Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.158

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.158.1

ततः सर्वाः प्रकृतयो नगराद्वारणावतात् ।
सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ॥ १.१५८.१ ॥

于是,所有来自婆罗那伐多城的臣民,携带一切吉祥之物,依照经典,不知疲倦地出发了。

1.158.2

श्रुत्वाऽगतान्पाण्डुपुत्रान्नानायानैः सहस्रशः ।
अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा ॥ १.१५८.२ ॥

听闻般度之子已经归来,成千上万的人乘坐各种车辆出城迎接那些人中俊杰;一听到消息,他们便怀着无上的喜悦前往。

1.158.3

ते समासाद्य कौन्तेयान्वारणावतका जनाः ।
कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ॥ १.१५८.३ ॥

婆罗那伐多城的人们来到贡蒂之子身边,献上胜利的祝福,大家围绕着他们,侍立在旁。

1.158.4

तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः ।
विबभौ देवसङ्काशो वज्रपाणिरिवामरैः ॥ १.१५८.४ ॥

被他们簇拥的法王、人中猛虎坚战,光辉璀璨,犹如手持金刚杵的因陀罗被诸天环绕。

1.158.5

सत्कृताश्चैव पौरैस्ते पौरान्सत्कृत्य चानघ ।
अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् ॥ १.१५८.५ ॥

他们受到城中居民的敬重,也以礼相待,无罪之人啊,他们进入了装饰华丽、人群熙攘的婆罗那伐多城。

1.158.6

ते प्रविश्य पुरीं वीरास्तूर्णं जग्मुरथो गृहान् ।
ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ॥ १.१५८.६ ॥

这些英雄进入城中后,迅速回到各自的住所——回到那些专注于自身职责的婆罗门家中,啊,大地的守护者。

1.158.7

नगराधिकृतानां च गृहाणि रथिनां वराः ।
उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहाण्यपि ॥ १.१५८.७ ॥

城中官员与最优秀的车战勇士的府第,人中之最的府第,以及吠舍与首陀罗的住宅,也都呈现在他们面前。

1.158.8

अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभ ।
जग्मुरावसथं पश्चात्पुरोचनपुरःसराः ॥ १.१५८.८ ॥

婆罗多之牛啊!受到百姓尊敬的般度子孙,以普罗遮那为前导,随后前往住所。

1.158.9

तेभ्यो भक्ष्याणि पानानि शयनानि शुभानि च ।
आसनानि च मुख्यानि प्रददौ स पुरोचनः ॥ १.१५८.९ ॥

普罗遮那给了他们食物、饮料、精美的床榻和上好的座位。

1.158.10

तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः ।
उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ॥ १.१५८.१० ॥

他们在那里受到他的礼遇,携带贵重的财物,由城中居民侍奉而居住。

1.158.11

दशरात्रोषितानां तु तत्र तेषां पुरोचनः ।
निवेदयामास गृहं शिवाख्यमशिवं तदा ॥ १.१५८.११ ॥

他们在那里住了十夜之后,普罗遮那便向他们展示了名为“湿婆”、实则不吉的那座房屋。

1.158.12

तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः ।
पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ॥ १.१५८.१२ ॥

依照普罗遮那的话,那些人中之虎带着他们的财物进入那里,犹如药叉进入吉罗娑山。

1.158.13

तच्चागारमभिप्रेक्ष्य सर्वधर्मभृतां वरः ।
उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः ॥ १.१५८.१३ ॥

般遮仔细察看那座宫殿后,诸法持者中最为殊胜的坚战对怖军说:“这是易燃之物。”

1.158.14

जिघ्राणोऽस्य वसागन्धं सर्पिर्जतुविमिश्रितम् ।
कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप ॥ १.१५८.१४ ॥

闻到脂肪、酥油与紫胶混合的气味后,他说:“啊,焚敌者,这座宫殿显然是为燃烧而建的。”

1.158.15

शणसर्जरसं व्यक्तमानीय गृहकर्मणि ।
मुञ्जबल्वजवंशादिद्रव्यं सर्वं घृतोक्षितम् ॥ १.१५८.१५ ॥

显然,为建造这座宫殿已搬来了麻纤维与沙罗树脂;牟闍草、巴尔瓦加草、竹子等一切材料都已洒上了酥油。

1.158.16

तृणबल्वजकार्पासवंशदारुकटान्यपि ।
आग्नेयान्यत्र क्षिप्तानि परितो वेश्मनस्तथा ॥ १.१५८.१६ ॥

草、巴尔瓦加草、棉花、竹子、木料和草席等易燃之物,也都被散布在这座宫殿的四周。

1.158.17

शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि ।
विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः ॥ १.१५८.१७ ॥

可靠而谦逊的工匠们把这座宫殿建造得很好;而这个恶人补罗遮那见我信任他,想要烧死我。

1.158.18

तथा हि वर्तते मन्दः सुयोधनवशे स्थितः ।
इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तथा ॥ १.१५८.१८ ॥

