摩诃婆罗多 · 章 1.176
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.176.1
करिष्य इति भीमेन प्रतिज्ञातेऽथ भारत ।
आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः ॥ १.१७६.१ ॥
婆罗多啊,毗摩许下诺言说“我将去做”之后,般度诸子都带着乞来的食物回来了。
1.176.2
भीमसेनं ततो दृष्ट्वा आपूर्णवदनं तथा ।
बुबोध धर्मराजस्तु हृषितं भीममच्युतम् ॥ १.१७६.२ ॥
法王见到毗摩森那面带喜色,便知道那位坚定的毗摩十分欢喜。
1.176.3
तोषस्य कारणं यत्तु मनसाऽचिन्तयद्गुरुः ।
स समीक्ष्य तदा राजन्योद्धुकामं युधिष्ठिरः ॥ १.१७६.३ ॥
大王啊,尊者坚战心中思量那喜悦的原因;观察之后,他看出毗摩想要作战。
1.176.4
आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः ।
रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् ॥ १.१७६.४ ॥
坚战仅凭其神情便认出了他,独自在一旁坐下,然后询问母亲。
1.176.5
किं चिकीर्षत्ययं कर्म भीमो भमपराक्रमः ।
भवत्यनुमते कच्चित्स्वयं वा कर्तुमिच्छति ॥ १.१७६.५ ॥
这位大勇的毗摩想要做什么事呢?是得到了您的允许,还是他自己想要去做?
1.176.6
ममैव वचनादेष करिष्यति परन्तपः ।
ब्राह्मणार्थे महत्कृत्यं मोक्षाय नगरस्य च ॥ १.१७६.६ ॥
只凭我的一句话,这位令敌人痛苦之人便会去做:为婆罗门们所做的一件大事,也为拯救城市。
1.176.7
बकाय कल्पितं पुत्र महान्तं बलिमुत्तमम् ।
भीमो भुनक्तु सुस्पष्टमप्येकाहं तपःसुतः ॥ १.१७६.७ ॥
儿啊,愿由苦行所生的怖军享用为跋迦准备的这份盛大上好的供食,哪怕只一天。
1.176.8
किमिदं साहसं तीक्ष्णं भवत्या दुष्करं कृतम् ।
परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः ॥ १.१७६.८ ॥
你所做的这一严厉而艰难的冒险究竟是什么?善人不赞许舍弃儿子。
1.176.9
कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि ।
लोकवेदविरुद्धं हि पुत्रत्यागात्कृतं त्वया ॥ १.१७६.९ ॥
为了别人的儿子,你为何想舍弃自己的儿子?舍弃儿子,你做了违背世间与吠陀的事。
1.176.10
यस्य बाहू समाश्रित्य सुखं सर्वे शयामहे ।
राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः ॥ १.१७६.१० ॥
我们全都依仗其臂膀而安然入睡,而其王国却被卑劣之人夺去,我们希望重新夺回。
1.176.11
यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः ।
न शेते रजनीः सर्वा दुःखाच्छकुनिना सह ॥ १.१७६.११ ॥
杜尔约达那与沙古尼一同思念那无限威力者的英勇,因忧愁而整夜不眠。
1.176.12
यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् ।
अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः ॥ १.१७६.१२ ॥
凭借那位英雄的勇力,我们得以从漆宫及其他恶人手中解脱,而普罗昌那被杀死。
1.176.13
यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम् ।
इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् ॥ १.१७६.१३ ॥
依仗其勇力,我们以为已经诛灭了持国之子,获得了这充满财富的大地。
1.176.14
तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया ।
कच्चिन्नु दुःखैर्बुद्धिस्ते विलुप्ता गतचेतसः ॥ १.१७६.१४ ॥
你以何种智慧决定抛弃他?是否因悲痛而心智迷乱、神志失常?
