Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.165

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.165.1

तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः ।
अवतीर्य द्रुमात्तस्मादाजगामाशु पाण्डवान् ॥ १.१६५.१ ॥

罗刹王希迪姆巴得知她去了很久,便从树上下来,迅速走向般度五子。

1.165.2

लोहिताक्षो महाबाहुरूर्ध्वकेशो महाननः ।
मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रो भयानकः ॥ १.१६५.२ ॥

红眼、巨臂、竖发、大脸,身形如云团,利齿,令人恐惧。

1.165.3

तलं तलेन संहत्य बाहू विक्षिप्य चासकृत् ।
उद्वृत्तनेत्रः संक्रुद्धो दन्तान्दन्तेषु निष्कुषन् ॥ १.१६५.३ ॥

手掌相击,屡屡挥动双臂,双眼圆睁,怒不可遏,牙齿相互磨咬。

1.165.4

कोऽद्य मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः ।
न बिभेति हिडिम्बी च प्रेषिता किमनागता ॥ १.१६५.४ ॥

今日是谁这个愚人阻碍我这想要进食之人?希迪姆芭被派去,为何未回?她难道不害怕吗?

1.165.5

तमापतन्तं दृष्ट्वै तथा विकृतदर्शनम् ।
हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ॥ १.१६५.५ ॥

希迪姆芭见他以狰狞的形貌扑来,惊恐地对毗摩森那说了这些话。

1.165.6

आपतत्येष दुष्टात्मा संक्रुद्धः पुरुषादकः ।
साऽहं त्वां भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ॥ १.१६५.६ ॥

这个心术邪恶、怒气冲冲的食人者正扑向你们。请你与兄弟们一起照我说的去做。

1.165.7

अहं कामगमा वीर रक्षोबलसमन्विता ।
आरुहेमां मम श्रोणिं नेष्यामि त्वां विहायसा ॥ १.१६५.७ ॥

英雄啊,我能随意而行,并具有罗刹的力量。请攀上我的腰际,我将凭空带你飞去。

1.165.8

प्रबोधयैतान्संसुप्तान्मातरं च परन्तप ।
सर्वानेव गमिष्याभि गृहीत्वा वो विहायसा ॥ १.१६५.८ ॥

摧敌者啊,唤醒这些熟睡的人和你的母亲。我将抓住你们所有人,凭空带走。

1.165.9

मा भैस्त्वं पृथुसुश्रोणि नैष कश्चिन्मयि स्थिते ।
अहमेनं हनिष्यामि पश्यन्त्यास्ते सुमध्यमे ॥ १.१६५.९ ॥

宽臀的女子啊,不要害怕。我在此,就没有任何人能伤害你。细腰的女子啊,你看着,我将杀死他。

1.165.10

नायं प्रतिबलो भीरु राक्षसापसदो मम ।
सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः ॥ १.१६५.१० ॥

胆怯的女子啊,这个卑劣的罗刹不是我的对手。他无法在战斗中承受我的攻击,即使所有罗刹也不能。

1.165.11

पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ ।
ऊरू परिघसङ्काशौ संहतं चाप्युरो महत् ॥ १.१६५.११ ॥

看我这匀称的双臂,如象鼻一般;这双腿如铁杵;还有我的胸膛,宽阔而结实。

1.165.12

विक्रमं मे यथेन्द्रस्य साऽद्य द्रक्ष्यसि शोभने ।
माऽवमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ॥ १.१६५.१२ ॥

美丽的女子啊,今日你将看到我的勇武,如同因陀罗一般。宽臀的女子啊,不要因为认为我只是凡人而轻视我。

1.165.13

नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् ।
दृष्टप्रभावस्तु मया मानुषेष्वेव राक्षसः ॥ १.१६५.१३ ॥

希迪巴:人中之虎啊,我并不轻视你这具有天神之相的人;但在人类之中,我见过罗刹的威力。

1.165.14

तथा संजल्पतस्तस्य भीमसेनस्य भारत ।
वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ॥ १.१६५.१४ ॥

毗摩补衍那说:婆罗多啊,当毗摩森那如此说话时,那愤怒的食人罗刹听到了这些话。

1.165.15

अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः ।
स्रग्दामपूरितशिखां समग्रेन्दुनिभाननाम् ॥ १.१६५.१५ ॥

毗摩补衍那说:希迪巴注视着她的人形——发髻中插满花环,面容如满月一般。

1.165.16

सुभ्रूनासाक्षिकेशान्तां सुकुमारनखत्वचम् ।
सर्वाभरणसंयुक्तां सुसूक्ष्माम्बरधारिणीम् ॥ १.१६५.१६ ॥

