Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.174

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.174.1

कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः ।
विदित्वाप्यपकर्षेयं शक्यं चेदपकर्षितुम् ॥ १.१७४.१ ॥

我想真实地知道这痛苦的根源何在;既已知晓,若能消除,我便将其除去。

1.174.2

उपपन्नं सतामेतद्यद्ब्रवीपि तपोधने ।
न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ॥ १.१७४.२ ॥

你所说的,正合于善人,苦行丰盛的女子啊;但此苦难非凡人所能消除。

1.174.3

तथापि तत्त्वमाख्यास्ये दुःखस्यैतस्य संभवम् ।
शक्यं वा यदि वाऽशक्यं शृणु भद्रे यथातथम् ॥ १.१७४.३ ॥

尽管如此,我仍将告诉你这痛苦起源的真相;无论能否消除,吉祥的女子啊,请如实听来。

1.174.4

समीपे नगरस्यास्य वको वसति राक्षसः ।
इतो गव्यूतिमात्रे।ञस्ति यमुनागह्वरे गुहा ॥ १.१७४.४ ॥

在这座城市附近住着一个名叫钵伽的罗刹;离此一俱卢舍之遥,在阎牟那河的峡谷中有一个洞穴。

1.174.5

तस्यां घोरः स वसति जिघांसुः पुरुषादकः ।
बकाभिधानो दुष्टात्मा राक्षसानां कुलाधमः ॥ १.१७४.५ ॥

那可怕的食人者住在其中,他想要杀害,名叫钵伽,心地邪恶,是罗刹族中最卑劣的。

1.174.6

ईशो जनपदस्यास्य पुरस्य च महाबलः ।
पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः ॥ १.१७४.६ ॥

他是这个国土和这座城市的主宰,极其强大,以人肉滋养,心地邪恶,是食人者。

1.174.7

प्रबलः कामरूपी च राक्षसस्तु महाबलः ।
तेनोपसृष्टा नगरी वर्षमद्य त्रयोदशम् ॥ १.१७४.७ ॥

这个罗刹强大,能随意变化形貌,力量极大。这座城市受他所害,今日已是第十三年。

1.174.8

तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् ।
पुरुषादेन रौद्रेण भक्ष्यमाणा दुरात्मना ॥ १.१७४.८ ॥

因为他,我们不怕敌军,也不怕鬼怪;可是我们却被那残暴邪恶的食人者所吞噬。

1.174.9

अनाथा नगरी नाथं त्रातारं नाधिगच्छति ।
गुहायां च वसंस्तत्र बाधते सततं जनम् ॥ १.१७४.९ ॥

无主的城市找不到能保护它的主人;他住在那里的山洞中,不断地折磨百姓。

1.174.10

स्त्रियो बालांश्च वृद्धांश्च यूनश्चापि दुरात्मवान् ।
अत्र मन्त्रैश्च होमैश्च भोजनैश्च स राक्षसः ॥ १.१७४.१० ॥

那恶人也折磨妇女、孩童、老人和青年。在这里,借助咒语、祭火和食物供养,那罗刹得以安抚。

1.174.11

ईडितो द्विजमुख्यैश्च पूजितश्च दुरात्मवान् ।
यदा च सकलानेवं प्रसूदयति राक्षसः ॥ १.१७४.११ ॥

尽管那恶人受到诸位上等婆罗门的赞颂和供养,然而当那罗刹这样杀害并吞噬众人之时……

1.174.12

अथैनं ब्राह्मणाः सर्वे समये समयोजयन् ।
मा स्म कामाद्वधी रक्षो दास्यामस्ते सदा वयं ॥ १.१७४.१२ ॥

于是众婆罗门与他立下约定:“罗刹啊,不要因一时贪欲而杀戮;我们将永远供给你(食物)。”

1.174.13

पर्यायेण यथाकाममिह मांसोदनं प्रभो ।
अन्नं मांससमायुक्तं तिलचूर्णसमन्वितम् ॥ १.१७४.१३ ॥

主人啊,这里将轮流依你所愿供给肉饭;与肉相混、并掺有芝麻粉的食物。

1.174.14

सर्पिषा च समायुक्तं व्यञ्जनैश्च समन्वितम् ।
सूपांस्त्रीन्सतिलान्पिण्डाँल्लाजापूपसुरासवान् ॥ १.१७४.१४ ॥

与酥油相混,配以菜肴;三种羹汤,带芝麻的团子,炒米,饼,酒与烈酒。

1.174.15

शृताशृतान्पानकुम्भान्स्थूलमांसं शृताशृतम् ।
वनमाहिषवाराहभाल्लूकं च शृताशृतम् ॥ १.१७४.१५ ॥

熟的与生的;饮料之瓮;粗肉,熟的与生的;野水牛、野猪与熊之肉,熟的与生的。

1.174.16

सर्पिःकुम्भांश्च विविधान्दधिकुम्भांस्तथा बहून् ।
सद्यःसिद्धसमायुक्तं तिलचूर्णैः समाकुलम् ॥ १.१७४.१६ ॥

