摩诃婆罗多 · 章 1.152
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.152.1
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् ।
दुर्योधनो लक्षयित्वा पर्यतप्यत दुर्मनाः ॥ १.१५२.१ ॥
杜尔约陀那见到比生命还珍贵的毗摩先那与精通技艺的阿周那,心中烦乱,内心痛苦不已。
1.152.2
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः ।
अनेकारभ्युपायैस्ते जिघांसन्ति स्म पाण्डवान् ॥ १.१५२.२ ॥
于是毗迦尔丹那之子迦尔纳与苏跋罗之子沙恭尼,也以种种计谋企图杀害般度五子。
1.152.3
पाण्डवा अपि तत्सर्वं प्रतिचक्रुर्यथाबलम् ।
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥ १.१५२.३ ॥
般度五子也依自身力量一一应对,但不公开行动,遵从毗杜罗的意见。
1.152.4
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा ।
कथयाञ्चक्रिरे तेषां गुणान्संसत्सु भारत ॥ १.१५२.४ ॥
婆罗多啊!горожане见般度之子具备诸般德行,便在集会中传颂他们的美德。
1.152.5
राज्यप्राप्तिं च संप्राप्तं ज्येष्ठं पाण्डुसुतं तदा ।
कथयन्ति स्म संभूय चत्वरेषु सभासु च ॥ १.१५२.५ ॥
于是他们聚集在十字路口与集会中,谈论已获得王位继承权的般度长子。
1.152.6
प्रज्ञाश्चक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः ।
राज्यं न प्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ॥ १.१५२.६ ॥
虽然智慧是他的眼睛,但因为眼盲,人主持国的德里塔拉施特拉先前未能得到王国,他怎么能成为国王呢?
1.152.7
तथा शान्तनवो भीष्मः सत्यसन्धो महाव्रतः ।
प्रत्याख्याय पुरा राज्यं न स जातु ग्रहीष्यति ॥ १.१५२.७ ॥
同样,檀那之子毗湿摩,言而有信,持大誓,先前已辞让王位,他绝不会接受。
1.152.8
ते वयं पाण्डवज्येष्ठं तरुणं वृद्धशीलिनम् ।
अभिषिञ्चाम साध्वद्य सत्यकारुण्यवेदिनम् ॥ १.१५२.८ ॥
今日我们应当为他行灌顶之礼——他是般度诸子中的长者,年轻却有老成之德,通晓真实与慈悲。
1.152.9
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् ।
सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् ॥ १.१५२.९ ॥
他通晓法义,必将尊敬檀那之子毗湿摩与持国王及其诸子,以种种享乐供养他们。
1.152.10
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि जल्पताम् ।
युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ॥ १.१५२.१० ॥
德约陀那听到那些倾向坚战之人的言语,心怀恶念的他深感痛苦。
1.152.11
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे ।
ईर्ष्यया चापि संतप्तो धृतराष्ट्रमुपागमत् ॥ १.१५२.११ ॥
那恶念之人痛苦不堪,不能忍受他们的言语,又被嫉妒煎熬,便前往持国王那里。
1.152.12
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः ।
पौरानुरागसंतप्तः पश्चादिदमभाषत ॥ १.१५२.१२ ॥
随后,他见父王独处,便向父王致敬,为城民的爱戴所煎熬,于是说出了下面这番话。
1.152.13
श्रुता मे जल्पतां तात पौराणामशिवा गिरः ।
त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ॥ १.१५२.१३ ॥
父亲,我听到城民不祥的议论:他们轻视你和毗湿摩,想要般度之子做他们的君主。
1.152.14
मतमेतच्च भीष्मस्य न स राज्यं बुभुक्षति ।
अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ॥ १.१५२.१४ ॥
这也是毗湿摩的看法:他不想享受王国。但城中的人却想给我们带来极大的痛苦。
1.152.15
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा ।
त्वमन्धगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् ॥ १.१५२.१५ ॥
从前般度凭借自身的美德从父亲那里获得了王国;而你因为失明,未能获得王国。
1.152.16
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः ।
तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्यापि चापरः ॥ १.१५२.१६ ॥
若这位般度之子获得了般度的继承权,他的儿子必定会获得,而在他之后,他的另一个儿子也会获得。
1.152.17
ते वयं राजवंशेन हीनाः सह सुतैरपि ।
अवज्ञाता भविष्यामो लोकस्य जगतीपते ॥ १.१५२.१७ ॥
大地之主啊,我们若失去王族,便会和我们的儿子一起被百姓轻视。
1.152.18
सततं निरयं प्राप्ताः परपिण्डोपजीविनः ।
न भवेम यथा राजंस्तथा नीतिर्विधीयताम् ॥ १.१५२.१८ ॥
国王啊,靠他人食物生活的人永远堕入地狱;所以应当制定策略,使我们不至如此。
1.152.19
यदि त्वं हि पुरा राजन्निदं राज्यमवाप्तवान् ।
ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने ॥ १.१५२.१९ ॥
大王,若你先前已得此国,我们必定也会从那无所约束之人手中得到王国。
1.152.20
धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् ।
मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत् ॥ १.१५२.२० ॥
般度之子的这番话,持国王听后似思量片刻,便对难敌说道。
1.152.21
धर्मनित्यस्तथा पाण्डुः सुप्रीतो मयि कौरवः ।
सर्वेषु ज्ञातिषु तथा मदीयेषु विशेषतः ॥ १.१५२.२१ ॥
恪守法度的般度,对我这位俱卢族人十分满意,对我的所有亲族亦然,尤其对我。
1.152.22
नात्र किंचन जानाति भोजनादि चिकीर्षितम् ।
निवेदयति तत्सर्वं मयि धर्मभृतां वरः ॥ १.१५२.२२ ॥
他对于饮食等所欲行之事一无所知;持法者中最优秀的他,将这一切都禀报于我。
1.152.23
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरः सदा ।
गुणावाँल्लोकविख्यातो नगरे च प्रतिष्ठितः ॥ १.१५२.२३ ॥
他的儿子如般度一般,始终专心于法;德行兼备,名闻世间,在城中享有威望。
1.152.24
स कथं शक्यतेऽस्माभिरपाक्रष्टुं नरर्षभः ।
राज्यमेष हि नः प्राप्तः ससहयो विशेषतः ॥ १.१५२.२४ ॥
那人中之牛,我们怎能将他排除?这王国已归我们所有,尤其是与他的同伴一起。
1.152.25
भृता हि पाण्डुनाऽमात्या बलं च सततं मतम् ।
धृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ॥ १.१५२.२५ ॥
般度始终供养大臣与军队,尤其也供养他们的子孙。
1.152.26
ते तथा संस्तुतास्तात विषये पाण्डुना नराः ।
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ॥ १.१५२.२६ ॥
那些在般度王国中如此受尊敬的人,亲爱的,为了坚战,他们怎会不杀我们和我们的亲族呢?
1.152.27
नैते विषयमिच्छेयुर्धर्मत्यागे विशेषतः ।
ते वयं कौरवेन्द्राणामेतेषां च महात्मनाम् ॥ १.१५२.२७ ॥
这些人不会贪求王国,尤其是放弃法之时。我们属于俱卢之主与这些大德之人。
1.152.28
कथं न वाच्यतां तात गच्छेम जगतस्तथा ॥ १.१५२.२८ ॥
亲爱的,若我们这样行事,岂不会在世间遭受非议吗?
1.152.29
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः ।
यतः पुतस्ततो द्रोणो भविता नात्र संशयः ॥ १.१५२.२९ ॥
毗湿摩始终保持中立,德罗纳之子站在我这边。他既是我的儿子,德罗纳也必会与我们同在,此事毫无疑问。
1.152.30
कृपः शारद्वतश्चैव यत एव वयं ततः ।
बागिनेयं ततो द्रौणिं न त्यक्ष्यति कथंचन ॥ १.१५२.३० ॥
沙罗筏多之子慈悯与我们同在。因此,他无论如何也不会抛弃他的外甥与德罗纳之子。
1.152.31
क्षत्ता तु बन्धुरस्माकं प्रच्छन्नस्तु ततः परैः ।
न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् ॥ १.१५२.३१ ॥
刹多确是我们的亲族,但他暗中站在别人那边。他一人不足以为了般度之子而与我们对抗。
1.152.32
सुविस्रब्धान्पाण्डुसुतान्सह मात्रा विवासय ।
वारणावतमद्यैव नात्र दोषो भविष्यति ॥ १.१५२.३२ ॥
趁般度之子完全信任我们的时候,今天就把他们与其母一同送往婆罗那瓦陀。此事不会有任何过失。
1.152.33
विनिद्राकरणं घोरं हृदि शल्यमिवार्पितम् ।
शोपकपावकमुद्धूतं कर्मणानेन नाशय ॥ १.१५२.३३ ॥
这令人失眠的可怕忧虑,如刺扎入心中,又如灼热之火燃起,你以此行动将它消灭。