摩诃婆罗多 · 章 1.157
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.157.1
पाण्डवास्तु रथान्युक्तान्सदश्वैरनिलोपमैः ।
आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् ॥ १.१५७.१ ॥
般度之子乘上由如风般迅捷良马驾驭的战车,悲痛地抱住毗湿摩的双足。
1.157.2
राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः ।
अन्येषां चैव वृद्धानां कृपस्य विदुरस्य च ॥ १.१५७.२ ॥
还有国王持国、大心的德罗纳、其他长者、克里巴和维都罗的双足。
1.157.3
एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः ।
समालिङ्ग्य समानान्वै बालैश्चाप्यभिवादिताः ॥ १.१५७.३ ॥
般度之子坚守誓愿,如此向所有年长的俱卢族人行礼,拥抱同辈,年少者也向他们致敬。
1.157.4
सर्वा मातॄस्तथाऽऽपृच्छ्य कृत्वा चैव प्रदक्षिणम् ।
प्रकृतीरपि सर्वाश्च प्रययुर्वारणावतम् ॥ १.१५७.४ ॥
向所有母亲告别,右绕行礼,并向所有臣民辞别后,他们启程前往婆罗那伐多。
1.157.5
विदुरश्च महाप्राज्ञस्तथाऽन्ये कुरुपुङ्गवाः ।
पौराश्च पुरुषव्याघ्रानन्वीयुः शोककर्शिताः ॥ १.१५७.५ ॥
大智的维都罗、其他俱卢族的雄牛与城中百姓,因悲伤而消瘦,跟随在那些人中虎之后。
1.157.6
तत्र केचिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा ।
दीनान्दृष्ट्वा पाण्डुसुतानतीव भृशदुःखिताः ॥ १.१५७.६ ॥
那时,一些无畏的婆罗门看见般度之子悲苦不堪,深感痛心,便开口说道。
1.157.7
विषमं पश्यते राजा सर्वथा स सुमन्दधीः ।
कौरव्यो धृतराष्ट्रस्तु न च धर्मं प्रपश्यति ॥ १.१५७.७ ॥
国王处处只见不公;那位智力极其低下的俱卢后裔持国,看不见法。
1.157.8
न हि पापमपापात्मा रोचयिष्यति पाण्डवः ।
भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः ॥ १.१५७.८ ॥
无罪之性的般遮瓦不会赞同恶事——无论是力量最强的怖军,还是贡蒂之子阿周那。
1.157.9
कुत एव महात्मानौ माद्रीपुत्रौ करिष्यतः ।
तान्राज्यं पितृतः प्राप्तान्धृतराष्ट्रो न मृष्यति ॥ १.१५७.९ ॥
那么,两位伟大的摩德丽之子怎会做出那样的事?持国无法容忍那些从父亲继承王国的人。
1.157.10
अधर्म्यमिदमत्यन्तं कथं भीष्मोऽनुमन्यते ।
विवास्यमानानस्थाने नगरे योऽभिमन्यते ॥ १.१५७.१० ॥
这极为不义。那位认可将人放逐到城中不当之地的毗湿摩,怎会同意此事?
1.157.11
पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा ।
विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः ॥ १.१५७.११ ॥
往昔,檀努之子(毗湿摩)对我们如同父亲一般的君王;王仙毗质埜毗耶与俱卢之喜悦般度也是如此。
1.157.12
स तस्मिन्पुरुषव्याघ्रे देवभावं गते सति ।
राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यति ॥ १.१५७.१२ ॥
那位人中猛虎(般度)已升入天神之境,持国便无法容忍这些年幼的王子。
1.157.13
वयमेतदनिच्छन्तः सर्व एव पुरोत्तमात् ।
गृहान्विहाय गच्छामो यत्र गन्ता युधिष्ठिरः ॥ १.१५७.१३ ॥
我们都不愿如此,离开最好的城市和家园,前往尤提瑟提罗所去之处。
1.157.14
तांस्तथा वादिनः पौरान्दुःकितान्दुःखकर्शितः ।
उवाच मनसा ध्यात्वा धर्मराजो युधिष्ठिरः ॥ १.१५७.१४ ॥
看到悲伤的市民如此诉说,因忧愁而憔悴的法王尤提瑟提罗在心中思量后说道:
1.157.15
पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः ।
अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् ॥ १.१५७.१५ ॥
父亲值得尊敬,老师最为崇高;大地之主所说的,我们当无疑地遵行,这是我们的誓愿。
1.157.16
भवन्तः सुहृदोऽस्माकं यात कृत्वा प्रदक्षिणम् ।
प्रतिनन्द्य तथाऽऽशीर्भिर्निवर्तध्वं यथागृहम् ॥ १.१५७.१६ ॥
你们是我们的朋友。行右绕之礼后离去,以祝福相别,各自返回家中。
1.157.17
यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते ।
तदा करिष्यथास्माकं प्रियाणि च हितानि च ॥ १.१५७.१७ ॥