毗摩补衍那说:她有着美丽的眉、鼻、眼和发梢,指甲与肌肤娇嫩,佩戴着各种饰品,身穿极为精细的衣裳。

1.165.17

तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् ।
पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः ॥ १.१६५.१७ ॥

毗摩补衍那说:见她以极为迷人的人形出现,那食人者疑心她想要男子,便勃然大怒。

1.165.18

संक्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम ।
उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ॥ १.१६५.१८ ॥

毗摩补衍那说:俱卢之最,那罗刹对他的妹妹大为愤怒,瞪大双眼,随即对她说道。

1.165.19

को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः ।
न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता ॥ १.१६५.१९ ॥

谁是这个愚蠢的女人,阻碍我这想吃东西的人?希迪玛芭,你被婆罗门迷惑,难道不怕我的愤怒吗?

1.165.20

धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि ।
पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ॥ १.१६५.२० ॥

你真可耻!淫荡的女人,渴望男人,违逆我的人,给所有先前的罗刹王带来耻辱!

1.165.21

यानिमानाश्रिताऽकार्षीर्विप्रियं समुहन्मम ।
एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ॥ १.१६५.२१ ॥

你依靠这些人,给我造成了极大的不快;今天我要连同你一起杀死他们所有人。

1.165.22

एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः ।
वधायाभिपपातैनान्दन्तैर्दन्तानुपस्पृशन् ॥ १.१६५.२२ ॥

对希迪玛芭说完这些话后,红眼的希迪姆巴咬着牙向他们扑去,要杀死他们。

1.165.23

गर्जन्तमेवं विजने भीमसेनोऽभिवीक्ष्य तम् ।
रक्षन्प्रबोधं भ्रातॄणां मातुश्च परवीरहा ॥ १.१६५.२३ ॥

看到他在荒僻之处如此咆哮,灭敌英雄的怖军,为了保护兄弟与母亲不被惊醒……

1.165.24

तमापतान्तं संप्रेक्ष्य भीमः प्रहरतां वरः ।
भर्त्सयामास तेजस्वी तिष्ठतिष्ठेति चाब्रवीत् ॥ १.१६५.२४ ॥

看到他扑来,最优秀的战士、光辉的怖军斥责他说:“站住,站住!”

1.165.25

भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव ।
भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् ॥ १.१६५.२५ ॥

然而毗摩塞那看见那罗刹,仿佛含笑,对愤怒的妹妹说了这番话。

1.165.26

किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः ।
मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥ १.१६५.२६ ॥

希迪巴啊,惊醒这些安睡之人对你有何益处?你这恶毒的食人者,快到我这里来。

1.165.27

मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि ।
विशेषतोऽनपकृते परेणापकृते सति ॥ १.१६५.२७ ॥

你只打我吧;杀害女人不适合你,何况她未曾有过,反而被别人所伤害。

1.165.28

न हीयं स्ववशा बाला कामयत्यद्य मामिह ।
चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा ॥ १.१६५.२८ ॥

这少女并非出于自愿,此刻在此渴望我,是被在体内游走的无身者(爱神)所驱使。

1.165.29

भगिनी तव दुर्वृत्त रक्षसां वै यशोहर ।
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च ॥ १.१६५.२९ ॥

你这恶行之徒,毁灭罗刹荣誉者!你的妹妹依你的指使,见到我的容貌才这样做。

1.165.30

कामयत्यद्य मां भीरुस्तव नैषापराध्यति ।
अनङ्गेन कृते दोषे नेमां गर्हितुमर्हसि ॥ १.१६५.३० ॥

如今这胆怯的少女渴望我,她并未对你有任何冒犯。对于爱神所犯的过错,你不应责怪她。

1.165.31

मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ।
संगच्छस्व मया सार्धमेकेनैको नराशन ॥ १.१६५.३१ ॥

我在此处,恶毒之人,你不应当杀害一个女子。食人者啊,与我单独一对一地较量吧。

1.165.32

अहमेको गमिष्यामि त्वामद्य यमसादनम् ।
अद्य मद्बलनिष्पिष्टं शिरो राक्षस दीर्यताम्।
कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसाः ॥ १.१६५.३२ ॥

我将独自前往,今日便将你送往阎摩的住所。罗刹啊,愿你的头颅被我的力量碾碎,今日裂开,如同大象的头颅被更强者的脚踩碎一般。

1.165.33

अद्य गात्राणि ते कङ्काः श्येना गोमायवस्तथा ।
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥ १.१६५.३३ ॥

