摩诃婆罗多 · 章 1.181
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.181.1
अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् ।
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥ १.१८१.१ ॥
国王德鲁帕达按捺不住愤怒,在许多婆罗门的修行处中游走,寻找精通祭仪的婆罗门中的俊杰。
1.181.2
पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः ।
द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरन्सदा।
नास्ति श्रेष्ठमपत्यं म इति नित्यमचिन्तयत् ॥ १.१८१.२ ॥
渴望有子,心神被悲伤所困,德鲁帕达始终无法入睡,常常记挂着与德罗纳的仇怨。他时常思忖:“我没有优秀的子嗣。”
1.181.3
जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् ।
निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ॥ १.१८१.३ ॥
看着已出生的儿子们,他厌恶地说:“这些亲属真可耻!”他常常长叹,心中只想着向德罗纳报复。
1.181.4
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च ।
क्षात्रेण च बलेनास्य चिन्तयन्नाध्यगच्छत ॥ १.१८१.४ ॥
他思索德罗纳的威力、谦逊、学问、德行以及他的刹帝利之力,却找不到办法。
1.181.5
प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ।
अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् ॥ १.१८१.५ ॥
婆罗多之子啊,这位最优秀的国王虽然竭力想要报复,却仍在恒河岸边的卡尔玛西四周游荡。
1.181.6
ब्राह्मणावसथं पुम्यमाससाद महीपतिः ।
तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः ॥ १.१८१.६ ॥
这位大地之主来到一处神圣的婆罗门修行处。那里没有一位婆罗门是未完成沐浴礼的,也没有一位是没有誓愿的。
1.181.7
अधीयानौ महाभागौ सोऽपश्यत्संशितव्रतौ ।
याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ परमेष्ठिनौ ॥ १.१८१.७ ॥
他看见了婆罗门仙人耶阇与优婆耶阇,二人专心学习,大福大德,持守坚定的誓愿,平静安详,地位至尊。
1.181.8
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ।
तारणेयौ युक्तरूपौ ब्राह्मणावृषिसत्तमौ ॥ १.१८१.८ ॥
两位婆罗门,专心研习本集,按氏族属迦叶与达罗那一系,仪表端正,是仙人中最优秀者。
1.181.9
स तावामन्त्रयामास सर्वकामैरतन्द्रितः ।
बुद्ध्वा बलं तयोस्तत्र कनीयांसमुपह्वरे ॥ १.१८१.९ ॥
他不知疲倦地以满足一切所愿之姿与二人交谈;在那里的僻静处了解了他们的力量之后,便去找年幼者。
1.181.10
प्रपेदे च्छन्दयन्कामैरुपयाजं धृतव्रतम् ।
पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः ॥ १.१८१.१० ॥
以各种愿望讨好,他亲近持守誓愿的优婆耶阇;专心侍奉其足,言辞温和,满足一切愿望。
1.181.11
अर्चयित्वा यथान्यायमुपयाजमुवाच सः ।
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे ॥ १.१८१.११ ॥
他依礼恭敬之后,对优婆耶阇说:"婆罗门啊,以何种祭仪,我能得一子,以致杀死德罗纳?"
1.181.12
अर्जुनस्य भवेद्भार्या भवेद्या वरवर्णिनी ।
उपयाज कृते तस्मिन् गवां दाताऽस्मि तेऽर्बुदं ॥ १.१८१.१२ ॥
愿阿周那得一位肤色优美的妻子。优婆耶阇啊,事成之后,我将赠你一亿头牛。
1.181.13
यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् ।
सर्वं तत्ते प्रदाताऽहं न हि मेऽत्रास्ति संशयः ॥ १.१८१.१३ ॥
啊,再生者中最优秀的人!无论你心中还有什么极为珍爱之物,我都将全部给你;对此我毫无疑问。
1.181.14
इत्युक्तो नाहमित्येवं तमृषिः प्रत्यभाषत ।
आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ॥ १.१८१.१४ ॥
被这样说之后,那位仙人仍回答:“我不是。”于是德鲁帕达想要取悦他,便再次侍奉他。
1.181.15
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः ।
उपयाजोऽब्रवीत्काले राजन्मधुरया गिरा ॥ १.१८१.१५ ॥
此后,满一年之末,那位再生者中最优秀的优帕雅阁,于适当的时候,以甜美的言语对德鲁帕达说道:大王啊。
1.181.16
ज्येष्ठो भ्राता ममागृह्माद्विचरन् गहने वने ।
अपरिज्ञातशौचायां भूमौ निपतितं फलम् ॥ १.१८१.१६ ॥
我的长兄在茂密的森林中漫游,拾起了一颗落在不知是否洁净的地上的果实。
1.181.17
तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन् ।
विमर्शं संकरादाने नायं कुर्यात्कदाचन ॥ १.१८१.१७ ॥
我跟随兄长时看见了这一幕。取用混杂之物时,他从不加以思量;他绝不应当如此行事。
1.181.18
दृष्ट्वा फलस्य नापश्यद्दोषान्पापानुबन्धकान् ।
विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ॥ १.१८१.१८ ॥
见到果实却看不见那些导致罪过的过失,又不分辨洁净与否的人,在别处又怎会有所不同呢?
