Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 1.155

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

1.155.1

ततो दुर्योधनो राजा सर्वास्तु प्रकृतीः शनैः ।
अर्थमानप्रदानाभ्यां संजहार सहानुजः।
युयुत्सुमपनीयैकं धार्तराष्ट्रं सहोदरम् ॥ १.१५५.१ ॥

そこで王ドゥルヨーダナは弟たちとともに、富と名誉を与えて次第に臣民すべてを味方につけ、ただドリタラーシュトラの同母弟ユユツの一人だけを遠ざけた。

1.155.2

धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः ।
कथयाञ्चक्रिरे रम्यं नगरं वारणावतम् ॥ १.१५५.२ ॥

ドリタラーシュトラに遣わされた数人の有能な顧問が、快適なヴァーラナーヴァタの町を語り始めた。

1.155.3

अयं समाजः सुमहान्रमणीयतमो भुवि ।
उपस्थितः पशुपतेर्नगरे वारणावते ॥ १.१५५.३ ॥

地上で最も麗しいこの大きな集いは、ヴァーラナーヴァタの町でパシュパティ(シヴァ)のために催される。

1.155.4

सर्वरत्नसमाकीर्णे पुण्यदेशे मनोरमे ।
इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ॥ १.१५५.४ ॥

ドリタラーシュトラの言葉に従い、あらゆる宝玉に満ちた清らかで麗しい地のことを語り合った。

1.155.5

कथ्यमाने तथा रम्ये नगरे वारणावते ।
गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ॥ १.१५५.५ ॥

王よ、そのヴァーラナーヴァタの美しい町が語られている間に、パーンドゥの息子たちにはそこへ行く考えが生まれた。

1.155.6

यदा त्वमन्यत नृपो जातकौतूहला इति ।
उवाचैतानेत्य तदा पाण्डवानम्बिकासुतः ॥ १.१५५.६ ॥

王が、パーンダヴァたちが興味をかき立てられたと判断したとき、アンビカーの息子は彼らのもとへ来てこう言った。

1.155.7

अधीतानि च शास्त्राणि युष्माभिरिह कृत्स्नशः ।
अस्त्राणि च तथा द्रोणाद्गौतमाच्च शरद्वतः ॥ १.१५५.७ ॥

ここであなたがたは、ドローナ、ガウタマ(クリパ)、シャラドヴァットの子から、学問と武器をすべて修めた。

1.155.8

कृतकृत्या भवन्तस्तु सर्वविद्याविशारदाः ।
सोऽहमेवं गते ताताश्चिन्तयामि समन्ततः।
रक्षणे व्यवहारे च राज्यस्य सततं हिते ॥ १.१५५.८ ॥

あなたがたは目的を遂げ、あらゆる学問に熟達した。息子たちよ、このような状況で、私は王国の守護、統治、そしてその永続的な繁栄について、あらゆる方面から思いめぐらしている。

1.155.9

ममैते पुरुषा नित्यं कथयन्ति पुनःपुनः ।
रमणीयतमं लोके नगरं वारणावतम् ॥ १.१५५.९ ॥

私の従者たちは、世界で最も美しい都市はヴァーラナーヴァタだと、くり返し絶えず言っている。

1.155.10

ते ताता यदि मन्यध्वमुत्सवं वारणावते ।
सगणाः सान्वयाश्चैव विहरध्वं यथाऽमराः ॥ १.१५५.१० ॥

息子たちよ、もしヴァーラナーヴァタで祭りを催すのがよいと思うなら、従者と家族とともに、神々のように楽しみなさい。

1.155.11

ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः ।
प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः ॥ १.१५५.११ ॥

バラモンと歌い手たちに、あらゆる方法で、望むままに宝玉を与えなさい。神々のように輝きながら。

1.155.12

कंचित्कालं विहृत्यैवमनुभूय परां मुदम् ।
इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ॥ १.१५५.१२ ॥

しばらくこのように楽しみ、無上の喜びを味わったのち、あなたがたは幸せにこのハスティナープラへ帰ってくるだろう。

1.155.13

निवसध्वं च तत्रैव संरक्षणपरायणाः ।
वैलक्षण्यं न वै तत्र भविष्यति परंतपाः ॥ १.१५५.१३ ॥

そこに留まり、守護に専念せよ。敵を焼き尽くす者たちよ、そこには何の不都合も起こらないだろう。

1.155.14

धृतराष्ट्रस्य तं काममनुबुध्य युधिष्ठिरः ।
आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् ॥ १.१५५.१४ ॥

ドリタラーシュトラのその望みを察し、また自分に味方がいないことも考えて、ユディシュティラは「そのようにしよう」と答えた。

1.155.15

ततो भीष्मं शान्तनवं विदुरं च महामतिम् ।
द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् ॥ १.१५५.१५ ॥

次いで彼は、シャンタヌの子ビーシュマ、大智のヴィドゥラ、ドローナ、バーヒリカ、そしてクル族のソーマダッタにも語りかけた。

1.155.16

कृपमाचार्यपुत्रं च भूरिश्रवसमेव च ।
मान्यानन्यानमात्यांश्च ब्राह्मणांश्च तपोधनान् ॥ १.१५५.१६ ॥

クリパ、師の子(アシュヴァッターマン)、そしてブーリシュラヴァスにも。さらに、その他の尊ばれる大臣たちや、苦行を財とするバラモンたちにも。

1.155.17

पुरोहितांश्च पौत्रांश्च गान्धारीं च यशस्विनीम् ।
सर्वा मातॄरुपस्पृष्ट्वा विदुरस्य च योषितः।
युधिष्ठिरः शनैर्दीन उवाचेदं वचस्तदा ॥ १.१५५.१७ ॥

家付きの司祭、孫たち、そして栄光あるガーンダーリーへ。すべての母たちに敬意をもって触れ、ヴィドゥラの妻たちにも(礼をし)、そのとき悲しみに沈むユディシュティラはゆっくりとこの言葉を語った。

1.155.18

रमणीये जनाकीर्णे नगरे वारणावते ।
सगणास्तत्र यास्यामो धृतराष्ट्रस्य शासनात् ॥ १.१५५.१८ ॥

ドリタラーシュトラの命により、人々でにぎわう美しいヴァーラナーヴァタの都へ、従者とともに我々は行くことになろう。

1.155.19

प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत ।
आशीर्भिर्बृहितानस्मान्न पापं प्रसहिष्यते ॥ १.१५५.१९ ॥

皆、心を喜ばせて吉祥の言葉を発せよ。祝福によって我らを栄えさせよ。罪が我らに打ち勝つことなきように。

1.155.20

एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः ।
प्रसन्नवदना भूत्वा तेऽन्ववर्तन्त पाण्डवान् ॥ १.१५५.२० ॥

パーンドゥの子にこう告げられると、クル族の者たちは皆喜色を浮かべ、パーンダヴァたちに従った。

1.155.21

स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः ।
मा च वोस्त्वशुभं किंचित्सर्वशः पाण्डुनन्दनाः ॥ १.१५५.२१ ॥

道中、すべての生き物から常に安寧があらんことを。パーンドゥの子らよ、いかなる凶事もお前たちに及ばぬように。

1.155.22

ततः कृतस्वस्त्ययना राज्यलाभाय पार्थिवाः ।
कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् ॥ १.१५५.२२ ॥

その後、吉祥の儀式を行い、王国を得るためにすべての務めを果たして、王たちはヴァーラナーヴァタへと出発した。