当我们的事情由你们成就之时,你们便会为我们做那些令人欢喜、有益的事。
1.157.18
एवमुक्तास्तदा पौराः कृत्वा चापि प्रदक्षिणम् ।
आशीर्भिश्चाभिनन्द्यैताञ्जग्मुर्नगरमेव हि ॥ १.१५७.१८ ॥
市民听后,便行右绕之礼,以祝福相别,随即返回了城中。
1.157.19
पौरेषु विनिवृत्तेषु विदुरः सर्वधर्मवित् ।
बोधयन्पाण्डवश्रेष्ठमिदंवचनमब्रवीत् ॥ १.१५७.१९ ॥
众市民离去之后,通晓一切法的维杜罗开导般度之子中最优秀者,说了这番话。
1.157.20
प्राज्ञः प्राज्ञं प्रलापज्ञः प्रलापज्ञमिदं वचः ।
यो जानाति परप्रज्ञां नीतिशास्त्रानुसारिणीम्।
विज्ञायेह तथा कुर्यादापदं निस्तरेद्यथा ॥ १.१५७.२० ॥
智者对智者说话,懂得言辞之妙者对懂得者说话。知晓他人遵循政治学的智慧者,应当领会此理,在此如此行事,以便度过灾难。
1.157.21
अलोहं निशितं शस्त्रं शरीपरिकर्तनम् ।
यो वेत्ति न तु तं घ्नन्ति प्रतिघातविदं द्विषः ॥ १.१५७.२१ ॥
敌人不杀害那知晓非金属、锋利、能割伤身体之武器的人,即知晓反击之道者。
1.157.22
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः ।
न दहेदिति चात्मानं यो रक्षति स जीवति ॥ १.१५७.२२ ॥
如同清除荆棘者、驱散寒冷者,以及大林中穴居之物,那说“愿我不被烧毁”而保护自己的人,才能存活。
1.157.23
नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः ।
नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः ॥ १.१५७.२३ ॥
无眼者不识道路,无眼者寻不到方向;无定力者得不到兴盛。如此被唤醒的你,应当领悟。
1.157.24
अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् ।
श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् ॥ १.१५७.२४ ॥
人接受不可信之人所赠的非金属武器;若投靠那知晓犬径之人,便可脱离火难。
1.157.25
चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः ।
आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते ॥ १.१५७.२५ ॥
行于道路者识别路径,借星辰辨明方向;以自身之五根折磨自己者,不受他人折磨。
1.157.26
एवमुक्तः प्रत्युवाच धर्मराजो युधिष्ठिरः ।
विदुरं विदुषां श्रेष्ठं ज्ञातमित्येव पाण्डवः ॥ १.१५७.२६ ॥
如此被问,法王坚战回答智者中最优秀的毗度罗说:“我已明白。”般度之子如是说。
1.157.27
अनुशिक्ष्यानुगम्यैतान्कृत्वा चैव प्रदक्षिणम् ।
पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् ॥ १.१५७.२७ ॥
教诲他们,跟随他们,行右绕礼,向般度五子告辞后,毗度罗回家去了。
1.157.28
निवृत्ते विदुरे चापि भीष्मे पौरजने तथा ।
अजातशत्रुमासाद्य कुन्ती वचनमब्रवीत् ॥ १.१५७.२८ ॥
毗度罗已返回,毗湿摩与城中百姓也已离去,贡蒂于是走近阿阇世,说了这些话。
1.157.29
क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव ।
त्वया च स तथेत्युक्तो जानीमो न च तद्वयम् ॥ १.१५७.२९ ॥
毗度罗在众人中所说的话,仿佛未曾说出;你对他说“确是如此”,而我们并不知晓。
1.157.30
यदीदं शक्यमस्माभिर्ज्ञातुं नैव च दोषवत् ।
श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च ॥ १.१५७.३० ॥
若我们能够得知此事,且并无过失,我愿听你与他之间的全部对话。
1.157.31
विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् ।
पन्थानो वेदितव्याश्च नक्षत्रैश्च तथा दिशः।
कुड्याश्चविदिताःकार्याःस्याच्छुद्धिरितिचाब्रवीत् ॥ १.१५७.३१ ॥
毗睹罗对我说:应知如何躲避毒火;道路应当熟知,方向应借星辰辨认;墙垣应当熟悉,并须保持洁净。
1.157.32
जितेन्द्रियश्च वसुधां प्राप्स्यतीति च मेऽब्रवीत् ।
विज्ञातमिति तत्सर्वं प्रत्युक्तो विदुरो मया ॥ १.१५७.३२ ॥
毗睹罗又对我说:你若克制诸根,必将得到大地。我答道:「这一切我都已明白。」毗睹罗就这样与我应对。
1.157.33
अष्टमेऽहनि रोहिण्यां प्रयाताः फाल्गुनस्य ते ।
वारणावतमासाद्य ददृशुर्नागरं जनम् ॥ १.१५७.३३ ॥
在法尔古那月的第八日,于罗哈尼宿,他们启程了。抵达伐罗那伐多后,他们看见了城中的居民。