1.181.19
संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः ।
भैक्षमुत्सृष्टमन्येषां भुङ्क्ते स्म च यदा तदा ॥ १.१८१.१९ ॥
当那个在师父家中居住、学习本集的人,吃了别人剩下的乞食时,那时……
1.181.20
कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः ।
तं वै फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा ॥ १.१८१.२० ॥
我以理性之眼看,那个反复称赞食物之美且不知羞耻的人,是一位追求回报的兄弟。
1.181.21
तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ।
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् ॥ १.१८१.२१ ॥
国王啊,你去找他吧,他会替你主持祭祀。国王心怀厌恶,在心中反复思量此事。
1.181.22
उपयाजवचः श्रुत्वा याजस्याश्रममभ्यगात् ।
अभिसम्पूज्य पूजार्हमथ याजमुवाच ह ॥ १.१८१.२२ ॥
他听了优帕雅阇的话,便来到雅阇的修行处;充分礼敬了值得尊崇的雅阇之后,对他说道。
1.181.23
अयुतानि ददान्यष्टौ गवां याजय मां विभो ।
द्रोणवैराभिसन्तप्तं प्रह्लादयितुमर्हसि ॥ १.१८१.२३ ॥
大力者啊,我将施予八阿由塔的牛——请为我主持祭祀。被对德罗纳的仇恨所煎熬的我,你应当使我欢喜。
1.181.24
स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः ।
तस्माद्द्रोणः पराजैष्ट मां वै स सखिविग्रहे ॥ १.१८१.२४ ॥
他是通晓梵者中最优秀的,即便在梵天神箭上也无人能及。因此在朋友的争斗中,德罗纳战胜了我。
1.181.25
क्षत्रियो नास्ति तस्यास्यां पृथिव्यां कश्चिदग्रणीः ।
कौरवाचायर्मुख्यस्य भारद्वाजस्य धीमतः ॥ १.१८१.२५ ॥
在这片大地上没有比他更优秀的刹帝利,即便是考罗婆的首席导师、智慧的婆罗堕遮(德罗纳)也不及。
1.181.26
द्रोणस्य शरजालानि प्राणिदेहहराणि च ।
षडरत्नि धनुश्चास्य दृश्यते परमं महत् ॥ १.१८१.२६ ॥
德罗纳那夺取众生身躯的箭网,以及他长六肘的至高大弓,清晰可见。
1.181.27
स हि ब्राह्मणवेषेण क्षात्रं वेगमशंसयम् ।
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ॥ १.१८१.२७ ॥
他以婆罗门的形象,无疑能遏止刹帝利的冲势——那位大弓箭手、心胸宽广的婆罗堕遮。
1.181.28
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः ।
तस्य ह्यस्त्रबलं घोरमप्रधृष्यं नरैर्भुवि ॥ १.१८१.२८ ॥
他宛如受命毁灭刹帝利的遮摩陀耆尼之子(持斧罗摩),屹立不动;他的武器之力可怖,大地上的凡人无法战胜。
1.181.29
ब्राह्मं सन्धारयंस्तेजो हुताहुतिरिवानलः ।
समेत्य स दहत्याजौ क्षात्रधर्मपुरःसरः ॥ १.१८१.२९ ॥
他承载着婆罗门的光辉,如同被注入供品的火焰,在刹帝利之法的引导下赴战场,并将一切焚毁。
1.181.30
ब्रह्मक्षत्रे च विहिते ब्राह्मं तेजो विशिष्यते ।
सोऽहं क्षात्राद्बलाद्धीनो ब्राह्मं तेजः प्रपेदिवान् ॥ १.१८१.३० ॥
婆罗门与刹帝利虽各有其职,婆罗门的光辉仍被视为更高;我缺乏刹帝利之力,因此投身于婆罗门的光辉。
1.181.31
