Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.168

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.168.1

युधिष्ठिरवचः श्रुत्वा कुन्तीमङ्गेऽधिरोप्य सा ।
भीमार्जुनान्तरगता यमाभ्यां च पुरस्कृता ॥ १.१६८.१ ॥

她听了坚战的话,把贡蒂抱在膝上;行走在怖军与阿周那之间,又让两位无种走在前面。

1.168.2

तिर्यग्युधिष्ठिरे याति हिडिम्बा भीमगामिनी ।
शालिहोत्रसरो रम्यमाससाद जलार्थिनी ॥ १.१६८.२ ॥

Hiḍimbā 从坚战身旁侧行而过,随怖军同行,为求水而来到舍利霍特罗美丽的湖边。

1.168.3

वनस्पतितलं गत्वा परिमृज्य गृहं यथा ।
पाण्डवानां च वासं सा कृत्वा पर्णमयं तथा ॥ १.१६८.३ ॥

她来到一棵树下,把它打扫得如同房屋一般,又为般度诸子用树叶搭建了一处住所。

1.168.4

आत्मनश्च तथा कुन्त्या एकोद्देशे चकार सा ।
पाण्डवास्तु ततः स्नात्वा शुद्धाः सन्ध्यामुपास्य च ॥ १.१६८.४ ॥

她为自己和贡蒂在同一处做好了安排。随后般度诸子沐浴净身,行了黄昏的礼拜。

1.168.5

तृषिताः क्षुत्पिपासार्ता जलमात्रेण वर्तयन् ।
शालिहोत्रस्ततो ज्ञात्वा क्षुधार्तान्पाण्डवांस्तदा ॥ १.१६८.५ ॥

般度诸子口渴,饥渴交加,只靠水维持生命。那时舍利霍特罗得知般度诸子因饥饿而受苦——

1.168.6

मनसा चिन्तयामास पानीयं भोजनं महत् ।
ततस्ते पाण्डवाः सर्वे विश्रान्ताः पृथया सह ॥ १.१६८.६ ॥

他心中思念着水和丰盛的食物。随后般度诸子与普利塔一同歇息下来。

1.168.7

यथा जतुगृहे वृत्तं राक्षसेन कृतं च यत् ।
कृत्वा कथा बहुविधाः कथान्ते पाण्डुनन्दनम् ॥ १.१६८.७ ॥

如漆宫中所发生、罗刹所做的一切;讲述了许多种故事之后,在故事结束时,对般度之子(她说)。

1.168.8

कुन्ती राजसुता वाक्यं भीमसेनमथाब्रवीत् ।
यथा पाण्डुस्तथा मान्यस्तव ज्येष्ठो युधिष्ठिरः ॥ १.१६८.८ ॥

于是王女贡蒂对毗摩森那说了这些话:正如般度,你的长兄坚战也同样值得尊敬。

1.168.9

अहं धर्मविदाऽनेन मान्या गुरुतरा तव ।
तस्मात्पाण्डुहितार्थं मे युवराज हितं कुरु ॥ १.१६८.९ ॥

我为知法者所尊敬,对你而言我更为尊长。因此,太子啊,为了般度诸子的利益,请做对我有利之事。

1.168.10

निकृता धार्तराष्ट्रेण पापेनाकृतबुद्धिना ।
दुष्कृतस्य प्रतीकारं न पश्यामि वृकोदर ॥ १.१६८.१० ॥

我被那邪恶而无智的持国之子所欺辱。狼腹啊,我看不到对这恶行的补救之法。

1.168.11

तस्मात्कतिपयाहेन योगक्षेमं भविष्यति ।
क्षेमं दुर्गमिमं वासं वत्स्याम हि यथा वयम् ॥ १.१६८.११ ॥

因此,过几天我们将得到安稳与平安。我们将在这个难以抵达却安全的住所中居住,正如我们所是。

1.168.12

इदमन्यन्महदुःखं धर्मकृच्छ्रं वृकोदर ।
दृष्ट्वैव त्वां महाप्राज्ञ अनङ्गाभिप्रचोदिता ॥ १.१६८.१२ ॥

