摩诃婆罗多 · 章 1.160
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.160.1
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् ।
विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः ॥ १.१६०.१ ॥
普罗昌见他们在此已住满一年、毫无戒心,便心中欢喜。
1.160.2
स तु संचिन्तयामास प्रहृष्टेनान्तरात्मना ।
प्राप्तकालमिदं मन्ये पाण्डवानां विनाशने ॥ १.१६०.२ ॥
他心中欢喜,思忖道:“我以为,这正是毁灭般度五子的时机。”
1.160.3
तमस्यान्तर्गतं भावं विज्ञाय कुरुपुङ्गवः ।
चिन्तयामास मतिमान्धर्मपुत्रो युधिष्ठिरः ॥ १.१६०.३ ॥
察觉他心中隐藏的图谋后,古鲁族的俊杰、智慧的法之子坚战开始思考。
1.160.4
पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः ।
भीमसेनार्जुनौ चोभौ यमौ प्रोवाच धर्मवित् ॥ १.१६०.४ ॥
普罗昌既然欢喜,知法的贡蒂之子坚战便对怖军、阿周那及双生子说道。
1.160.5
अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः ।
वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने ॥ १.१६०.५ ॥
这个邪恶的普罗昌知道我们完全信任他。这个心狠手辣的人被蒙骗了;我想现在是逃走的时候了。
1.160.6
आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् ।
षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः ॥ १.१६०.६ ॥
放火烧毁军械库,焚烧普罗昌,把六个人留在这里,我们不被察觉地逃走吧。
1.160.7
अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् ।
चक्रे निशि महाराज आजग्मुस्तत्र योषितः ॥ १.१६०.७ ॥
随后,以布施为名,昆提为婆罗门设宴。大王啊,夜里,妇女们来到那里。
1.160.8
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत ।
जग्मुर्निशिं गृहानेव समनुज्ञाप्य माधवीम् ॥ १.१६०.८ ॥
婆罗多之子啊,那些妇女尽情嬉戏,饮食之后,向摩陀维(昆提)告辞,夜里各自回家去了。
1.160.9
पुरोचनप्रणिहिता पृथां या सेवते सदा ।
निषादी दुष्टहृदया नित्यमन्तरचारिणी ॥ १.१६०.९ ॥
那位由布罗昌那派来、常常侍奉普利塔(昆提)的尼沙达女子,心怀歹意,总是暗中四处走动。
1.160.10
निषादी पञ्चपुत्रा सा तस्मिन्भोज्ये यदृच्छया ।
पुराभ्यासकृतस्नेहा सखी कुन्त्याः सुतैः सह ॥ १.१६०.१० ॥
那位有五个儿子的尼沙达女子偶然来到那场宴席;因以往相处而培养了情谊,她是昆提的朋友,与她的儿子们一同前来。
1.160.11
आनीय मधुमूलानि फलानि विविधानि च ।
अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता।
सुपापा पञ्चपुत्रा च सा पृथायाः सखी मता ॥ १.१६०.११ ॥
带着蜜根与各种果实,为求食物,受时势驱使,她与儿子们一同前来。她罪孽深重,有五个儿子,被视为普利塔的朋友。
1.160.12
सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला ।
सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने ॥ १.१६०.१२ ॥
她饮了烈酒,醉意朦胧,大王啊,与所有儿子一同留在了那所住处。
1.160.13
सुष्वाप विगतज्ञाना मृतकल्पा नराधिप ।
अथ प्रवाते तुमुले निशि सुप्ते जने तदा ॥ १.१६०.१३ ॥
她失去知觉,如同死去,人主啊。那时狂风大作,夜里众人熟睡之际,
1.160.14
तदुपादीपयद्भीमः शेते यत्र पुरोचनः ।
ततो जतुगृहद्वारं दीपयामास पाण्डवः ॥ १.१६०.१४ ॥