द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ।
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् ॥ १.१८१.३१ ॥
我来到您这位胜过德罗纳、最精通梵学的人面前,愿得一子,此子战时无人能敌,能够杀死德罗纳。
1.181.32
तत्कर्म कुरु मे मे याज वितराम्यर्बुदं गवाम् ।
तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् ॥ १.१८१.३२ ॥
请为我行那祭仪,我将赠予你一亿头牛。雅阇说“就这样”,便着手准备祭祀所需之物。
1.181.33
गुर्वर्थ इति चाकाममुपयाजमचोदयत् ।
याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ॥ १.१८१.३३ ॥
他说“这是为了师尊”,虽然优波阇不情愿,仍催促他行事;雅阇也同样立誓要毁灭德罗纳。
1.181.34
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः ।
आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ॥ १.१८१.३४ ॥
于是大苦行者优波阇向那位国王讲说了为求子嗣而行的吠檀那祭仪。
1.181.35
स च पुत्रो महावीर्यो महातेजा महाबलः ।
इष्यते यद्विधो राजन्भविता ते तथाविधः ॥ १.१८१.३५ ॥
国王啊,那儿子将具有大勇、大威光和大力;你所希望的那样的儿子,将会属于你。
1.181.36
भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूपतिः ।
आजह्वे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ॥ १.१८१.३६ ॥
那位国王德鲁帕达怀着杀死婆罗堕阇之子(德罗纳)的意图,为使祭仪成功,便照此一切加以召请。
1.181.37
याजस्तु हवनस्यान्ते देवीमाज्ञापयत्तदा ।
प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ॥ १.१८१.३७ ॥
祭祀将毕之时,祭司耶阇随即命令王后:“来我这里,王后普利沙提;这一对已在你面前。”
1.181.38
अवलिप्तं मुखं ब्रह्मन्दिव्यान्गन्धान्बिभर्मि च ।
सूतार्थे नोपलब्धाऽस्मि तिष्ठ याज मम प्रिये ॥ १.१८१.३८ ॥
王后说:“婆罗门啊,我的脸已涂上香膏,我佩戴着神圣的香气;我尚未被寻得给御者。耶阇啊,留下,我的爱人。”
1.181.39
याजेन श्रपितं हव्यमुपयाजाभिमन्त्रितम् ।
कथं कामं न सन्दध्यात्सा त्वं विप्रेहि तिष्ठ वा ॥ १.१८१.३९ ॥
耶阇说:“由耶阇烹煮、由副祭司加持咒语的供品,难道不能满足她的心愿吗?你来吧,婆罗门,或留下。”
1.181.40
एवमुक्त्वा तु याजेन हुते हविषि संस्कृते ।
उत्तस्थौ पावकात्तस्मात्कुमारो देवसन्निभिः ॥ १.१८१.४० ॥
耶阇如此说完,供品已献上并受加持,从那火中便升起一位如神一般的少年。
1.181.41
ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् ।
बिभ्रत्सखङ्गः सशरो धनुष्मान्विनदन्मुहुः ॥ १.१८१.४१ ॥
光焰之色,形貌可怖,戴着王冠,身披上好的铠甲,手持剑、箭与弓,一再地怒吼。
1.181.42
सोऽध्यारोदद्रथवरं तेन च प्रययौ तदा ।
ततः प्रणेदुः पञ्चालाः प्रहृष्टाः साधुसाध्विति ॥ १.१८१.४२ ॥
他登上了那辆上好的战车,随后便驾车出发。于是欢喜的般遮罗人高声呼喊:“善哉,善哉!”