狼腹啊,这又是一桩大悲痛,是对法的严峻考验。大智者啊,我一见到你,便被爱神(欲)所驱使,心中激荡。

1.168.13

युधिष्ठिरं च मां चैव वरयामास धर्मतः ।
धर्मार्थं देहि पुत्रं त्वं स नः श्रेयः करिष्यति ॥ १.१६८.१३ ॥

她依法选择了坚战和我。为了法,你给一个儿子吧;他会为我们带来福祉。

1.168.14

प्रतिवाक्यं तु नेच्छामि आवयोर्वचनं कुरु ।
तथेति तत्प्रतिज्ञाय भीमसेनोऽब्रवीदिदम् ॥ १.१६८.१४ ॥

我不愿听你反驳的话;请履行我们二人的诺言。坚战之弟怖军说“就这样吧”,接受了她的誓言,随后说道。

1.168.15

शासनं ते करिष्यामि वेदशासनमित्यपि ।
समक्षं भ्रातृमध्ये तु तां चोवाच स राक्षसीम् ॥ १.१६८.१५ ॥

“我将遵照吠陀的训示执行你的吩咐。”在兄弟之中,当着众人的面,他对那罗刹女说道。

1.168.16

शृणु राक्षसि सत्येन समयं ते वदाम्यहम् ।
यावत्कालेन भवति पुत्रस्योत्पादनं शुभे ॥ १.१६८.१६ ॥

罗刹女啊,听着:我据实告诉你条件。吉祥的女子啊,在生下儿子所需的时间内——

1.168.17

तावत्कालं चरिष्यामि त्वया सह सुमध्यमे ।
विशेषतो मत्सकाशे मा प्रकाशय नीचताम् ॥ १.१६८.१७ ॥

苗条的女子啊,我将与你共处那段时间。尤其在我面前,不要显露你的卑下。

1.168.18

उत्तमस्त्रीगुणोपेता भजेथा वरवर्णिनि ।
सा तथेति प्रतिज्ञाय हिडिम्बा राक्षसी तथा ॥ १.१६८.१८ ॥

肤色美丽的女子啊,具备上等女子德性的你应侍奉我。罗刹女希滴巴说“就这样吧”,许下誓言,就这样应允了。

1.168.19

गताऽहनि निवेशेषु भोज्यं राजार्हमानयत् ।
सा कदाचिद्विहारार्थं हिडिम्बा कामरूपिणी ॥ १.१६८.१९ ॥

日子过去,她常到营地送来配得上国王的食物。有一次为了游乐,能随意变化形态的希迪巴做了这样的事。

1.168.20

भीमसेनमुपादाय ऊर्ध्वमाचक्रमं तदा ।
शैलशृङ्गेषु रम्येषु देवतायतनेषु च ॥ १.१६८.२० ॥

于是她带着毗摩色那向上走去,来到美丽的山峰与诸神的祠庙。

1.168.21

मृगपक्षिविघृष्टेषु रमणीयेषु सर्वेषु ।
कृत्वा सा परमं रूपं सर्वाभरणभूषिता ॥ १.१६८.२१ ॥

在鹿与鸟群出没的所有美丽之处,她化作至上的形貌,佩戴着一切饰物。

1.168.22

संजल्पन्ती सुमधुरं रमयामास पाण्डवम् ।
तथैव वनदुर्गेषु पर्वतद्रुमसानुषु ॥ १.१६८.२२ ॥

她以极温柔的言语取悦般度之子;同样,在森林的险要之处、山上以及林木覆盖的山坡上。

1.168.23

सरस्तु रमणीयेषु पद्मोत्पलवनेषु च ।
नदीद्वीपप्रदेशेषु वैडूर्यसिकतेषु च ॥ १.१६८.२३ ॥

还有在美丽的湖泊、莲花与青莲的林中,河中岛屿地带,以及如青金石般的沙岸上。

1.168.24

देवारण्येषु पुण्येषु तथा पर्वतसानुषु ।
सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥ १.१६८.२४ ॥

在神圣的天林之中,山坡之上,在殊胜的圣渡口与林中之水旁,以及山间河流里。

1.168.25

सागरस्य प्रदेशेषु भणिहेमयुतेषु च ।
गुह्यकानां निवासेषु कुलपर्वतसानुषु ॥ १.१६८.२५ ॥