毗摩在普罗遮那睡觉的地方放火。然后般度之子点燃了蜡宫的大门。
1.160.15
समन्ततो ददौ पश्चादग्निं तत्र निवेशने ।
पूर्वमेव गृहं शोध्य भीमसेनो महामतिः ॥ १.१६०.१५ ॥
随后他在那宅邸四周放火。大智的毗摩先前已清理好房屋,
1.160.16
पाण्डवैः सहितां कुन्तीं प्रावेशयत तद्बिलम् ।
दत्त्वाग्निं सहसा भीमो गृहे तत्परितः सुधीः ॥ १.१६०.१६ ॥
他带着库提与般度五子进入那地道。随后智慧的毗摩突然在房屋四周放火。
1.160.17
गृहस्थं द्रविणं गृह्य निर्जगाम बिलेन सः ।
ज्ञात्वा तु तद्गृहं सर्वमादीप्तं पाण्डुनन्दनाः ॥ १.१६०.१७ ॥
他取了屋中所藏的财物,从地道出去。般度之子得知整座房屋都在燃烧,
1.160.18
सुरङ्गां विविशुस्तूर्णं मात्रा सार्धमरिन्दमाः ।
ततः प्रतापः सुमहाञ्छब्दश्चैव विभावसोः ॥ १.१६०.१८ ॥
般度之子,降伏敌人者,与母亲一同迅速进入那地道。那时,火焰发出猛烈而巨大的声响。
1.160.19
प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः ।
तदवेक्ष्य गृहं दीप्तमाहुः पौराः कृशाननाः ॥ १.१६०.१९ ॥
此时火光显现,人群因此醒来。看见那座燃烧的房屋,面容憔悴的城中百姓说道:
1.160.20
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना ।
गृहमात्मविनाशाय कारितं दाहितं च तत् ॥ १.१६०.२० ॥
在难敌的教唆下,那个罪恶而愚昧的人为自己的毁灭而建造了那座房屋,并将其焚毁。
1.160.21
अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसा ।
यः शुचीन्पाण्डुदायादान्दाहयामास शत्रुवत् ॥ १.१६०.२१ ॥
唉,耻辱啊,持国王的见识甚是不当!他竟像对待仇敌一样,焚烧了般度纯洁的继承人。
1.160.22
दिष्ट्या त्विदानीं पापात्मादग्ध्वा दग्धः पुरोचनः ।
अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् ॥ १.१६०.२२ ॥
幸而如今那罪人普罗遮那自己被焚烧殆尽了;他曾焚烧那些无辜、深信不疑的贤人。
1.160.23
एवं ते विलपन्ति स्म वारणावतका जनाः ।
परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः ॥ १.१६०.२३ ॥
瓦拉纳瓦塔的百姓就这样哀哭,夜里他们从四面围绕着那座房屋站立着。
1.160.24
पाण्डवाश्चापि ते सर्वे सह मात्रा सुदुःखिताः ।
बिलेन तेन निर्गत्य जग्मुर्द्रुतमलक्षिताः ॥ १.१६०.२४ ॥
般度的诸子与母亲一同极度悲伤,从那条地道走出,悄然无人察觉地迅速离去。
1.160.25
तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः ।
न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः ॥ १.१६०.२५ ॥
因那沉重的睡意与恐惧所阻,般度诸子无法立即与母亲一同出发,啊,灼烧敌人者。
1.160.26
भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः ।
जगाम भ्रातॄनादाय सर्वान्मातरमेव च ॥ १.१६०.२६ ॥
然而,王中之王啊,以可怕的速度与勇力著称的怖军,带着所有兄弟和母亲出发了。
1.160.27
स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् ।
पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलः ॥ १.१६०.२७ ॥
这位勇猛者将母亲扛在肩上,把双胞胎抱在膝上,又用双手紧紧抓住普利塔的两个儿子,力量极其强大。
1.160.28
उरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् ।
स जगामाशु तेजस्वी वातरंहा वृकोदरः ॥ १.१६०.२८ ॥
他以胸膛撞断树木,以双足踏裂大地,光彩照人的狼腹以风一般的速度迅速前行。