1.176.15
युधिष्ठिर न संतापस्त्वया कार्यो वृकोदरे ।
न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया ॥ १.१७६.१५ ॥
犹地希提啊,你不应为狼腹而悲伤。我做出这个决定并非因为心智软弱。
1.176.16
न च शोकेन बुद्धिः सा विलुप्ता गतचेकसः ।
इह विप्रस्य भवने वयं पुत्र सुखोषिताः।
अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ॥ १.१७६.१६ ॥
我的心智并未因悲伤而迷乱,神志也未曾丧失。孩子,我们在婆罗门的家中安然度日,不为持国之子所知,受到尊敬,心中没有愤怒。
1.176.17
तस्य प्रतिक्रिया पार्थ मयेयं प्रसमीक्षिता ।
एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ॥ १.१७६.१७ ॥
帕尔塔啊,我已仔细考虑了对他的报答。人之为人,在于不忘别人施予的恩德。
1.176.18
यावच्च कुर्यादन्योऽस्य कुर्याद्बहुगुमं ततः ।
ब्राह्मणार्थे महान्धर्मो जानामीत्थं वृकोदरे ॥ १.१७६.१८ ॥
别人为他做多少,自己就应当加倍地回报。为婆罗门而行,乃是大法,我深知此理,狼腹啊。
1.176.19
दृष्ट्वा भीमस्य विक्रान्तं तदा जतुगृहे महत् ।
हिडिम्बस्य वधाच्चैवं विश्वासो मे वृकोदरे ॥ १.१७६.१९ ॥
那时我在漆屋中见到婆罗多之子怖军的伟大勇力,又见其杀死希丁巴,因此我对狼腹(怖军)深信不疑。
1.176.20
बाह्वोर्बलं हि भीमस्य नागायुतसमं महत् ।
येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् ॥ १.१७६.२० ॥
怖军双臂中蕴含着相当于一万头象的巨大力量,你们正是凭借此力,如象一般从婆罗那婆多安然脱身。
1.176.21
वृकोदरेण सदृशो बलेनान्यो न विद्यते ।
यो व्यतीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम् ॥ १.१७६.२१ ॥
论力量,无人能与狼腹相比;在战场上,他甚至能胜过至尊者,持金刚杵的因陀罗本人。
1.176.22
जातमात्रः पुरा चैव ममाङ्कात्पतितो गिरौ ।
शरीरगौरवादस्य शिला गात्रैर्विचूर्णिता ॥ १.१७६.२२ ॥
他刚出生时,曾在山上从我怀中跌落,因身体的重量,巨石被他的肢体砸得粉碎。
1.176.23
तदहं प्रज्ञया ज्ञात्वा बलं भीमस्य पाण्डव ।
प्रतिकार्ये च विप्रस्य ततः कृतवती मतिम् ॥ १.१७६.२३ ॥
因此,婆罗多之子啊,我以智慧得知怖军之力,为了解除婆罗门的苦难,我便下定了决心。
1.176.24
नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् ।
बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया ॥ १.१७६.२४ ॥
此举并非出于贪欲,也非出于无知或迷惑,而是我以深思熟虑的智慧,为了正法而做出的决定。
1.176.25
अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः ।
प्रतीकारश्च वासस्य धर्मश्च चरितो महान् ॥ १.१७६.२५ ॥
喝,坚战!未来的两个目标都已成就:衣服之事得到了补救,伟大的法也已奉行。
1.176.26
यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित् ।
क्षत्रियः स शुभाँल्लोकानाप्नुयादिति मे मतिः ॥ १.१७६.२६ ॥
刹帝利若在任何时候于事务中帮助婆罗门,便能获得吉祥的世界——这是我的看法。
1.176.27
क्षत्रियस्यैव कुर्वाणः क्षत्रियो वधमोक्षणम् ।
विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च ॥ १.१७६.२७ ॥
刹帝利为刹帝利行杀戮与解救之事,便在今世与来世获得广大的名声。
1.176.28
वैश्यस्यार्थे च साहाय्यं कुर्वाणः क्षत्रियो भुवि ।
स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् ॥ १.१७६.२८ ॥
大地上的刹帝利若帮助吠舍处理事务,必定能在一切世界中令臣民欢喜。
1.176.29
शूद्रं तु मोचयेद्राजा शरणार्थिनमागतम् ।
प्राप्नोतीह कुले जन्म सद्द्रव्ये राजपूजिते ॥ १.१७६.२९ ॥
国王应当解救前来寻求庇护的首陀罗;他在此生便投生于富有、受国王尊敬的家族。
1.176.30
एवं मां भगवान्व्यासः पुरा पौरवनन्दन ।
प्रोवाचासुकरप्रज्ञस्तस्मादेवं चिकीर्षितम् ॥ १.१७६.३० ॥
波卢婆族的欢喜者啊,往昔智慧罕见的世尊毗耶娑曾这样对我说;因此这件事当依此而行。