Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.163

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.163.1

तेन विक्रममाणेन ऊरुवेगसमीरितम् ।
वनं सवृक्षविटपं व्याघूर्णितमिवाभवत् ॥ १.१६३.१ ॥

他奋勇前行时,被他大腿的力量所撼动的森林,连同树木与枝条,仿佛都旋转起来。

1.163.2

जङ्गावातो ववौ चास्य शुचिशुक्रागमे यथा ।
आवर्जितालतावृक्षं मार्गं चक्रे महाबलः ॥ १.१६३.२ ॥

从他双腿生起的风,如清净明亮的季节到来时吹拂;大力者弯折藤蔓与树木,开辟了道路。

1.163.3

स मृद्गन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् ।
अवरुज्य ययौ गुल्मान्पथस्तस्य समीपजान् ॥ १.१६३.३ ॥

他踩踏并折断开花结果的树木,继续前行,也折断了路旁生长的灌丛。

1.163.4

स रोषित इव क्रुद्धो वने भञ्जन्महाद्रुमान् ।
त्रिप्रस्रुतमदः शुष्मी षष्टिवर्षो मतङ्गराट् ॥ १.१६३.४ ॥

他仿佛愤怒而狂躁,在林中折断大树——这头强壮的象王已六十岁,三处流淌着发情之液。

1.163.5

गच्छतस्तस्य वेगेन तार्क्ष्यमारुतरंहसः ।
भीमस्य पाण्डुपुत्राणां मूर्च्छेव समजायत ॥ १.१६३.५ ॥

婆罗多的速度堪比迦鲁达与风,般度诸子仿佛因此陷入昏厥。

1.163.6

असकृच्चापि सतीर्य दूरपारं भुजप्लवैः ।
पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा ॥ १.१६३.६ ॥

他们多次以臂为筏,渡过遥远的河岸,因畏惧持国之子,便隐秘地沿着小路抵达。

1.163.7

कृच्छ्रेण मातरं चैव सुकुमारीं यशस्विनीम् ।
अवहत्स तु पृष्ठेन रोधःसु विषमेषु च ॥ १.१६३.७ ॥

他艰难地把母亲和娇弱而荣耀的她背在背上,即使在崎岖不平之处也是如此。

1.163.8

अगमच्च वनोद्देशमल्पमूलफलोदकम् ।
क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभ ॥ १.१६३.८ ॥

傍晚时分,他来到一片林地,那里根茎、果实和水都很少,充满凶残的飞禽走兽,十分可怕,婆罗多中的雄牛啊。

1.163.9

घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः ।
अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः ॥ १.१६३.९ ॥

黄昏变得可怕,对飞禽走兽而言十分险恶;反季节的狂风使四方都昏暗无光。

1.163.10

शीर्णपर्णफलै राजन्बहुगुल्मक्षुपद्रुमैः ।
भग्नावभुग्नभूयिष्ठैर्नानाद्रुमसमाकुलैः ॥ १.१६३.१० ॥

君王啊,那里落叶与落果遍地,灌木丛、矮树和大树密集,多数已折断弯曲,布满各种树木。

1.163.11

ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः ।
नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया ॥ १.१६३.११ ॥

那些库鲁后裔被疲惫和口渴折磨,当时无法前行,又被沉沉的睡意所压倒。

1.163.12

न्यविशन्ति हि ते सर्वे निरास्वादे महावने ।
रात्र्यामेव गतास्तूर्णं चतुर्विंशतियोजनम्।
ततस्तृषा परिक्लन्ता कुन्ती वचनमब्रवीत् ॥ १.१६३.१२ ॥

他们都在那片乏味的大森林里停下,他们仅在夜间就迅速走完了二十四由旬。这时,被口渴折磨得精疲力竭的贡蒂说了这些话。

1.163.13

माता सती पाण्डवानां पञ्चानां मध्यतः स्थिता ।
तृष्णया हि परीताऽहमनाथेव महावने ॥ १.१६३.१३ ॥

我这位贞洁的母亲站在五位般度子之中;为渴所困,我在这大森林中如同无依无靠之人。

1.163.14

इतः परं तु शक्ताहं गन्तुं च न पदात्पदम् ।
शयिष्ये वृक्षमूलेऽत्र धार्तराष्ट्रा हरन्तु माम् ॥ १.१६३.१४ ॥

从此以后我连一步也走不动了;我将在这树根下躺下——让持国之子们把我带走吧。

1.163.15

शृणु भीम वचो मह्यं तव बाहुबलात्पुरः ।
स्थातुं न शक्ताः कौरव्याः किं बिभेषि पृथासुत ॥ १.१६३.१५ ॥

婆罗多之子毗摩啊,听我的话:在你臂力之前,俱卢族人无法站立。普利塔之子啊,你为何害怕?

