摩诃婆罗多 · 章 1.166
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.166.1
प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् ।
विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ॥ १.१६६.१ ॥
那些人中虎豹醒来,见到希迪姆芭超越凡人的容貌,与普利塔一同感到惊讶。
1.166.2
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा ।
उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शैनः ॥ १.१६६.२ ॥
于是昆提看着她,为她的美貌光彩所惊讶,以安慰为开端,轻声说出这些甜美的话。
1.166.3
कस्य त्वं सुरगर्भाभे कावाऽसि वरवर्णिनि ।
केन कार्येण संप्राप्ता कुतश्चागमनं तव ॥ १.१६६.३ ॥
你是谁的人,如神之胎般的人啊,美丽肤色的女子?你是谁,因何事而来,你从何处而来?
1.166.4
यदि वाऽस्य वनस्य त्वं देवता यदि वाऽप्सराः ।
आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ॥ १.१६६.४ ॥
你若是这森林的女神,或是天女,就把一切都告诉我,你为何站在这里。
1.166.5
यदेतत्पश्यसि वनं नीलमेघनिं महत् ।
निवासो राक्षसस्यैष हिडिम्बस्य ममैव च ॥ १.१६६.५ ॥
你所看到的这片如深蓝云朵般的大森林,是罗刹希迪姆巴的居所,也是我的居所。
1.166.6
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्दि भामिनि ।
भ्रात्रा संप्रेषितामार्ये त्वां सपुत्रां जिघांसता ॥ १.१६६.६ ॥
光彩照人的夫人,请知道我是那位罗刹王的妹妹;高贵的夫人,我是受哥哥派遣而来的,他想连同你的儿子一起杀死你。
1.166.7
क्रूरबुद्धेरहं तस्य वचनादागता त्विह ।
अद्राक्षं नवहेमाभं तव पुत्रं महाबलम् ॥ १.१६६.७ ॥
听从那残忍之人的话,我来到这里。我看见了你的儿子,他力大无穷,如新金般闪耀。
1.166.8
ततोऽहं सर्वभूतानां भावे विचरता शुभे ।
चोदिता तव पुत्रार्थं मन्मथेन वशानुगा ॥ १.१६६.८ ॥
那时,吉祥的人啊,我在众生的本性中游荡,为了你的儿子,被爱神驱使,成为他的臣属。
1.166.9
ततो वृतो मया भर्ता तव पुत्रो महाबलः ।
अपनेतुं च यतितो न चैव शकितो मया ॥ १.१६६.९ ॥
于是我选择你那力大无穷的儿子为丈夫。我努力想带走他,却未能做到。
1.166.10
चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः ।
स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ॥ १.१६६.१० ॥
他得知我迟延,那食人的罗刹便亲自前来,要杀害你这些儿子。
1.166.11
स तेन मम कान्तेन तव पुत्रेण धीमता ।
बलादितो विनिष्पिष्य व्यपनीतो महात्मना ॥ १.१६६.११ ॥
你那智慧而伟大的儿子,我的爱人,将他强力碾碎,从这里带走了。
1.166.12
विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् ।
पश्यैवं युधि विक्रान्तावेतौ च नरराक्षसौ ॥ १.१६६.१२ ॥
彼此拖拽,二者皆迅猛异常,怒吼不止——看那两位在战斗中如此英勇的,人与罗刹。
1.166.13
तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः ।
अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ॥ १.१६६.१३ ॥
听到她的话,坚战立刻跳起身来;阿周那、那伽罗和勇猛的萨诃提婆也随之起身。
1.166.14
तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् ।
काङ्क्षमाणौ जयं चैव सिंहाविव बलोत्कटौ ॥ १.१६६.१४ ॥
他们看见那两人纠缠在一起,互相拉扯,渴望胜利,如同两头力量凶猛的狮子。
1.166.15
अथान्योन्यं समाश्लिष्य विकर्षन्तौ पुनःपुनः ।
दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ॥ १.१६६.१५ ॥
接着,他们相互拥抱,一次又一次地拉扯,扬起如同林火烟雾般的尘土。
1.166.16
वसुधारेणुसंवीतौ वसुधाधरसन्निभौ ।
बभ्राजतुर्यथा शैलौ नीहारेणाभिसंवृतौ ॥ १.१६६.१६ ॥
两人被尘土覆盖,如同山岳,闪耀着,就像两座被雾气笼罩的山。
1.166.17
राक्षसेन तदा भीमं क्लिश्यमानं निरीक्ष्य च ।
उवाचेदं वचः पार्थः प्रहसञ्छनकैरिव ॥ १.१६६.१७ ॥
此时,看到毗摩被罗刹折磨,阿周那微笑着,仿佛轻声地说出了这些话。
1.166.18
भीम माभैर्महाबाहो न त्वां बुध्यामहे वयम् ।
समेतं भीमरूपेण रक्षसा श्रमकर्शिताः ॥ १.१६६.१८ ॥
毗摩啊,不要害怕,大臂者!与形貌可怖的罗刹纠缠在一起的你,我们因疲惫而困顿,难以认出你。
1.166.19
साहाय्येऽस्मि स्थितः पार्थ पातयिष्यामि राक्षसम् ।
नकुलः सहदेवश्च मातरं गोपयिष्यतः ॥ १.१६६.१९ ॥
普利塔之子啊,我已准备好相助;我将击倒那罗刹。那拉古拉与萨哈德瓦将守护母亲。
1.166.20
उदासीनो निरीक्षस्व न कार्यः संभ्रमस्त्वया ।
न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः ॥ १.१६६.२० ॥
你且超然旁观,不必慌乱。此人既已落入我的臂间,便再也不能存活。
1.166.21
भुजयोरन्तरं प्राप्तो भीमसेनस्य राक्षसः ।
अमृत्वा पार्थवीर्येण मृतो मा भूदिति ध्वनिः ॥ १.१६६.२१ ॥
此罗刹落入毗摩森那双臂之间,不得在未因普利塔之子的勇力而死的情况下成为死者——这便是呼声。
1.166.22
अयमस्मांस्तु नो हन्याज्जातु पार्थ राक्षसः ।
जीवन्तं न प्रमोक्ष्यामि मा भैषीर्भरतर्षभ ॥ १.१६६.२२ ॥
愿此罗刹永不杀我们,普利塔之子啊。我不会让他活着离去;不要害怕,婆罗多中的雄牛。
1.166.23
पूर्वरात्रे प्रयुक्तोऽसि भीम क्रूरेण रक्षसा ।
क्षपा व्युष्टा न चेदानीं समाप्तोसीन्महारणः ॥ १.१६६.२३ ॥
毗摩啊,前半夜你已与那残暴的罗刹交战。夜已天明,而这场大战仍未结束。
1.166.24
किमेनन चिरं भीम जीवता पापरक्षसा ।
गन्तव्ये न चिरं स्थातुमिह शक्यमरिन्दम ॥ १.१६६.२४ ॥
毗摩啊,让这罪孽的罗刹活这么久有何益处?降伏敌人者啊,我们必须离去;此地不可久留。
1.166.25
पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते ।
रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्त्युत ॥ १.१६६.२५ ॥
东方已经泛红,黄昏提前到来;在可怖的时刻,罗刹变得极其强大。
1.166.26
त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् ।
पुरा विकुरुते मायां भुजयोः सारमर्पय ॥ १.१६६.२६ ॥
婆罗摩,快些,不要游戏;杀死这可怖的罗刹。趁他施展幻术之前,尽展你双臂的全部力量。
1.166.27
माहात्म्यमात्मनो वेत्थ नराणां हितकाम्यया ।
रक्षो जहि यथा शक्रः पुरा वृत्रं महाबलम् ॥ १.१६६.२७ ॥
你自知自己的威力;为了人类的福祉,请杀死这罗刹,正如往昔帝释天杀死大力的弗栗多。
1.166.28
अथवा मन्यसे भारं त्वमिमं राक्षसं युधि ।
आतिष्ठे तव साहाय्यं शीघ्रमेव तु हन्यताम् ॥ १.१६६.२८ ॥
或者,如果你认为这罗刹在战斗中是你的负担,我愿站在你身旁相助;愿他尽快被杀死。
1.166.29
अथवा त्वहमेवैनं हनिष्यामि वृकोदर ।
कृतकर्मा परिश्रान्तः साधु तावदुपारम ॥ १.१६६.२९ ॥
或者,狼腹啊,我自己来杀他。你已尽了自己的力,疲惫不堪;现在你最好退下休息。
1.166.30
अर्जुनेनैवमुक्तस्तु भीमो रोषाज्ज्वलन्निव ।
बलमाहारयामास यद्वायोर्जगतः क्षये ॥ १.१६६.३० ॥
阿周那如此说后,婆罗摩因愤怒而仿佛燃烧起来,他聚集起如同世界毁灭之时风所具有的力量。
1.166.31