今日战场上,愿鹤、鹰与豺狼欢喜地将你被我杀死的肢体拖拉于地上。

1.165.34

क्षणेनाद्य करिष्येऽहमिदं वनमराक्षसम् ।
पुरा यद्दूषितं नित्यं त्वया भक्षयता नरान् ॥ १.१६५.३४ ॥

顷刻之间,今日我将使此林不再有罗刹,此前你食人,使它时常被玷污。

1.165.35

अद्य त्वां भगिनी रक्षः कृष्यमाणं मयाऽसकृत् ।
द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥ १.१६५.३५ ॥

今日你的姐妹,罗刹啊,将看见你被我反复拖拽,如同狮子拖拽如山般的大象。

1.165.36

निराबाधास्त्वयि हते मया राक्षसपांसन ।
वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥ १.१६५.३६ ॥

当你被我杀死后,罗刹的摧毁者啊,林中行走的人们将在这片林中无忧无虑地游荡。

1.165.37

गर्जितेन वृथा किं ते कत्थितेन च मानुष ।
कृत्वैतत्कर्मणा सर्वं कत्थेया मा चिरं कृथाः ॥ १.१६५.३७ ॥

凡人啊,咆哮与夸口于你有何益处?先以行动完成这一切,再去夸耀,不要拖延太久。

1.165.38

बलिनं मन्यसे यच्चाप्यात्मानं सपराक्रमम् ।
ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ॥ १.१६५.३८ ॥

你自认为强壮勇猛;今日与我相遇,你便会知道我的力量胜过你。

1.165.39

न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् ।
एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ॥ १.१६५.३९ ॥

暂时我不伤害他们,让他们安然入睡。而你,恶毒之人、言语不善者,今日我必杀你。

1.165.40

पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि ।
हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ॥ १.१६५.४० ॥

饮尽你四肢的血之后,我还会杀掉他们;然后再杀这个行事令人不悦的女人。

1.165.41

एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः ।
अभ्यद्रवत संक्रुद्धो भीमसेनमरिन्दमम् ॥ १.१६५.४१ ॥

说完这话,食人者愤怒地举起手臂,朝降伏敌人的毗摩增那扑去。

1.165.42

तस्याभिद्रवतस्तूर्णं भीमो भीमपराक्रमः ।
वेगेन प्रहितं बाहुं निजग्राह हसन्निव ॥ १.१६५.४२ ॥

他迅猛扑来时,勇力可怖的毗摩仿佛笑着,抓住了他猛然挥出的手臂。

1.165.43

निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह ।
तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥ १.१६५.४३ ॥

毗摩以力抓住他,将挣扎的他拖离那地八弓之远,如狮子拖拽小鹿一般。

1.165.44

ततः स राक्षसः क्रुद्धः पाण्डवेन बलार्दितः ।
भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ॥ १.१६५.४४ ॥

于是罗刹被般度之子的力量所困,愤怒不已,拥抱毗摩森那,发出可怕的吼声。

1.165.45

पुनर्भीमो बलादेनं विचकर्ष महाबलः ।
मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति ॥ १.१६५.४५ ॥

大力的毗摩再次以力拖拽他,心想:“不要发出声音,惊扰我安睡的兄弟们。”

1.165.46

हस्ते गृहीत्वा तद्रक्षो दूरमन्यत्र नीतवान् ।
पृच्छे गृहीत्वा तुण्डेन गरुडः पन्नगं यथा ॥ १.१६५.४६ ॥

他抓住罗刹的手,将他带到远处的另一处地方,如金翅鸟用喙衔着毒蛇一般。

1.165.47

अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा ।
हिडिम्बो भीमसेनश्च विक्रमं चक्रतुः परम् ॥ १.१६५.४७ ॥

二者相遇,互相用力拉扯;希迭姆巴与毗摩森那展现了至高的勇武。

1.165.48

बभञ्जतुस्तदा वृक्षाँल्लताश्चाकर्षतुस्तदा ।
मत्ताविव चं संरब्धौ वारणौ षष्टिहायनौ ॥ १.१६५.४८ ॥

于是他们折断树木,扯断藤蔓;二者如两头愤怒发狂的六十岁象。

1.165.49

पादपानुद्धरन्तौ तावूरुवेगेन वेगितौ ।
स्फोटयन्तौ लताजालान्यूरुभ्यां गृह्य सर्वशः ॥ १.१६५.४९ ॥

两人拔起树木,凭借大腿的力量疾行,用大腿抓住藤蔓的网,四面撕扯。

1.165.50

वित्रासयन्तौ तौ शब्दैः सर्वतो मृगपक्षिणः ।
बलेन बलिनौ मत्तावन्योन्यवधकाङ्क्षिणौ ॥ १.१६५.५० ॥