事情就是这样,因为那个愚人受制于苏提那;然而大智的毗黎杜罗也曾如此看出了这一点。

1.158.19

आपदं तेन मां पार्थ स संबोधितवान्पुरा ।
ते वयं बोधितास्तेन नित्यमस्मद्धितैषिणा ॥ १.१५८.१९ ॥

普利塔之子啊,他以前就提醒过我危险;那位希望我们好的人一直在警示我们。

1.158.20

पित्रा कनीयसा स्नेहाद्बुद्धिमन्तो शिवं गृहम् ।
अनार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ॥ १.१५८.२० ॥

聪明的父亲出于对幼子的爱,建造了一座吉祥的房屋;但那些受杜尔约达那支配的卑劣而隐秘之人却将它精心布置。

1.158.21

यदीदं गृहामाग्नेयं विहितं मन्यते भवान् ।
तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ॥ १.१५८.२१ ॥

如果您认为这座房子是为了纵火而设计的,那么我们最好回到从前居住的那个地方去。

1.158.22

दर्शयित्वा पृथग्गन्तुं न कार्यं प्रतिभाति मे ।
अशुभं वा शुभं वा स्यात्तैर्वसाम सहैव तु ॥ १.१५८.२२ ॥

表现出分开而离去,在我看来并不妥当;无论吉凶,我们都与他们一同居住吧。

1.158.23

अद्यप्रभृति चास्मासु गतेषु भयविह्वलः ।
रूढमूलो भवेद्राज्ये धार्तराष्ट्रो जनेश्वरः ॥ १.१५८.२३ ॥

从今日起,待我们离去之后,那因恐惧而惊慌的持国之子将在王国中根深蒂固,成为人民之主。

1.158.24

तदीयं तु भवेद्राज्यं तदीयाश्च जना इमे ।
तस्मात्सहैव वत्स्यामो गलन्यस्तपदा वयम् ॥ १.१५८.२४ ॥

那时此王国将归他所有,这些人民也将属于他。因此,我们只得将脚套入绳套,与他们同住。

1.158.25

अस्माकं कालमासाद्य राज्यमाच्छिद्य शत्रुतः ।
अर्थं पैतृकमस्माकं सुखं भोक्ष्याम शाश्वतम् ॥ १.१५८.२५ ॥

待我们的时机到来,从敌人手中夺回王国,我们将收回祖传之财,永享安乐。

1.158.26

धृतराष्ट्रवचोऽस्माभिः किमर्थमनुपाल्यते ।
तेभ्यो भित्त्वाऽन्यथागन्तुं दौर्बल्यं ते कुतो नृप ॥ १.१५८.२६ ॥

我们为何还要听从持国的话?大王,你何以如此软弱,要与他们分离而另走他途?

1.158.27

आपत्सु रक्षिताऽस्माकं विदुरोऽस्ति महामतिः ।
मध्यस्थ एव गाङ्गेयो राज्यभोगपराङ्मुखः ॥ १.१५८.२७ ॥

在患难之中,守护我们的是大智慧的毗杜罗。恒河之子(毗湿摩)则保持中立,厌弃享受王权。

1.158.28

बाह्लीकप्रमुखा वृद्धा मध्यस्था एव सर्वदा ।
अस्मदीयो भवेद्द्रोणः फल्गुनप्रेमसंयुतः ॥ १.१५८.२८ ॥

以巴赫利迦为首的长者们始终保持中立。而德罗纳将站在我们一边,因对法尔古那(阿周那)怀有爱意而受其牵系。

1.158.29

तस्मात्सहैव वस्तव्यं न गन्तव्यं कथं नृप ।
अथवास्मासु ते कुर्युः किमशक्ताः पराक्रमैः ॥ १.१५८.२९ ॥

因此我们应当与他们同住,大王;怎能分离而去?或者,他们在勇力上无能为力,又能对我们怎样?

1.158.30

क्षुद्राः कपटिनो धूर्ता जाग्रत्सु मनुजेश्वर ।
किं न कुर्युः पुरा मह्यं किं न दत्तं महाविषम् ॥ १.१५८.३० ॥

人主啊,卑劣、奸诈、狡猾之人,即便我们醒着,又有何事不敢做?他们以前对我做过什么没做过?甚至给我下过剧毒!

1.158.31

आशीविषैर्महाघोरैः सर्पैस्तैः किं न दंशितः ।
प्रमाणकोट्यां संगृह्य निद्रापरवशे मयि ॥ १.१५८.३१ ॥

当我被聚集在无数人群之中、为睡眠所困时,那些极其可怕的毒蛇难道没有咬我吗?

1.158.32

सर्पैर्दृष्टिविषैर्गोरैर्गङ्गायां शूलसन्ततौ ।
किं तैर्न पातितो भूप तदा किं मृतवानहम् ॥ १.१५८.३२ ॥

国王啊,那些目光带毒的可怕毒蛇,难道没有把我推倒在恒河中的木桩行列上吗?那时我不是已经死了吗?

