Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.18

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.18.1

ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम् ।
मन्दरं पर्वतवरं लताजालसमाकुलम् ॥ १.१८.१ ॥

于是,山中之最的曼陀罗山,以如云般的峰顶装饰,布满藤蔓的罗网。

1.18.2

नानाविहंगसंघुष्टं नानादंष्ट्रिसमाकुलम् ।
किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ॥ १.१८.२ ॥

群鸟鸣声回荡,多有利齿之兽栖居,紧那罗、阿普萨拉及诸天常来侍奉。

1.18.3

एकादश सहस्राणि योजनानां समुच्छ्रितम् ।
अधोभूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ॥ १.१८.३ ॥

它高耸一万一千由旬,地下同样深入数千由旬而稳固立住。

1.18.4

तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा ।
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ॥ १.१८.४ ॥

此时诸天众神都无法将其举起,便走到端坐的毗湿奴与梵天面前,说了这些话。

1.18.5

भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् ।
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ॥ १.१८.५ ॥

请二位在此定下至善的最高决断,为了我们的福祉,努力将曼陀罗山抬起。

1.18.6

तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव ।
अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः ॥ १.१८.६ ॥

婆利伽婆啊,毗湿奴——莲花眼、无量自性者——与梵天一同说:“就这样吧”,并催促蛇王。

1.18.7

ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ।
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ॥ १.१८.७ ॥

于是,被梵天催促、又得到那罗延对此事的吩咐,无限者起身;他威力强大。

1.18.8

अथ पर्वतराजानं तमनन्तो महाबलः ।
उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ॥ १.१८.८ ॥

于是大力的无限者,婆罗门啊,强行拔起那座山王——居于林中的曼陀罗山。

1.18.9

ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे ।
तमूचुरमृतस्यार्थे निर्मथिष्यामहे जलम् ॥ १.१८.९ ॥

于是诸神与他一同来到大海边,对他说:“为了甘露,我们要搅动这海水。”

1.18.10

अपांपतिरथोवाच ममाप्यंशो भवेत्ततः ।
सोढाऽस्मि विपुलं मर्दं मन्दरभ्रमणादिति ॥ १.१८.१० ॥

于是水主说:“我也应有一份。因曼陀罗山旋转而生的巨大搅动,我将承受。”

1.18.11

ऊचुश्च कूर्मराजानमकूपारे सुरासुराः ।
अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति ॥ १.१८.११ ॥

诸天与阿修罗对海中的龟王说:“你应当成为这座山的基座。”

1.18.12

कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् ।
तं शैलं तस्य पृष्ठस्थं वज्रेणेन्द्रोऽभ्यपीडयत् ॥ १.१८.१२ ॥

龟王说:“就这样吧。”便将自己的背献上。因陀罗便用金刚杵压住了那座立于其背上的山。

1.18.13

मन्थानं मन्दरं कृत्वा तथा योक्त्रं च वासुकिम् ।
देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्।
अमृतार्थे पुरा ब्रह्मस्तथैवासुरदानवाः ॥ १.१८.१३ ॥

以曼陀罗山为搅棒,以婆苏吉蛇为绳,诸天开始搅动海洋——水的宝库。婆罗门啊,往昔阿修罗与檀那婆亦同样(参与)以求甘露。

1.18.14

एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः ॥ १.१८.१४ ॥

在一端,大阿修罗紧紧抓住蛇王。

1.18.15

विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ।
अनन्तो भगवान्देवो यतो नारायणः स्थितः ॥ १.१८.१५ ॥

诸天众聚集在蛇尾所在之处;世尊阿难陀神在那纳罗衍那所立之处。

1.18.16

वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः ।
शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपन् ॥ १.१८.१६ ॥

大阿修罗紧抓婆苏吉的前端;他们举起蛇头,一次又一次地将其拉下。

1.18.17

वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः ।
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥ १.१८.१७ ॥

那时,婆苏吉蛇被阿修罗们突然拉扯,其口中一次又一次地迸出夹带烟焰的旋风。

1.18.18

वासुकेर्मथ्यमानस्य निःसृतेन विषेण च ।
अभवन्मिश्रितं तोयं तदा भार्गवनन्दन ॥ १.१८.१८ ॥

婆罗高之子啊,那时水与从被搅动的婆苏吉身上放出的毒液混合了。

1.18.19

मथनान्मन्दरेणाथ देवदानवबाहुभिः ।
विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम् ॥ १.१८.१९ ॥

随后以曼达拉山搅动之时,诸天与阿修罗以臂力搅出一种猛烈的毒,名为哈拉哈拉。

1.18.20

देवाश्च दानवाश्चैव दग्धाश्चैव विषेण ह ।
अपाक्रामंस्ततो भीता विषादमगमंस्तदा ॥ १.१८.२० ॥