以喧嚣惊吓四面的鹿与飞鸟,两位以力量为强的勇士,狂怒不已,都渴望杀死对方。

1.165.51

भीमराक्षसयोर्युद्धं तदाऽवर्तत दारुणम् ।
पुरा देवासुरे युद्धे वृत्रवासवयोरिव ॥ १.१६५.५१ ॥

于是,毗摩与罗刹之间爆发了可怕的战斗,如往昔天神与阿修罗之战中,弗栗多与婆薮之间那样。

1.165.52

भङूक्त्वा वृक्षान्महाशाखांस्ताडयामासतुः क्रुधा ।
सालतालतमालाम्रवटार्जुनविभीतकान् ॥ १.१६५.५२ ॥

折断大枝的树木,怒气冲冲地击打娑罗树、棕榈、多摩罗、芒果、榕树、阿周那树和毗醯多迦树。

1.165.53

न्यग्रोधप्लक्षखर्जूरपनसानश्मकण्टकान् ।
एतानन्यान्महावृक्षानुत्खाय तरसाऽखिलान् ॥ १.१६५.५३ ॥

连根拔起榕树、波叉树、枣椰、菠萝蜜、石木与荆棘树,以及其他所有大树。

1.165.54

उत्क्षिप्यान्योन्यरोषेण ताडयामासतू रणे ।
यदाऽभवद्वनं सर्वं निर्वृक्षं वृक्षसङ्कुलम् ॥ १.१६५.५४ ॥

二人怀着彼此的愤怒将树木抛来掷去,在战场上相互击打,直至整片密林变得寸木不存。

1.165.55

तदा शिलाश्च कुञ्जांश्च वृक्षान्कण्टकिनस्तथा ।
ततस्तौ गिरिशृङ्गाणि पर्वतांश्चाभ्रलेलिहान् ॥ १.१६५.५५ ॥

于是二人举起岩石、灌木与带刺的树木,接着又举起山峰和触及云霄的群山。

1.165.56

शैलांश्च गण्डपाषाणानुत्खायादाय वैरिणौ ।
चिक्षेपतुरुपर्याजावन्योन्यं विजयेषिणौ ॥ १.१६५.५६ ॥

二人渴求胜利,拔起岩石与巨石,在战场上从上方向彼此投掷。

1.165.57

तद्वनं परितः पञ्चयोजनं निर्महीरुहम् ।
निर्लतागुल्मपाषाणं निर्मृगं चक्रतुर्भृशम् ॥ १.१६५.५७ ॥

他们把那片森林周围五由旬之内弄得完全没有树木、藤蔓、灌木、岩石,也没有鹿。

1.165.58

तयोर्युद्धेन राजेन्द्र तद्वनं भीमरक्षसोः ।
मुहूर्तेनाभवत्कूमर्पृष्ठवच्छ्लक्ष्णमव्ययम् ॥ १.१६५.५८ ॥

王中之王啊,由于这两人——毗摩与罗刹——的战斗,那片森林在一瞬间变得像龟背一样平滑平坦。

1.165.59

ऊरुबाहुपरिक्लेशात्कर्षन्तावितरेतरम् ।
उत्कर्षन्तौ विकर्षन्तौ प्रकर्षन्तौ परस्परम् ॥ १.१६५.५९ ॥

因为大腿和手臂的费力,他们互相拖拽,向上拉、向两边拉、向前拉。

1.165.60

तौ स्वनेन विना राजन्गर्जन्तौ च परस्परम् ।
पाषाणसंघट्टनिभैः प्रहारैरभिजघ्नतुः ॥ १.१६५.६० ॥

王啊,二人互相咆哮,以如石块相撞般的打击彼此击打;他们无法不发出声响。

1.165.61

अन्योन्यं च समालिङ्ग्य विकर्षन्तौ परस्परम् ।
बाहुयुद्धमभूद्धोरं बलिवासवयोरिव।
युद्धसंरम्भनिर्गच्छत्फूत्काररवनिस्वनम् ॥ १.१६५.६१ ॥

二人相互拥抱、彼此拖拽,展开了一场如同婆梨与因陀罗(Vāsava)般的可怕臂力搏斗,战斗的激情中迸发出嘶嘶的吼叫与轰鸣。

1.165.62

तयोः शब्देन महता विबुद्धास्ते नरर्षभाः ।
सह मात्रा च ददृशुर्हिडिम्बामग्रतःस्थिताम् ॥ १.१६५.६२ ॥

被二人的巨大声响惊醒的那些人中雄牛,与母亲一同看见站在前面的希迪姆芭。