1.158.33

आपत्सु तासु घोरासु दुष्प्रयुक्तासु पापिभिः ।
अस्मानरक्षद्यो देवो जगद्यस्य वशे स्थितम् ॥ १.१५८.३३ ॥

那位在恶人所设的那些可怕灾难中保护了我们的神,世界就立于他的掌控之中——

1.158.34

चराचरात्मकं सोऽद्य यातः कुत्र नृपोत्तम ।
यावत्सोढव्यमस्माभिस्तावत्सोढास्मि यत्नतः ॥ १.१५८.३४ ॥

最优秀的国王啊,那位以动与不动之物为本体的神,今天去了哪里?只要我们必须忍受,我便竭力忍受着。

1.158.35

यदा न शक्ष्यतेऽस्माभिस्तदा पश्याम नो हितम् ।
किं द्रष्टव्यमिहास्माभिर्विगृह्य तरसा बलात् ॥ १.१५८.३५ ॥

当我们无法忍受时,便去顾及我们的利益。何必以力量与猛烈去对抗,在此又能见到什么?

1.158.36

सान्त्ववादेन दानेन भेदेनापि यतामहे ।
अर्धराज्यस्य संप्राप्त्यै ततो दण्डः प्रशस्यते ॥ १.१५८.३६ ॥

我们以温和的言语、以赠礼,也以离间来努力。为了获得半个王国,之后便称赞刑罚。

1.158.37

तस्मात्सहैव वस्तव्यं तन्मनोर्पितशल्यवत् ।
दर्शयित्वा पृथक् क्वापि न गन्तव्यं सुभीतवत् ॥ १.१५८.३७ ॥

因此我们必须同在一处,如同刺入心中的芒刺。不可像极度恐惧的人那样分开显露而去往别处。

1.158.38

इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये ।
अप्रमत्तैर्विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ॥ १.१५८.३८ ॥

我赞同我们在此以无法辨认的形象居住。保持警觉,从此地寻找那条所愿且确定的出路。

1.158.39

यदि विन्देत चाकारमस्माकं स पुरोचनः ।
क्षिप्रकारी ततो भूत्वा प्रसह्यापि दहेत्ततः ॥ १.१५८.३९ ॥

若补罗遮那发现了我们的模样,他便会迅速行动,甚至强行将我们烧死。

1.158.40

नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः ।
तथा हि वर्तते मन्दः सुयोधनवशे स्थितः ॥ १.१५८.४० ॥

这个补罗遮那既不怕众人的斥责,也不怕不义;这愚人处在苏耶陀那的掌控之下,便如此行事。

1.158.41

अपि चायं प्रदग्धेषु भीष्मोऽस्मासु पितामहः ।
कोपं कुर्यात्किमर्थं वा कौरवान्कोपयीत सः ॥ १.१५८.४१ ॥

再者,当我们被焚烧之后,我们的祖父毗湿摩为何要动怒呢?或者为了什么目的而去激怒俱卢族人呢?

1.158.42

अथवापीह दग्धेषु भीष्मोऽस्माकं पितामहः ।
धर्म इत्येव कुप्येरन्ये चान्ये कुरुपुङ्गवाः ॥ १.१५८.४२ ॥

或者,若我们在此被焚烧,我们的祖父毗湿摩会认为“这是法”而动怒,其他俱卢族的雄牛也会同样动怒。

1.158.43

उपपन्नं तु दग्धेषु कुलवंशानुकीर्तिताः ।
कुप्येरन्यदि धर्मज्ञास्तथान्ये कुरुपुङ्गवाः ॥ १.१५८.४३ ॥

提及被焚者的家族与世系是恰当的,即使知法者与其他俱卢雄牛会愤怒。

1.158.44

वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेमहि ।
स्पशैर्नो घातयेत्सर्वान्राज्यलुब्धः सुयोधनः ॥ १.१५८.४४ ॥

若我们因惧怕火灾而逃走,贪恋王国的苏由陀那将借间谍之手把我们全部杀死。

1.158.45

अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः ।
हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ॥ १.१५८.४५ ॥

居位者必定会借计谋除掉无位者,有党羽者除掉无党羽者,拥有巨额国库者除掉国库空虚者。

1.158.46

तदस्माभिरिमं पापं तं च पापं सुयोधनम् ।
वञ्चयद्भिर्निवस्तव्यं छन्नं वीर क्वचित्क्वचित् ॥ १.१५८.४६ ॥

因此,英雄啊,我们必须隐匿而居,到处欺瞒这个恶人和那恶人苏由陀那。

1.158.47

ते वयं मृगयाशीलाश्चराम वसुधामिमाम् ।
तथा नो विदिता मार्गा भविष्यन्ति पलायतां ॥ १.१५८.४७ ॥

我们将像猎人一样漫游这片大地,如此,逃亡者的道路对我们而言将变得熟悉。

1.158.48

भौमं च बिलमद्यैव करवाम सुसंवृतम् ।
गूढोद्गतान्न नस्तत्र हुताशः संप्रधक्ष्यति ॥ १.१५८.४८ ॥

今天就来打造一个隐蔽良好的地下洞穴;从它隐藏的出口,火不会在那里烧到我们。

1.158.49

द्रवतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः ।
पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ॥ १.१५८.४९ ॥

我们从此处逃走时,愿布罗canna不察觉我们,城中居民也无人察觉;警觉者应当这样去做。