在海洋的各地,那里饰有宝石与黄金;在古耶卡们的居所,在主要山脉的山坡上。

1.168.26

सर्वर्तुफलवृक्षेषु मानसेषु वनेषु च ।
बिभ्रती परमं रूपं रमयामास पाण्डवम् ॥ १.१६८.२६ ॥

在四季皆结果的树木间,在曼那萨湖畔与森林中,她展现无上的美貌,令潘度之子欢悦。

1.168.27

यथा सुमोदते स्वर्गे सुकृत्यप्सरसा सह ।
सुतरां परमप्रीतस्तथा रेमे महाद्युतिः ॥ १.१६८.२७ ॥

犹如善人在天界与天女同乐,那位大光者也极为欢喜地尽情嬉戏。

1.168.28

शुभं हि जघनं तस्याः सवर्णमणिमेखलम् ।
न ततर्प तदा मृद्गन्भीमसेनो मुहुर्मुहुः ॥ १.१६८.२८ ॥

她美丽的腰臀,系着同色的宝石腰带,当时却未能令毗摩森那满足;他一再凝望。

1.168.29

रमयन्ती ततो भीमं तत्रतत्र मनोजवा ।
सा रेमे तेन संहर्षात्तृप्यन्ती च मुहुर्मुहुः ॥ १.१६८.२९ ॥

接着,她令毗摩欢悦,迅如意念,四处与他同欢,屡屡得到满足。

1.168.30

अहस्सु रमयन्ती सा निशाकालेषु पाण्डवम् ।
आनीय वै स्वके गेहे दर्शयामास मातरम् ॥ १.१६८.३० ॥

白日里令潘达瓦欢悦,夜里她把他带来,在自己的家中让母亲见了他。

1.168.31

भ्रातृभिः सहितो नित्यं स्वपते पाण्डवस्तथा ।
कुन्त्याः परिचरन्ती सा तस्याः पार्श्वेवसन्निशां ॥ १.१६८.३१ ॥

般度之子与兄弟们总是这样入睡。她侍奉贡蒂,夜夜陪伴在她身旁。

1.168.32

कामांश्च मुखवासादीनानयिष्यति भोजनम् ।
तस्यां रात्र्यां व्यतीतायामाजगाम महाव्रतः ॥ १.१६८.३२ ॥

她会带来食物、口香之物及其他所需之物。那夜过去后,持大誓者到来了。

1.168.33

पाराशर्यो महाप्राज्ञो दिव्यदर्शी महातपाः ।
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं शुभम्।
तस्थुः प्राञ्जलयः सर्वे सस्नुषा चैव माधवी ॥ १.१६८.३३ ॥

波罗奢罗之子到来了,他大智、具天眼、大苦行。众人向这位大德、吉祥的黑慈·双岛仙人致敬,合掌而立;儿媳摩陀维也在其中。

1.168.34

मयेदं मनसा पूर्वं विदितं भरतर्षभाः ।
यथा स्थितैरधर्मेण धार्तराष्ट्रौर्विवासिताः ॥ १.१६८.३४ ॥

婆罗多诸雄啊!我早已心中知晓:持国之子以非法将你们如何放逐。

1.168.35

तद्विदित्वाऽस्मि संप्राप्तश्चिकीर्ष्वै परं हितम् ।
न विषादो हि वः कार्यः सर्वमेतत्सुखाय वः ॥ १.१६८.३५ ॥

我知道此事,因而前来,愿为你们行最大的善事。你们不应忧伤,这一切都是为了你们的幸福。

1.168.36

सुहृद्वियोजनं कर्म पुराकृतमरिन्दमाः ।
तस्य सिद्धिरियं प्राप्ता मा शोचत परन्तपाः ॥ १.१६८.३६ ॥

诸降敌者啊!与朋友分离这一业行,乃是前世所作;今其果报已至。诸焚敌者啊,不要悲伤。

1.168.37

समाप्ते दुष्कृते चैव यूयं ते वै न संशयः ।
स्वराष्ट्रे विहरिष्यन्तो भविष्यथ सबान्धवाः ॥ १.१६८.३७ ॥

待作恶之期已满,你们必定无疑地在自己的国度中与亲属共同生活。

1.168.38

दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः ।
तस्मादभ्यधिकः स्नेहो युष्मासु मम संप्रति ॥ १.१६८.३८ ॥

