Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.170

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.170.1

ततस्ते पाण्डवाः सर्वे शालिहोत्राश्रमे तदा ।
पूजितास्तेन वन्येन तमामन्त्र्य महामुनिम् ॥ १.१७०.१ ॥

当时,所有般度之子在沙利霍special(Śālihotra)的净修林中,受到那位林居者的尊敬,向这位大仙告辞。

1.170.2

जटाः कृत्वाऽऽत्मनः सर्वे वल्कलाजिनवाससः ।
कुन्त्या सह महात्मानो बिभ्रतस्तापसं वपुः ॥ १.१७०.२ ॥

他们为自己结起发髻,身着树皮和鹿皮,与贡蒂一同,那些大德者呈现出苦行者的模样。

1.170.3

ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः ।
नीतिशास्त्रं च धर्मज्ञा न्यायज्ञानं च पाण्डवाः ॥ १.१७०.३ ॥

研习婆罗门吠陀与一切吠陀支分,获得政治学和正理的知识,那些通晓法的般度之子。

1.170.4

शालिहोत्रप्रसादेन लब्ध्वा प्रीतिमवाप्य च ।
ते वनेन वनं गत्वा घ्नन्तो मृगगणान्बहून्।
अपक्रम्य ययू राजंस्त्वरमाणा महारथाः ॥ १.१७०.४ ॥

凭借沙利霍特拉的恩惠获得欢喜,他们从这片森林走向那片森林,杀死了许多鹿群;然后,王啊,那些大车战士急速离开了那里。

1.170.5

मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च ।
रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ॥ १.१७०.५ ॥

从鱼族、三国族、般遮罗族和迦遮族的邻近之地经过,观赏可爱的林地与湖泊。

1.170.6

क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः ।
क्वचिच्छ्रान्ताश्च कान्तारे क्वचित्तिष्ठन्ति हर्षिताः ॥ १.१७०.६ ॥

有时他们背负着母亲急速前行,有时在荒野中疲倦而停留,有时又欢喜地站立。

1.170.7

क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः ।
पथि द्वैपायन सर्वे ददृशुः स्वपितामहम् ॥ १.१७०.७ ॥

他们有时随意行走,又快速前行;在路上,二宫啊,他们都见到了自己的祖父。

1.170.8

तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा ।
तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः ॥ १.१७०.८ ॥

那时,诸位敌人的焚烧者与母亲一同向大德的黑氏宫(克里希纳·二宫)致敬,合掌而立。

1.170.9

तदाश्रमान्निर्गमनं मया ज्ञातं नरर्षभाः ।
घटोत्कचस्य चोत्पत्तिं ज्ञात्वा प्रीतिरवर्धत ॥ १.१७०.९ ॥

诸位人中雄牛啊,我得知他们离开了修行处;得知乔托迦的诞生后,我的喜悦增长了。

1.170.10

इदं नगरमभ्याशे रमणीयं निरामयम् ।
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥ १.१७०.१० ॥

这座城市就在附近,宜人而无疾病。你们应伪装在此居住,等待我的到来。

1.170.11

एवं स तान्समाश्वास्य व्यासः पार्तानरिन्दमान् ।
एकचक्रामभिगतां कुन्तीमाश्वासयत्प्रभुः ॥ १.१७०.११ ॥

如此,毗耶娑安慰了这些降伏敌人的普利塔之子;那位主也安慰了来到一轮城的贡蒂。

1.170.12

कुर्यान्न केवलं धर्मं दुष्कृतं च तथान नरः ।
सुकृतं दुष्कृतं लोके न कर्ता नास्ति कश्चन ॥ १.१७०.१२ ॥

人不应只行法,也不应行恶;世间并无行善或作恶之人。

1.170.13

अवश्यं लभते कर्ता फलं वै पुण्यपापयोः ।
दुष्कृतस्य फलेनैव प्राप्तं व्यसनमुत्तमम् ॥ १.१७०.१३ ॥

作业者必定得到功德与罪过的果报;正是因恶行的果报,这极大的灾难降临到了他身上。

1.170.14

तस्मान्माधवि मानार्हे मा च शोके मनः कृथाः ।
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने ॥ १.१७०.१४ ॥

因此,值得尊敬的摩陀维啊,不要把心放在悲伤上。说完这些,把他们安置在一位婆罗门的住所后——

1.170.15

जगाम भगवान्व्यासो यताकाममृषिः प्रभुः ॥ १.१७०.१५ ॥

世尊毗耶娑,仙人与主宰,随心所欲地离去了。