Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.161

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.161.1

एतस्मिन्नेव काले तु यथासंप्रत्ययं कविः ।
विदुरः प्रेषयामास तद्वनं पुरुषं शुचिम् ॥ १.१६१.१ ॥

就在此时,智者毗杜罗派遣一位可信赖、纯洁的人前往那片森林。

1.161.2

आत्मनः पाण्डवानां च विश्वास्यं ज्ञातपूर्वकम् ।
गङ्गासंतरणार्थाय ज्ञाताभिज्ञानवाचिकम् ॥ १.१६१.२ ॥

他自己与般度五子所信赖,先前已相识,能说出渡恒河的已知暗号。

1.161.3

स गत्वा तु यथोद्देशं पाण्डवान्ददृशे वने ।
जनन्या सह कौरव्याननयज्जाह्नवीतटम् ॥ १.१६१.३ ॥

他依指示前往,在森林中找到般度五子,并带着母亲与俱卢之子来到恒河岸边。

1.161.4

विदितं तन्महाबुद्धेर्विदुरस्य महात्मनः ।
ततस्त्रस्यापि चारेण चेष्टितं पापचेतसः ॥ १.१६१.४ ॥

此事为大智慧、大德之毗杜罗所知;心怀恶念的持国王通过间谍所做的谋划,他也都知道。

1.161.5

ततः प्रवासितो विद्वान्विदुरेण नरस्तदा ।
पार्थानां दर्शयामास मनोमारुतगामिनीम् ॥ १.१६१.५ ॥

于是毗杜罗所派的那位智者向般度之子展示了一艘快如心念与风的船。

1.161.6

सर्ववातसहां नावं यन्त्रयुक्तां पताकिनीम् ।
शिवे भागीरथीतीरे नरैर्विस्रम्भिभिः कृताम् ॥ १.१६१.६ ॥

这艘船能抵挡一切风,装有机关并挂满旗幡,是由可信赖的人在婆吉罗提河吉祥的岸边建造的。

1.161.7

ततः पुनरथोवाच ज्ञापकं पूर्वचोदितम् ।
युधिष्ठिर निबोधेयं संज्ञार्थं वचनं कवेः ॥ १.१६१.७ ॥

于是他再次说出先前所嘱的暗号:“坚战,听着这位智者为暗号而说的话。”

1.161.8

कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः ।
न हन्तीत्येवमात्मानं यो रक्षति स जीवति।
बोद्धव्यमिति यत्प्राह विदुरस्तदिदं तथा ॥ १.१६१.८ ॥

“焚烧枯草者与驱寒者,不伤大丛林中居于洞穴者”——如此自护者得以存活。这便是维杜罗所说应当领会的。

1.161.9

तेन मां प्रेषितं विदिधि विश्वस्तं संज्ञयाऽनया ।
भूयश्चैवाह मां क्षत्ता विदुरः सर्वतोऽर्थवित्।
अधिक्षिपन्धार्तराष्ट्रं सभ्रातृकमुदारधीः ॥ १.१६१.९ ॥

“他派我来,你应凭此暗号知我可信。”通晓一切利益的维杜罗又对我说,这位心地高尚者责备了持国之子及其兄弟们。

1.161.10

कर्णं दुर्योधनं चैव भ्रातृभिः सहितं रणे ।
शकुनिं चैव कौन्तेय विजेताऽसि न संशयः ॥ १.१६१.१० ॥

“在战斗中,你将战胜迦尔纳、难敌及其兄弟,还有沙恭尼——俄,贡提之子,你必胜,毫无疑问。”

1.161.11

पाण्डवाश्चापि गत्वाथ गङ्गायास्तीरमुत्तमम् ।
निषादाधिपतिं वीरं दाशं परमधार्मिकम् ॥ १.१६१.११ ॥

般度之子们也来到恒河的上好岸边,去找英勇的达莎——尼沙陀人的首领,极其正直的人。

1.161.12

दीपिकाभिः कृतालोकं मार्गमाणं च पाण्डवान् ।
ददृशुः पाण्डवेयास्ते नाविकं त्वरयाऽन्वितम् ॥ १.१६१.१२ ॥

般度之子们看见一位船夫,他点起灯火,正寻找般度的儿子们,且十分匆忙。

1.161.13

निषादस्तत्र कौन्तेयानभिज्ञानं न्यवेदयत् ।
विदुरस्य महाबुद्धेर्म्लेच्छभाषादि यत्तदा ॥ १.१६१.१३ ॥

那里,猎人向昆提之子说明了大智慧者毗杜罗的暗号,以及当时的蛮夷语言等。

1.161.14

विदुरेणास्मि सन्दिष्टो दत्त्वा बहु धनं महत् ।
गङ्गातीरे निविष्टस्त्वं पाण्डवांस्तारयेति ह ॥ १.१६१.१४ ॥