1.181.43
हर्षाविष्टांस्ततश्चैतान्नेयं सेहे वसुन्धरा ।
भयापहो राजपुत्रः पञ्चालानां यशस्करः ॥ १.१८१.४३ ॥
那时大地无法承受这些充满喜悦的人。这位消除恐惧、为般遮罗人带来荣耀的王子(诞生了)。
1.181.44
राज्ञः शोकापहो जात एष द्रोणवधाय वै ।
इत्युवाच महद्भूतमदृश्यं खेचरं तदा ॥ १.१८१.४४ ॥
消除国王忧愁的此子确实是为杀害德罗纳而生的,当时一位在空中游行的无形大神如此说道。
1.181.45
कुमारी चापि पाञ्चाली वेदीमध्यात्समुत्थिता ।
सुभगा दर्शनीयाङ्गी स्वसितायतलोचना ॥ १.१८१.४५ ॥
从祭坛中央也升起了少女般遮罗公主,她幸福美丽,眼睛白皙而宽大。
1.181.46
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा ।
ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा ॥ १.१८१.४६ ॥
肤色黝黑,眼如莲花花瓣,发丝乌黑卷曲,指甲高挺呈铜色,眉目清秀,双乳美好丰满。
1.181.47
मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ।
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रधावति ॥ १.१८१.४७ ॥
她虽然取了人身,却真正具有天神的容色;她的香气如同青莲,传播达一俱卢舍之远。
1.181.48
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ।
देवदानवयक्षाणामीप्सितां देवरूपिणीम् ॥ १.१८१.४८ ॥
她拥有至上之美,大地上无可相比;为天神、檀那伐和夜叉所渴求,具有神明之形。
1.181.49
सदृशी पाण्डुपुत्रस्य अर्जुनस्येति भारत ।
ऊचुः प्रहृष्टमनसो राजभक्तिपुरस्कृताः ॥ १.१८१.४९ ॥
婆罗多啊,他们心中欢喜,出于对国王的忠诚,说:“她正适合般度之子阿周那。”
1.181.50
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी ।
सर्वयोषिद्वरा कृष्णा निनीषुः क्षत्रियान्क्षयम् ॥ १.१८१.५० ॥
关于这个刚出生的美丽纤腰女子,一个无形之声说道:黑天女,诸女中最优秀者,欲使刹帝利走向毁灭。
1.181.51
सुरकार्यमियं काले करिष्यति सुमध्यमा ।
अस्या हेतोः कौरवाणां महदुत्पत्स्यते भयम् ॥ १.१८१.५१ ॥
这位纤腰女子将在适当的时候完成诸神的使命;因她之故,俱卢族将生出巨大的恐惧。
1.181.52
तच्छ्रुत्वा सर्वपञ्चालाः प्रणेदुः सिंहसङ्घवत् ।
न चैतान्हर्षसम्पूर्णानियं सेहे वसुन्धरा ॥ १.१८१.५२ ॥
闻此,所有般遮罗人如狮群般吼叫。充满喜悦的他们,连大地也无法承受。
1.181.53
पाञ्चालराजस्तां दृष्ट्वा हर्षादश्रूण्यवर्तयत् ।
परिष्वज्य च तां कृष्णां स्नुषा पाण्डोरिति ब्रुवन्।
अङ्कमारोप्य पाञ्चालीं राजा हर्षमवाप सः ॥ १.१८१.५३ ॥
般遮罗王见到她,喜极而泣;他拥抱黑天女,说:“她是般度的儿媳。”遂将这位般遮罗女子抱置膝上,国王得到了极大的喜悦。
1.181.54
तौ दृष्ट्वा पार्षती याजं प्रपेदे वै सुतार्थिनी ।
न वै मदन्यां जननीं जानीयातामिमाविति ॥ १.१८१.५४ ॥
她见到那二人,渴望得子,便求助于耶阇,心想:“这二人不应认他人为母,只应认我为母。”
1.181.55
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया ।
तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः ॥ १.१८१.५५ ॥
为了让国王高兴,祭司耶阇对她说:“就这样吧。”心满意足的婆罗门为这两人取了名字。
1.181.56
धृष्टत्वादत्यमर्षित्वाद्द्युम्नाद्युत्संभवादपि ।
धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥ १.१८१.५६ ॥
“因为他勇敢、极其愤怒,又从光耀中诞生,愿这位王子名为德里斯塔俱姆那,是德鲁帕达之子。”
1.181.57
कृष्णेत्येवाब्रुवकन्कृष्णां कृष्णा।ञभूत्सा हि वर्णतः ।
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥ १.१८१.५७ ॥
他们称她为“黑天女”,因为她的肤色确实黑。就这样,那一对孪生子在德鲁帕达的大祭祀中诞生了。
1.181.58
वैदिकाध्ययने पारं धृष्टद्युम्नो गतः परम् ॥ १.१८१.५८ ॥
德里斯塔俱姆那圆满精通了吠陀的学习。
1.181.59
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम् ।
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥ १.१८१.५९ ॥
婆罗堕阇的英勇之子把般遮罗王子德里斯塔俱姆那带回自己家中,开始教他使用兵器的技艺。
1.181.60
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः ।
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥ १.१८१.६० ॥
德罗纳大智,认为天命不可逆转、注定之事终将发生,为了维护自己的名声,便这样做了。