亲属对困苦者和幼小者总是怀有慈爱;因此如今我对你们的慈爱更加深厚。

1.168.39

स्नेहपूर्वं चिकीर्षामि हितं यत्तन्निबोधत ।
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥ १.१६८.३९ ॥

出于慈爱,我愿为你们做有益之事;请听我说。你们在此隐藏居住,等待我的到来。

1.168.40

एतद्वै शालिहोत्रस्य तपसा निर्मितं सरः ।
रमणीयमिदं तोयं क्षुत्पिपासाश्रमापहम् ॥ १.१६८.४० ॥

此湖是由舍利呼特罗的苦行所造;其水清美,能消除饥渴之疲劳。

1.168.41

कार्यार्थिनस्तु षण्मासान्विहरध्वं यथासुखम् ॥ १.१६८.४१ ॥

但为了一个目的,你们可以随意愉快地居住六个月。

1.168.42

एवं स तान्समाश्वास्य व्यासः पार्थानरिन्दमान् ।
स्नेहाच्च संपरिष्वज्य कुन्तीमाश्वासयत्प्रभुः ॥ १.१६८.४२ ॥

如此,毗耶娑安慰了这些降伏敌人的普利塔之子,并以慈爱拥抱他们,又安慰了贡蒂。

1.168.43

स्नुषे मा रोद मा रोदेत्येवं व्यासोऽब्रवीद्वचः ।
जीवपुत्रे सुतस्तेऽयं धर्मनित्यो युधिष्ठिरः ॥ १.१६८.४३ ॥

毗耶娑说:“媳妇,不要哭,不要哭。你的儿子们还活着;这位是你的儿子坚战,他始终坚守法道。”

1.168.44

पृथिव्यां पार्थइवान्सर्वान्प्रशासिष्यति धर्मराट् ।
धर्मेण जित्वा पृथिवीमखिलां धर्मकृद्वशी ॥ १.१६८.४४ ॥

法王将如普利塔之子一般统治天下万民。他以法道征服整个大地,作为行法者、自制者,将会统治。

1.168.45

स्थापयित्वा वशे सर्वां सपर्वतवनां शुभाम् ।
भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयम् ॥ १.१६८.४५ ॥

他将征服这片美丽的大地,连同山岳与森林,凭借毗摩森那与阿周那的力量,毫无疑问地享有它。

1.168.46

पुत्रास्तव च माद्र्याश्च पञ्चैते लोकविश्रुताः ।
स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ॥ १.१६८.४६ ॥

你的儿子们以及摩德利的这五个儿子,闻名于世,届时心情愉悦,将在自己的王国中安乐地居住。

1.168.47

यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् ।
राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥ १.१६८.४७ ॥

征服这片大地之后,那些人中之虎将举行王祭、马祭等诸祭,并布施丰厚的祭礼酬金。

1.168.48

अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च ।
पितृपैतामहं राज्यमहारिष्यन्ति ते सुताः ॥ १.१६८.४८ ॥

他们以财富和安乐惠及亲友之后,你的儿子们将夺回父祖传下的王国。

1.168.49

स्नुषा कमलपत्राक्षी नाम्ना कमलपालिका ।
वशवर्तिनी तु भीमस्य पुत्रमेषा जनिष्यति ॥ १.१६८.४९ ॥

一位名叫迦摩罗波利迦的媳妇,眼如莲花瓣,顺从于怖军,将生下一子。

1.168.50

तेन पुत्रेण कृच्छ्रेषु भविष्यथ च तारिताः ।
इह मासं प्रतीक्षध्वमागमिष्याम्यहं पुनः ॥ १.१६८.५० ॥

你们将借着那个儿子脱离困苦。请在此等待一个月,我将再来。

1.168.51

देशकालौ विदित्वैवं यास्यध्वं परमां मुदम् ॥ १.१६८.५१ ॥

如此知晓了地点与时机,你们将怀着至高的喜悦前行。

1.168.52

स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो जनाधिप ।
जगाम भगवान्व्यासो यथागतमृषिः प्रभुः ॥ १.१६८.५२ ॥

君主啊,当他们都合掌说“就这样吧”,大力仙人、世尊毗耶娑便循着来时的路离去了。