毗杜罗赠我大量珍贵财物,并嘱咐:你住在恒河岸边,去把般度之子们渡过去。

1.161.15

सोऽहं चतुर्दशीमद्य गङ्गाया अविदूरतः ।
चारेरन्वेषयाम्यस्मिन्वने मृगगणान्विते ॥ १.१६१.१५ ॥

我今日是第十四日,就在恒河不远处,借助探子在这满是鹿群的森林中寻找他们。

1.161.16

प्रभवन्तोऽथ भद्रं वो नावमारुह्य गम्यताम् ।
युक्तारित्रपताकां च निश्छिद्रां मन्दिरोपमाम् ॥ १.१६१.१६ ॥

诸位有力者,愿你们吉祥;现在登上这艘船出发吧——它装有桨与旗帜,没有漏孔,如同房屋一般。

1.161.17

इयं वारिपथे युक्ता नौरप्सु सुखगामिनी ।
मोचयिष्यति वः सर्वानस्माद्देशान्न संशयः ॥ १.१६१.१७ ॥

这艘船适合水路,在水上行驶轻快;它必定能把你们全部从这片土地救出,毫无疑问。

1.161.18

अथ तान्व्यथितान्दृष्ट्वा सह मात्रा नरोत्तमान् ।
नावमारोप्य गङ्गायां प्रस्थितानब्रवीत्पुनः ॥ १.१६१.१८ ॥

于是,他看见那些人中俊杰与母亲一同忧伤,便让他们登上船,当他们在恒河上出发时,又对他们说道。

1.161.19

विदुरो मूर्ध्न्युपाघ्राय परिष्वज्य वचो मुहुः ।
अरिष्टं गच्छताव्यग्राः पन्थानमिति चाब्रवीत् ॥ १.१६१.१९ ॥

维杜罗嗅其头顶并拥抱他们,反复说道:"心境平静地、安全地走上道路吧。"

1.161.20

इत्युक्त्वा स तु तान्वीरान्पुमान्विदुरचोदितः ।
तारयामास राजेन्द्र गङ्गां नावा नरर्षभान् ॥ १.१६१.२० ॥

说完这话,那人在维杜罗的催促下,用船将那些英雄渡过恒河,啊,王中之王。

1.161.21

तारयित्वा ततो गङ्गां पारं प्राप्तांश्च सर्वशः ।
जयाशिषः प्रयुज्याथ यथागतमगाद्धि सः ॥ १.१६१.२१ ॥

将他们渡过恒河,并为所有到达彼岸的人祝福胜利之后,他便沿原路离去了。

1.161.22

पाण्डवाश्च महात्मानः प्रतिसन्दिश्य वै कवेः ।
गङ्गामुत्तीर्य वेगेन जग्मुर्गूढमलक्षिताः ॥ १.१६१.२२ ॥

伟大的般度之子向圣者维杜罗辞别后,迅速渡过恒河,秘密离去,无人看见。

1.161.23

ततस्ते तत्र तीर्त्वा तु गङ्गामुत्तुङ्गवीचिकाम् ।
जवेन प्रययुर्वीरा दक्षिणां दिशमास्थिताः ॥ १.१६१.२३ ॥

随后,他们在那里渡过了波涛高涌的恒河,那些英雄迅速朝南方前进。

1.161.24

विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः ।
वनाद्वनान्तरं राजन्गहनं प्रतिपेदिरे ॥ १.१६१.२४ ॥

夜里凭借星辰辨认道路,面朝南方,啊,国王,他们从一片森林走向另一片茂密的森林。

1.161.25

श्रान्तास्ततः पिपासार्ताः क्षुधिता भयकातराः ।
पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ॥ १.१६१.२५ ॥

他们疲惫不堪,被口渴折磨,饥饿且因恐惧而颤抖,于是再次对大力的怖军(Bhīmasena)说了这番话。

1.161.26

इतः कष्टतरं किं नु यद्वयं गहने वने ।
दिशश्च न प्रजानीमो गन्तुं चैतेन शक्नुमः।
तं च पापं न जानीमो दग्धो वाथ पुरोचनः ॥ १.१६१.२६ ॥

还有什么比这更痛苦的呢?在这片茂密的森林里,我们甚至不知道方向,也无法沿着这条路前行。而那个恶人布罗昌那(Purocana)是否已被烧死,我们也不知道。

1.161.27

कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ।
शीघ्रमस्मानुपादाय तथैव व्रज भारत ॥ १.१६१.२७ ॥

我们如何才能在不被发现的情况下摆脱这种恐惧?啊,婆罗多的后裔,快把我们背起来,就这样前进吧。

1.161.28

त्वं हि नो बलवानेको यथा सततगस्तथा ।
इत्युक्तो धर्मराजेन भीमसेनो महाबलः।
आदाय कुन्तीं भ्रातॄंश्च जगामाशु स पावनिः ॥ १.१६१.२८ ॥

“因为在我们之中只有你一人强大,像你平时那样前行吧。”被法王如此吩咐后,大力的怖军,风神之子,背起贡蒂与诸兄弟,迅速地出发了。