各种酥油瓮,也有许多凝乳瓮;配以现做的菜肴,满盛芝麻粉。

1.174.17

कुलाच्च पुरुषं चैकं बलीवर्दौ च कालकौ ।
प्राप्स्यसि त्वमसंक्रुद्धो रक्षोभागं प्रकल्पितम् ॥ १.१७४.१७ ॥

从某家你还将得到一个人和两头黑牛;不要愤怒——这是为你安排的罗刹之份。

1.174.18

तिष्ठेह समयेऽस्माकमित्ययाचन्त तं द्विजाः ।
बाढमित्येव तद्रक्षस्तद्वचः प्रत्यगृह्णत ॥ १.१७४.१८ ॥

按我们的约定留在这里——婆罗门们这样请求他;于是那罗刹说“好吧”,接受了他们的话。

1.174.19

परचक्राटवीकेभ्यो रक्षणं स करोति च ।
तस्मिन्भागे सुनिर्दिष्टे स्थितः स समये बली ॥ १.१७४.१९ ॥

他保护人们免受敌军和林中盗贼之害;这位强者在指定的那一段、按时驻守。

1.174.20

एकैकं चैव पुरुषं संप्रयच्छन्ति वेतनम् ।
स वारो बहुभिर्वर्षैर्भवत्यसुकरो नरैः ॥ १.१७४.२० ॥

他们逐个向每人征收赋税;这一轮即便经过许多年,人们也难以承受。

1.174.21

तद्विमोक्षाय ये केचिद्यतन्ते पुरुषाः क्वचित् ।
सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत ॥ १.१७४.२१ ॥

那些在某处设法摆脱此事的人,连同他们的儿子和妻子,都被那罗刹杀死吞食。

1.174.22

वेत्रकीयगृहे राजा नायं नयमिहास्थितः ।
उपायं तं न कुरुते यत्नादपि स मन्दधीः।
अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ॥ १.१७४.२२ ॥

这位住在芦苇宫中的国王在此并不坚守治国之道;那愚钝之人即便努力,也想不出能让这些百姓今日就获得长久安宁的办法。

1.174.23

एतदर्हा वचं नूनं वसामो दुर्बलस्य ये ।
विषये नित्यवास्तव्याः कुराजानमुपाश्रिताः ॥ १.१७४.२३ ॥

我们生活在软弱者统治之下,的确配得上这样的话语;我们作为这片土地的永久居民,投靠了一个坏国王。

1.174.24

ब्राह्मणाः कस्य वक्तव्याः कस्य वाच्छन्दचारिणः ।
गुणैरेते हि वत्स्यन्ति कामगाः पक्षिणो यथा ॥ १.१७४.२४ ॥

婆罗门应当向谁陈说,又随谁的心意而行?他们凭借德行而居留,好比随意飞翔的鸟儿。

1.174.25

राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् ।
राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम्।
वयस्य संचयेनास्य ज्ञातीन्पुत्रांश्च तारयेत् ॥ १.१७४.२५ ॥

应先获得国王,然后是妻子,然后是财富。若此世无王,妻子何在,财富何在?朋友,应借其积累,也救助亲属与子嗣。

1.174.26

विपीरतं मया चेदं त्रयं सर्वमुपार्जितम् ।
तदिमामापदं प्राप्य भृशं तप्यामहे वयम् ॥ १.१७४.२६ ॥

我所积累的这三样——全部——都已毁坏,陷入此灾难,我们极为痛苦。

1.174.27

सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः ।
भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया ॥ १.१७४.२७ ॥

那毁灭家族的轮次now降临于我们:为了食物,我必须以一人作为工钱给出。

1.174.28

न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित् ।
सुहृज्जनं प्रदातुं च न शक्ष्यामि कदाचन ॥ १.१७४.२८ ॥

我没有财富可以在任何地方买人,我也永远无法交出一位朋友。

1.174.29

गतिं चान्यां न पश्यामि तस्मान्मोक्षाय रक्षसः ।
सोऽहं दुःखार्णवे मग्नो महत्यसुकरे भृशम् ॥ १.१७४.२९ ॥

除了摆脱罗刹,我看不到别的出路;因此我深深沉没于这片广大而难以渡过的悲苦之海。

1.174.30

सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् ।
ततो नः सहितान्क्षुद्रः सर्वानेवोपभोक्ष्यति ॥ १.१७४.३० ॥

今日我将与这些亲属一同前往那罗刹处;否则那卑鄙者将吞食我们所有聚集在一起的人。

1.174.31

दुःखमूलमिदं भद्रे मयोक्तं प्रश्नतोऽनघे ॥ १.१७४.३१ ॥

善良的女子啊,无罪的人啊,我已应你的询问说出了这痛苦的根源。