诸天与阿修罗为毒所烧;于是惊惧退去,当时陷入了忧愁。

1.18.21

ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुंगवैः ।
मथ्यमानेऽमृते जातं विषं कालानलप्रभम् ॥ १.१८.२१ ॥

诸天与最上的仙人聚集,对梵天说:搅动甘露之时,生出一种如劫末之火般光辉的毒。

1.18.22

तेनैव तापिता लोकास्तस्य प्रतिकुरुष्वह ।
एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम् ॥ १.१८.२२ ॥

世界因它而被灼烧;请设法应对。如此被请求后,梵天专注地冥想世界之主哈罗。

1.18.23

त्र्यक्षं त्रिशूलिनं रुद्रे देवदेवमुमापतिम् ।
तदाऽथ चिन्तितो देवस्तज्ज्ञात्वा द्रुतमाययौ ॥ १.१८.२३ ॥

梵天冥想三目、持三叉戟的楼陀罗,诸神之神,乌玛之主。那时被冥想的神知晓此事,迅速前来。

1.18.24

तस्याथ देवस्तत्सर्वमाचचक्षे प्रजापतिः ।
तच्छ्रुत्वा दवेदेवेशो लोकस्यास्य हितेप्सया ॥ १.१८.२४ ॥

于是生主将一切告诉了那位神。天神之主听闻后,出于利益此世界的愿望,便采取了行动。

1.18.25

अपिबत्तद्विषं रुद्रः कालानलसमप्रभम् ।
कण्ठे स्थापितवान्देवो लोकानां हितकाम्यया ॥ १.१८.२५ ॥

楼陀罗饮下了那毒液,它光芒如时间之火。为了世界的福祉,这位神将它留在喉中。

1.18.26

यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः ।
पीतमात्रे विषे तत्र रुद्रेणामिततेजसा ॥ १.१८.२६ ॥

因为他的喉咙呈现蓝色,他被称为青颈(Nīlakaṇṭha)。毒液刚被饮下,无限光辉的楼陀罗便将它留在了那里。

1.18.27

देवाः प्रीताः पुनर्जग्मुश्चक्रुर्वै कर्म तत्तथा ।
मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः ॥ १.१८.२७ ॥

诸神欣喜地返回,再次按照那样做了那件事;为了不死甘露,天神与檀那婆再次搅动。

1.18.28

वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः ।
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥ १.१८.२८ ॥

阿修罗突然拖拽蛇王婆苏吉时,从他的口中一次又一次喷出夹带烟焰的狂风。

1.18.29

ते धूमसङ्घाः संभूता मेघसङ्घाः सविद्युतः ।
अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान् ॥ १.१८.२९ ॥

那些烟雾升腾后化为夹带闪电的云团,向被疲劳与炽热折磨得憔悴的诸神大军降下雨水。

1.18.30

तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः ।
सुरासुरगणान्सर्वान्समन्तात्समवाकिरन् ॥ १.१८.३० ॥

从那座山峰顶端落下的花雨,从四面八方洒向所有天神与阿修罗的大军。

1.18.31

बभूवात्र महान्नादो महामेघरवोपमः ।
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥ १.१८.३१ ॥

此时,诸天与阿修罗以曼陀罗山搅动大海,发出如大雷云般的巨大轰鸣。

1.18.32

तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा ।
विलयं समुपाजग्मुः शतशो लवणाम्भसि ॥ १.१८.३२ ॥

其中被大山碾碎的各种水生生物,成百上千地在咸水中灭亡了。

1.18.33

वारुणानि च भूतानि विविधानि महीधरः ।
पातालतलवासीनि विलयं समुपानयत् ॥ १.१८.३३ ॥

那座山又使居于地底深处、属于伐楼那的各类生灵走向灭亡。

1.18.34

तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम् ।
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ॥ १.१८.३४ ॥

当那座山被翻转时,大树与其上的飞鸟相互摩擦,从山峰上纷纷坠落。

1.18.35

तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः ।
विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ॥ १.१८.३५ ॥

由它们摩擦而生的火焰,屡屡燃起火舌,如同带着闪电的乌云,笼罩了曼陀罗山。

1.18.36

ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान् ।
विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥ १.१८.३६ ॥

它烧死了从那里冲出的象群与狮子,所有各类生灵都失去了生命。

1.18.37

तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः ।
वारिणा मेघजेनेन्द्रः शमयामास सर्वशः ॥ १.१८.३७ ॥

众神中最殊胜的因陀罗,用云中生出的水,将四处燃烧的那火完全熄灭了。

1.18.38

ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि ।
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥ १.१८.३८ ॥

于是,大海的水中流入了各种大树的树脂和许多草药的汁液。

1.18.39

तेषाममृतवीर्याणां रसानां पयसैव च ।
अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ॥ १.१८.३९ ॥

凭借那些具有甘露之力的汁液、乳汁,以及黄金的流出,诸神获得了不死。

1.18.40

ततस्तस्य समुद्रस्य तञ्जातमुदकं पयः ।
रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्धृतम् ॥ १.१८.४० ॥