1.163.16

अन्यो रथो न मेऽस्तीह भीमसेनादृते भुवि ।
धार्तराष्ट्राद्वृथा भीरुर्न मां स्वप्तुमिहेच्छसि ॥ १.१६३.१६ ॥

此地大地之上,除了毗摩森那,我没有别的车乘。怯懦者啊,你想让我在此入睡,却白白畏惧持国之子。

1.163.17

भीमपृष्ठस्थिता चेत्थं दूयमानेन चेतसा ।
निश्यध्वनि रुदन्ती सा निद्रावश्मुपागता ॥ १.१६३.१७ ॥

她靠在毗摩的背上,心中痛苦,夜间在路上哭泣,终于陷入了睡眠之中。

1.163.18

तच्छ्रुत्वा भीमसेनस्य मातृस्नेहात्प्रजल्पितम् ।
कारुण्येन मनस्तप्तं गमनायोपचक्रमे ॥ १.१६३.१८ ॥

毗摩森那听到那些出于对母亲之爱而说的话,心中因怜悯而痛苦,便动身前行。

1.163.19

ततो भीमो वनं घोरं प्रविश्य विजनं महत् ।
न्यग्रोधं विपुलच्छायं रमणीयं ददर्श ह ॥ १.१६३.१९ ॥

于是,毗摩走进那可怕而广阔的荒僻森林,看见一棵枝叶遮荫宽广的美丽榕树。

1.163.20

तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः ।
पानीयं मृगयामीह तावद्विश्रम्यतामिह ॥ १.१६३.२० ॥

他把众人安置在那里后,婆罗多族中最优秀的人说:"我在这里寻找水;你们暂且在此休息吧。"

1.163.21

एते रुवन्ति मधुरं सारसा जलचारिणः ।
ध्रुवमत्र जलस्थानं महच्चेति मतिर्मम ॥ १.१६३.२१ ॥

这些栖息水中的鹤鸣声甜美;我想这里必定有一大片水域。

1.163.22

अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत ।
जगाम तत्र यत्र स्म सारसा जलचारिणः ॥ १.१६३.२२ ॥

长兄说:"去吧。"婆罗多啊,他便得到许可,前往那些水中鹤所在之处。

1.163.23

अपश्यत्पद्मिनीखण्डमण्डितं स सरोवरम् ।
स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ ॥ १.१६३.२३ ॥

他看见那片被莲花丛装饰的湖泊。婆罗多族的雄牛啊,他在那里饮水并沐浴。

1.163.24

तेषामर्थे च जग्राह भ्रातॄणां भ्रातृवत्सलः ।
उत्तरीयेण पानीयमानयामास भारत ॥ १.१६३.२४ ॥

他为了诸兄弟,心怀手足之爱,用上衣兜起水,带给他们,婆罗多啊。

1.163.25

पङ्कजानामनेकैश्च पत्रैर्बध्वा पृथक्पृथक् ।
गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति।
शोकदुःखपरीतात्मा निशश्वासोरगो यथा ॥ १.१६३.२५ ॥

他将水分别用许多莲叶包好,从一俱卢舍之外急速来到母亲身边;心被悲痛与忧苦所笼罩,他像蛇一样叹息。

1.163.26

स सुप्तां मातरं भ्रातॄन्निद्राविद्रावितौजसः ।
महारौद्रे वने घोरे वृक्षमूले सुशीतले ॥ १.१६३.२६ ॥

他看见熟睡的母亲和兄弟们,他们的精力被睡眠驱散;在那极其可怕的恐怖大森林中,在一棵十分阴凉的树根下。

1.163.27

विक्षिप्तकरपादांश्च दीर्घोच्छ्वासान्महाबलान् ।
ऊर्ध्ववक्त्रान्महाकायान्पञ्चेन्द्रानिव भूपते ॥ १.१६३.२७ ॥

