Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.159

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.159.1

विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् ।
विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् ॥ १.१५९.१ ॥

大王啊,毗杜罗的一位朋友,一名熟练的挖掘者,在某处私下里对般度五子说了这些话。

1.159.2

प्रहितो विदुरेणास्मि खनकः कुशलो ह्यहम् ।
पाण्डवानां प्रियं कार्यमिति किं करवाणि वः ॥ १.१५९.२ ॥

我是毗杜罗派来的;我是熟练的挖掘者。为般度五子做他们喜爱的事是我的职责;我该为你们做什么?

1.159.3

प्रच्छन्नं विदुरेणोक्तं प्रियं यन्म्लेच्छभाषया ।
त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् ॥ १.१५९.३ ॥

毗杜罗用蛮夷语秘密说出的那番善意之言,以及你回答的“就这样吧”——这正是互相信任的缘由。

1.159.4

कृष्णपक्षे चतुर्दश्यां रात्रावस्यां पुरोचनः ।
भवनस्य तव द्वारि प्रदास्यति हुताशनम् ॥ १.१५९.४ ॥

在黑半月的第十四夜,布罗昌那将在你宅邸的门口放火。

1.159.5

मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः ।
इति व्यवसितं तस्य धार्तराष्ट्रस्य दुर्मतेः ॥ १.१५९.५ ॥

般度五子,人中雄牛,要与母亲一同被烧死——这是德拉什特拉之子那恶意之人的决定。

1.159.6

उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः ।
अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै ॥ १.१५९.६ ॥

坚守真实的昆蒂之子坚战对他说:“善人啊,我认得你,你是毗杜罗的朋友。”

1.159.7

शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् ।
न विद्यते कवेः किंचिदविज्ञातं प्रयोजनम् ॥ १.१५९.७ ॥

对于纯洁、可信、可爱且始终坚定奉献的智者毗杜罗而言,没有任何意图是不为人知的。

1.159.8

यथा तस्य तथा नस्त्वं निर्विशेषा वयं त्वयि ।
भवतश्च यथा तस्य पालयास्मान्यथा कविः ॥ १.१५९.८ ॥

他对我们如何,你也如此,我们对你并无分别。请像那位智者保护他那样保护我们。

1.159.9

इदं शरणमाग्नेयं मदर्थमिति मे मतिः ।
पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् ॥ १.१५९.९ ॥

我认为,这座火之庇护所是为我而建,由补罗遮那奉持国之子之命所造。

1.159.10

स पापः कोशवांश्चैव ससहायश्च दुर्मतिः ।
अस्मानपि च पापात्मा नित्यकालं प्रबाधते ॥ १.१५९.१० ॥

那个罪人,富有,心怀恶念,并有他的党羽,也时时刻刻地折磨着我们。

1.159.11

स भवान्भोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् ।
अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः ॥ १.१५९.११ ॥

因此,请你小心地把我们从这火中救出,因为若我们在此被焚,苏瑜陀那便会如愿以偿。

1.159.12

समृद्धमायुधागारमिदं तस्य दुरात्मनः ।
वप्रान्तं निष्प्रतीकारमाश्रित्येदं कृतं महत् ॥ १.१५९.१२ ॥

这座装备充足的武库属于那个恶人;在城墙边,无从抵御之处,依靠它完成了这一宏大的计划。

1.159.13

इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् ।
प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् ॥ १.१५९.१३ ॥

这无疑就是他想要做的恶行。维杜罗事先已经知道,因此提醒了我们。

1.159.14

सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा ।
पुरोचनस्याविदितानस्मांस्त्वं प्रतिमोचय ॥ १.१५९.१४ ॥

这正是维杜罗往昔所见的灾祸,如今已降临到我们身上。请你在不让布罗昌那知晓的情况下,将我们从中解救出来。

1.159.15

स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः ।
परिखामुत्किरन्नाम चकार च महाबिलम् ॥ १.१५९.१५ ॥

他答应说"就这样吧",便投入工作;一边挖出壕沟的泥土,一边挖成了一条大地道。

1.159.16

चक्रे च वेश्मनस्तस्य मध्ये नातिमहद्बिलम् ।
कपाटयुक्तमज्ञातं समं भूम्याश्च भारत ॥ १.१५९.१६ ॥

他在屋子中间开了一个不太大的地道口,装有门扇,不为人知,与地面齐平,婆罗多啊。

1.159.17

पुरोचनभयादेव व्यदधात्संवृतं मुखम् ।
स तस्य तु गृहद्वारि वसत्यशुभधीः सदा।
तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप ॥ १.१५९.१७ ॥

正因惧怕布罗昌那,他才把洞口遮掩起来。那心怀恶意的人总守在屋门口;而在那里,他们全都带着兵器,在夜里居住,国王啊。

1.159.18

दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् ।
विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् ॥ १.१५९.१८ ॥

白天,般度的子孙们为打猎而从一片森林走到另一片森林,表面上显得毫无戒备,实则心怀疑虑,欺骗着布罗昌那。

1.159.19

अतुष्टास्तुष्टवद्राजन्नूषुः परमविस्मिताः ॥ १.१५९.१९ ॥

大王啊,他们虽不满足,却如同满足一般居住着,极为惊讶。

1.159.20

न चैनानन्वबुध्यन्त नरा नगरवासिनः ।
अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात् ॥ १.१५९.२० ॥

城中之人也未察觉他们,除了大臣毗杜罗之外,那位最出色的挖掘者。