随后,大海的那水变成了乳,与上好的汁液混合,从乳中便生出了酥油。

1.18.41

ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् ।
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ॥ १.१८.४१ ॥

于是,诸神对端坐的赐予恩惠的梵天说:“梵天啊,我们已极为疲惫;那甘露至今尚未涌现。”

1.18.42

ऋते नारायणं देवं सर्वेऽन्ये देवदानवाः ।
चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ॥ १.१८.४२ ॥

除了神那罗延,其余诸神与阿修罗——这搅动大海之事早已开始,然而。

1.18.43

ग्लानिरस्मान्समाविष्टा न चात्रामृतमत्थितम् ।
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥ १.१८.४३ ॥

疲惫笼罩了我们,这里也没有得到甘露。诸神的话语被听到后,世界祖父梵天(思索起来)。

1.18.44

ततो नारायणं देवं वचनं चेदमब्रवीत् ।
विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ॥ १.१८.४४ ॥

于是他对天神那罗延说了这些话:“毗湿奴啊,赐予他们力量;在此你就是他们的归依。”

1.18.45

बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः ।
क्षोभ्यतां कलशः सर्वैमन्दरः परिवर्त्यताम् ॥ १.१८.४५ ॥

“我赐予所有从事此事的人力量。愿大家搅动海洋,愿曼陀罗山被转动!”

1.18.46

नारायणवचः श्रुत्वा बलिनस्ते महोदधेः ।
तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ॥ १.१८.४६ ॥

闻听那罗延之言,那些大力者与大海之水一道,再次使其极度翻腾激荡。

1.18.47

तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः ।
प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता।
कृष्णरूपधरा देवी सर्वाभरणभूषिता ॥ १.१८.४७ ॥

那里先生出毒药;依梵天之言,湿婆为护佑世界而饮下了它。随后,黑色形相、饰以一切装饰的女神耆湿陀(Jyeṣṭhā)升起。

1.18.48

ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात् ।
प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ॥ १.१८.४८ ॥

随后,从被搅动的大海中生出了月神苏摩——心性澄明、千道光芒、清凉光辉而明亮。

1.18.49

श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी ।
सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ॥ १.१८.४९ ॥

此后,从如酥油般被搅动的海洋中,身着白衣的吉祥天女(Śrī)诞生;女神苏罗(Surā)诞生,白色的神马也同样诞生。

1.18.50

कौस्तुभस्तु मणिर्दिव्य उत्पन्नो घृतसंभवः ।
मरीचिविकचः श्रीमान्नारायणउरोगतः ॥ १.१८.५० ॥

从如酥油般的海洋中,诞生了神圣的宝石考斯图巴(Kaustubha),光芒闪耀,它落在那罗延(Nārāyaṇa)的胸前。

1.18.51

श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः ।
पारिजातश्च तत्रैव सुरभिश्च महामुने।
जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ ॥ १.१८.५१ ॥

吉祥天女、苏罗、月神、迅如意念的神马、波利耶多树,以及苏罗毗(Surabhi)也都在那里诞生。大仙啊,婆罗门啊,那时诞生了这两件能赐予一切愿望之果的神物。

1.18.52

ततो जज्ञे महाकायश्चतुर्दन्तो महागजः ।
कपिला कामवृक्षश्च कौस्तुभश्चाप्सरोगणः।
यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ॥ १.१८.५२ ॥

随后诞生了身躯庞大、有四根象牙的大象;又诞生了迦毗罗牛、如意树、考斯图巴宝和众阿普莎拉斯。于是诸神沿着太阳之路离去。

1.18.53

धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत ।
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ॥ १.१८.५३ ॥

随后,神医诃陀里(Dhanvantari)以肉身显现,手持盛有甘露的白色水瓶。

1.18.54

एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः ।
अमृतार्थे महान्नादो ममेदमिति जल्पताम् ॥ १.१८.५४ ॥

众达那婆见此极其奇妙的景象,为了甘露而爆发出巨大的喧嚷,他们高喊:“这是我的!”

1.18.55

ततो नारायणो मायां मोहिनीं समुपाश्रितः ।
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ॥ १.१८.५५ ॥

于是那罗延借助迷惑人的幻力,化作奇妙的女子之身,走近了达那婆。

1.18.56

ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः ।
स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥ १.१८.५६ ॥

于是那些心智迷乱、心神全系于她的达那婆与提迪,都把甘露交给了那女子。

1.18.57

सा तु नारायणी माया धारयन्ती कमण्डलुम् ।
आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः ॥ १.१८.५७ ॥

那位那罗延娜的幻化之女手持水瓶,当提迪们排成一行而坐时,她却坐在达那婆们的对面。

1.18.58

देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः ॥ १.१८.५८ ॥

女神让诸神饮下甘露,却没有给提迪;他们便大声喊叫起来。