君王啊,他们手足散开,长长地呼吸,面朝上,身躯高大,力量强盛,好像五位因陀罗。

1.163.28

अज्ञातवृक्षनित्यस्थप्रेतराक्षससाध्वसान् ।
दृष्ट्वा वै भृशशोकार्तो बिललापानिलात्मजः ॥ १.१६३.२८ ॥

看见他们被那些常住在树上、不为人知的鬼怪与罗刹所惊扰,风之子因极度悲伤而痛苦,哀哭起来。

1.163.29

भृशं शोकपरीत्मा विललाप वृकोदरः ॥ १.१६३.२९ ॥

狼腹(怖军)心被深深的悲痛所笼罩,哀哭起来。

1.163.30

अतः कष्टतरं किं नु द्रष्टव्यं हि भविष्यति ।
यत्पश्यामि महीसुप्तान्भ्रातॄनद्य सुमन्दभाक् ॥ १.१६३.३० ॥

还有什么比这更痛苦的景象需要看到呢?今天我这最不幸的人,看见兄弟们睡在地上!

1.163.31

शयनेषु परार्ध्येषु ये पुरा वारणावते ।
नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ॥ १.१६३.३१ ॥

昔日在婆罗那伐多,即使睡在最珍贵的床榻上也无法入睡的人,今日却躺在光秃的大地上沉睡。

1.163.32

स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः ।
कुन्तिराजसुतां कुन्तीं सर्वलक्षणपूजिताम् ॥ १.१६३.३२ ॥

俱陀(Kuntī),婆苏提婆之妹,摧破敌众者,俱陀王之女,因一切美德而受敬重。

1.163.33

स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः ।
तथैव चास्मज्जननीं पुण्डरीकोदरप्रभाम् ॥ १.१६३.३३ ॥

毗耶维罗耶之媳,伟大的般度之妻,我们的母亲,光彩如莲花内部。

1.163.34

सुकुमारतरामेनां महार्हशयनोचिताम् ।
शयानां पश्यताऽद्येह पृथिव्यामतथोचिताम् ॥ १.१६३.३४ ॥

她极其娇弱,本应配得上华贵的床榻;今日看她躺在这里的大地上,这并不适合她。

1.163.35

धर्मादिन्द्राच्च वाताच्च सुपुवे या सुतानिमान् ।
सेयं भूमौ परिश्रान्ता शेषे प्रासादशायिनी ॥ १.१६३.३५ ॥

她从法神、因陀罗与风神处生下这些儿子,曾在宫殿中安睡,今日却疲惫地躺在地上。

1.163.36

किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् ।
योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले ॥ १.१६३.३६ ॥

还有什么比这更悲痛的事,能让我亲眼所见?今日我看到人中之虎躺在地上沉睡。

1.163.37

त्रिषु लोकेषु यो राज्यं धर्मनित्योऽर्हते नृपः ।
सो।़यं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् ॥ १.१६३.३७ ॥

这位配享三界王权、常守法度的国王,为何疲惫地像普通人一样躺在地上?

1.163.38

अयं नीलाम्बुदश्यामो नरेष्वप्रतिमोऽर्जुनः ।
शेते प्राकृतवद्भूमौ ततो दुःखतरं नु किम् ॥ १.१६३.३८ ॥

阿周那,肤色如蓝色雨云般黝黑,在众人中无与伦比,却像普通人一样躺在地上。还有什么比这更令人痛苦的呢?

1.163.39

अश्विनाविव देवानां याविमौ रूपसंपदा ।
तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ॥ १.१६३.३९ ॥

这两人容貌之美无与伦比,犹如诸天中的双生阿湿毗尼,如今却像普通人一样在大地上沉沉睡去。

1.163.40

ज्ञातयो यस्य नै स्युर्विषमाः कुलपांसनाः ।
स जीवेत सुखं लोके ग्रामद्रुम इवैकजः ॥ १.१६३.४० ॥

亲族不与自己为敌、不毁灭家族者,便能在世间安乐生活,如同村中的孤树。

1.163.41

एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः ।
चैत्यो भवति निर्ज्ञातिरध्वनीनैश्च पूजितः ॥ १.१६३.४१ ॥