ततस्तस्याम्बुदाभस्य भीमो रोषात्तु रक्षसः ।
अत्क्षिप्याभ्रामयद्देहं तूर्णं शतगुणं तदा ॥ १.१६६.३१ ॥
于是毗摩怒火中烧,抓住那如云般的罗刹,迅速把他的身体旋转了一百圈。
1.166.32
इति चोवाच संक्रुद्धो भ्रामयन्राक्षसीं तनुम् ।
भीमसेनो महाबाहुरभिगर्जन्मुहुर्मुहुः ॥ १.१६६.३२ ॥
说完这些,愤怒的大臂毗摩森那一边旋转罗刹女的身体,一边一再咆哮。
1.166.33
नरमांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः ।
वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥ १.१६६.३३ ॥
你以人肉白白喂养,白白长大,心智空虚的罗刹啊,你只配白白死去;今天你将不复存在。
1.166.34
क्षेममद्य करिष्यामि यथा वनमकण्टकम् ।
न पुनर्मानुषान्हत्वा भक्षयिष्यसि राक्षस ॥ १.१६६.३४ ॥
今天我将带来安宁,使森林没有荆棘;罗刹啊,你再也不能杀人后将其吞食了。
1.166.35
इत्युक्त्वा भीमसेनस्तं निष्पिष्य धरणीतले ।
बाहुभ्यामवपीड्याशु पशुमारममारयत् ॥ १.१६६.३५ ॥
说完,毗摩森那将他摔倒在地,迅速用双臂压住,像屠宰牲畜一样将他杀死。
1.166.36
स मार्यमाणो भीमेन ननाद विपुलं स्वनम् ।
पूरयंस्तद्वनं सर्वं जलार्द्रे इव दुन्दुभिः ॥ १.१६६.३६ ॥
他被毗摩杀死时发出巨大的吼声,充满了整片森林,犹如湿鼓发出的回响。
1.166.37
बाहुभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः ।
समुद्धाम्य शिरश्चास्य सग्रीवं तदपाहरत् ॥ १.१६६.३७ ॥
力大的般度之子以双臂缚住他,连同脖颈举起他的头,将其扯下。
1.166.38
ततो भित्त्वा शिरश्चास्य सग्रीवं तदुदाक्षिपत् ।
तस्य निष्कर्णनयनं निर्जिह्वं रुधिरोक्षितम् ॥ १.१६६.३८ ॥
随后,他劈开连同脖颈的头,将其抛开;他的耳朵和眼睛被扯掉,舌头被割断,满身是血。
1.166.39
प्राविद्धं भीमसेनेन शिरो विदशनं बभौ ।
प्रसारितभुजोद्धृष्टो भिन्नमांसत्वगन्तरः ॥ १.१६६.३९ ॥
被比玛塞那抛出的头颅露出牙齿闪闪发光;伸展的手臂被磨破,内里血肉与皮肤撕裂。
1.166.40
कबन्धभूतस्तत्रासीद्दनुर्वज्रहतो तथा ।
हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः ॥ १.१६६.४० ॥
那恶魔变成了无头的躯干,仿佛被雷霆击中。见希迪巴被杀,那些勇猛的战士欢欣鼓舞。
1.166.41
हिडिम्बा सा च संप्रेक्ष्य निहतं राक्षसं रणे ।
अदृश्याश्चैव ये स्वस्स्थाः समेताः सर्षिचारणाः ॥ १.१६६.४१ ॥
希迪巴见那罗刹在战中被杀,隐身而安然聚集在那里的仙人和乐师们也都看到了。
1.166.42
पूजयन्ति स्म तं हृष्टाः साधुसाध्विति पाण्डवम् ।
भ्रातरश्चापि संहृष्टा युधिष्ठिरपुरोगमाः ॥ १.१६६.४२ ॥
众人欢喜地赞颂般度子,连声说:“好啊,好啊!”以坚战为首的兄弟们也都非常欢喜。
1.166.43
अपूजयन्नरव्याघ्रं भीमसेनमरिन्दमम् ।
अभिपूज्य महात्मानं भीमं भीमपराक्रमम्।
पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् ॥ १.१६६.४३ ॥
他们尊敬人中之虎、制服敌人的怖军。阿周那向敬重大勇猛的怖军致敬后,再次对狼腹者说了这番话。
1.166.44
अदूरे नगरं मन्ये वनादस्मादहं विभो ।
शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ॥ १.१६६.४४ ॥
啊,强大者,我认为城市离这片森林不远。愿你安好!我们快走吧,免得苏yodhana得知我们。
1.166.45
ततः सर्वे तथेत्युक्त्वा मात्रा सह महारथाः ।
प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी ॥ १.१६६.४५ ॥
于是,所有这些大车战士、人中之虎说道:“就这样吧。”便与母亲一同启程,罗刹女希迪姆芭也一同前往。