑着他。
1.151.35
आवयोः सख्यसदृशं न च लोके भविष्यति ।
यस्तद्भक्तः समद्भक्तो यस्तं द्वेष्टि स मामपि ॥ १.१५१.३५ ॥
“我们两人之间的友谊,世上将无可比拟。归依他的人,也就归依我;憎恨他的人,也就憎恨我。
1.151.36
यन्मे वित्तं तु तत्तस्य तं विनाहं न जीवये ।
इति पार्थ पुरा शक्रमाह सर्वेश्वरो हरिः ॥ १.१५१.३६ ॥
“我所拥有的财富,实属于他;没有他,我便无法生存。”哦,帕尔塔,往昔万主哈里曾对因陀罗这样说。
1.151.37
तस्मात्तवापि सदृशस्तं विनाभ्यधिकः पुमान् ।
न चेह भविता लोके तमेव शरणं व्रज ॥ १.१५१.३७ ॥
因此,在这世上,没有与你同等而胜过他的人。你应当投奔他作为庇护。
1.151.38
शरण्यः सर्वभूतानां देवदेवो जनार्दनः ॥ १.१५१.३८ ॥
众生的归依,诸神之神,遮那陀那(黑天)。
1.151.39
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः ।
उपसंगृह्य चरणौ युधिष्ठिरवशोऽभवत् ॥ १.१५१.३९ ॥
他说“就这样吧”,向德罗纳许下诺言,并抱住他的双足,甘愿听从坚战。
1.151.40
स्वभावादगमच्छब्दो महीं सागरमेखलाम् ।
अर्जुनस्य समो लोके नास्ति कश्चिद्धनुर्धरः ॥ १.१५१.४० ॥
名声自然传遍被大海环绕的大地:世上没有能与阿周那相比的弓手。
1.151.41
गदायुद्धेऽसियुद्धे च रथयुद्धे च पाण्डवः ।
पारगश्च धनुर्युद्धे बभूवाथ धनञ्जयः ॥ १.१५१.४१ ॥
在棍棒战、剑战和车战中,以及在射箭上,般度之子财主(阿周那)都成了精通者。
1.151.42
नीतिमान्सकलां नीतिं विबुधाधिपतेस्तदा ।
अस्त्रे शस्त्रे च शास्त्रे च रथनागाश्वकर्मणि।
अवाप्य सहदेवोऽपि भ्रातॄणां ववृते वशे ॥ १.१५१.४२ ॥
精通政略的偕天也在那时得到了天神之主的全部政略,以及兵器、武器、学术,还有车、象、马的技艺,并居于诸兄的掌控之下。
1.151.43
द्रोणेनैवं विनीतश्च भ्रातॄणां नकुलः प्रियः ।
चित्रयोधी समाख्यातो बभूवातिरथोदितः ॥ १.१५१.४३ ॥
Nakula 受 Droṇa 如此教导,深得诸兄喜爱,以善战多能之士闻名,被宣称为大车将(Atiratha)。
1.151.44
त्रिवर्षकृतयज्ञस्तु गन्धर्वाणामुपप्लवे ।
अर्जुनप्रमुखैः पार्थैः सौवीरः समरे हतः ॥ १.१५१.४४ ॥
在乾闼婆(Gandharva)来袭时,曾举行三年祭祀的萨维拉(Sauvīra)王,在与阿周那领导的贡提之子交战中阵亡。
1.151.45
न शशाक वशे कर्तुं यं पाण्डुरपि वीर्यवान् ।
सोऽर्जुनेन वशं नीतो राजासीद्यवनाधिपः ॥ १.१५१.४५ ॥
连勇武的 Pāṇḍu 也无法制服的那位耶婆那(Yavana)之王,被阿周那所降服。
1.151.46
अतीव बलसंपन्नः सदा मानि कुरून्प्रति ।
विपुलो नाम सौवीरः शस्तः पार्थेन धीमता ॥ १.१५१.४६ ॥
萨维拉(Sauvīra)人 Vipula 极为强悍,常对俱卢人傲慢,被智慧的 Pārtha 击倒。
1.151.47
दत्तामित्र इति ख्यातं सङ्ग्रामे कृतनिश्चयम् ।
सुमित्रं नाम सौवीरमर्जुनोऽदमयच्छरैः ॥ १.१५१.४७ ॥
萨维拉(Sauvīra)人 Sumitra,号称 Dattāmitra,战时意志坚定,被阿周那以箭矢制服。
1.151.48
भीमसेनसहायश्च रथानामयुतं च सः ।
अर्जुनः समरे प्राच्यान्सर्वानेकरथोऽजयत् ॥ १.१५१.४८ ॥
在 Bhīmasena 的协助下,阿周那独乘一车,在战场上征服了拥有一万辆战车的所有东方诸族。
1.151.49
तथैवैकरथो गत्वा दक्षिणामजयद्दिशम् ।
धनौघं प्रापयामास कुरुराष्ट्रं धनञ्जयः ॥ १.१५१.४९ ॥
同样,Dhanañjaya 乘一辆战车前往,征服了南方,并使大量财富流入库鲁王国。
1.151.50
यतः पञ्चदशे वर्षे सर्वमेतच्चकार सः ।
तं दृष्ट्वा धार्तराष्ट्राणां ततो भयमजायत ॥ १.१५१.५० ॥
因为在第十五年,他完成了这一切;见到他之后,持国的儿子们心中产生了恐惧。
1.151.51
यः सर्वान्धृतराष्ट्रस्य पुत्रान्विप्रचकार ह ।
भीमसेनो महाबाहुर्बलाद्बलवतां वरः ॥ १.१५१.५१ ॥
大臂的 Bhīmasena 曾伤害持国的所有儿子,他是强者中最优秀的。
1.151.52
अदुष्टभावं तं दोषैर्जगृहुर्दोषबुद्धयः ।
धार्तराष्ट्रास्तथा सर्वे भयाद्भीमस्य कर्मणा ॥ १.१५१.५२ ॥
他本性无过,但心怀挑剔的持国之子们却对他加以诋毁;他们都因惧怕 Bhīma 的所作所为而如此。
1.151.53
तं दृष्ट्वा कर्मभिः पार्थान्सर्वानागतलक्षणान् ।
बलाद्बहुगुणांस्तेभ्यो बिभियुर्दोषबुद्धयः ॥ १.१५१.५३ ॥
见到他的所作所为,又见普利塔的所有儿子都具有吉祥之相与众多美德,那些心怀挑剔的人便害怕他们。
1.151.54
एवं सर्वे महात्मानः पाण्डवा मनुजोत्तमाः ।
परराष्ट्राणि निर्जित्य स्वराष्ट्रं ववृधुः पुरा ॥ १.१५१.५४ ॥
如此,所有高尚的般度之子,人中最优秀者,征服了外国之后,使自己的国家日益兴盛。
1.151.55
ततो बलमतिख्यातं विज्ञाय दृढधन्विनाम् ।
दूषितः सहसा भावो धृतराष्ट्रस्य पाण्डुषु।
स चिन्तापरमो राजा न निद्रामलभन्निशि ॥ १.१५१.५५ ॥
得知这些坚弓手的赫赫威力之后,持国王对般度诸子的心意突然变坏。那位国王心思重重,夜里无法入睡。