村中一棵枝叶果实繁茂的树,便成为神圣的祠树,即便没有亲族,也受路人供奉。

1.163.42

येषां च बहवः शूरा ज्ञातयो धर्ममाश्रिताः ।
ते जीवन्ति सुखं लोके भवन्ति च निरामयाः ॥ १.१६३.४२ ॥

亲族中有众多英勇之士依归法道者,便能在世间安乐生活,且无病无痛。

1.163.43

बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः ।
जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ॥ १.१६३.४३ ॥

强大而心愿成就、使朋友和亲族欢喜的人,相互依靠而生活,如同生长在森林中的树木。

1.163.44

वयं तु धृतराष्ट्रेण दुष्पुत्रेण दुरात्मना ।
राज्यलुब्धेन मूर्खेण दुर्मन्त्रिसहितेन वै ॥ १.१६३.४४ ॥

然而我们遭受了持国王的迫害——他是恶子之父,心术邪恶,贪恋王位,愚昧,又与恶臣为伍。

1.163.45

दुष्टेनाधर्मशीलेन स्वार्थनिष्ठैकबुद्धिना ।
विवासिता न दग्धाश्च क्षत्तुर्बुद्धिपराक्रमात् ॥ १.१६३.४५ ॥

我们被那个邪恶、行为不义、心思只顾自身利益的人所放逐;但由于刹多(维杜罗)的智慧与勇力,我们并未被烧死。

1.163.46

तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः ।
कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ॥ १.१६३.४६ ॥

因此,我们从火烧等灾难中脱身,便栖身于这棵树下。现在我们将往哪个方向去?我们已陷入无比的苦难。

1.163.47

सकामो भव दुर्बुद्धे धार्तराष्ट्राल्पदर्शन ।
नूनं देवाः प्रसन्नास्ते नानुज्ञां मे युधिष्ठिरः ॥ १.१६३.४७ ॥

愿你心愿满足吧,持国之子,恶念之人,短见之徒!诸神必定对你满意,因为坚战并未允许我(去杀你)。

1.163.48

प्रयच्छति वधे तुभ्यं तेन जीवसि दुर्मते ।
नन्वद्य ससुतामात्यं सकर्णानुजसौबलम् ॥ १.१६३.४८ ॥

他将你留给死亡;所以你仍然活着,愚人啊。今天,你连同你的儿子和大臣,连同迦尔纳、他的兄弟和沙恭尼,理应被杀。

1.163.49

गत्वा क्रोधसमाविष्टः प्रेषयिष्ये यमक्षयम् ।
किं नु शक्यं मया कर्तुं यत्तेन क्रुध्यते नृपः ॥ १.१६३.४९ ॥

我怀着愤怒前去,将他送往阎摩的居所。既然国王对他发怒,我还能做什么呢?

1.163.50

धर्मात्मा पाण्डवश्रेष्ठः पापाचार युधिष्ठिरः ।
एवमुक्त्वा महाबाहुः क्रोधसन्दीप्तमानसः ॥ १.१६३.५० ॥

正直之人、般度子孙中最优秀的坚战如此说罢,大臂的怖军心中怒火燃烧。

1.163.51

करं करेण निष्पिष्य निःश्वसन्दीनमानसः ।
पुनर्दीनमना भूत्वा शान्तार्चिरिव पावकः ॥ १.१६३.५१ ॥

他双手相握,叹息着,心怀忧郁,又变得悲伤起来,如同火焰已熄灭的火。

1.163.52

भ्रातॄन्महीतले सुप्तानवैक्षत वृकोदरः ।
विश्वस्तानिव संविष्टान्पृथग्जनसमानिव ॥ १.१६३.५२ ॥

狼腹(怖军)看着兄弟们睡在地上,安心地躺着,仿佛只是寻常之人。

1.163.53

नातिदूरेण नगरं वनादस्माद्धि लक्षये ।
जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहंस्वयम् ॥ १.१६३.५३ ॥

我看见这座城市离这片森林不太远。本应守夜的这些人却在睡觉;唉!我自己来守夜吧。

1.163.54

प्राश्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः ।
इति भीमो व्यवस्यैव जजागार स्वयं तदा ॥ १.१६३.५४ ॥

这些人喝了水、解除了疲倦之后,将会醒来。如此决定之后,怖军便自己醒着守夜了。