Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.182

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.182.1

श्रुत्वा जतुगृहे वृत्तं ब्राह्मणाः संशितव्रताः ।
पाञ्चालराजं द्रुपदमिदं वचनमब्रुवन् ॥ १.१८२.१ ॥

婆罗门们听闻蜡宫之事,皆持坚定誓愿,便对般遮罗王德鲁帕达说了这番话。

1.182.2

धार्तराष्ट्राः सहामात्या मन्त्रयित्वा परस्परम् ।
पाण्डवानां विनाशाय मतिं चक्रुः सुदुष्कराम् ॥ १.१८२.२ ॥

持国王的众子与大臣们彼此商议,谋划了一个极难实施的计划,要毁灭般度之子。

1.182.3

दुर्योधनेन प्रहितः पुरोचन इति श्रुतः ।
वारणावतमासाद्य कृत्वा जतुगृहं महत् ॥ १.१८२.३ ॥

被难敌派遣的、名叫普罗昌那的人抵达了婆罗那瓦塔,并在那里建造了一座大蜡宫。

1.182.4

तस्मिन्गृहे सुविस्रब्धान्पाण्डवान्पृथया सह ।
अर्धरात्रे महाराज दग्धवानतिदुर्मतिः ॥ १.१८२.४ ॥

大王啊,那个极其恶毒的人在午夜焚烧了那座房屋,里面的般度之子与普利塔一起,正安心地睡着。

1.182.5

तेनाग्निना स्वयं चापि दग्धः क्षुद्रो नृशंसवत् ।
एतच्छ्रुत्वा सुसंहृष्टो धृतराष्ट्रः सबान्धवः ॥ १.१८२.५ ॥

那卑劣之人也在同一场大火中自焚,仿佛是残忍的果报。听到此事,持国王与亲族都极为欢喜。

1.182.6

अल्पशोकः प्रहृष्टात्मा शशास विदुरं तदा ।
पाण्डवानां महाप्राज्ञ कुरु पिण्डोदकक्रियाम् ॥ १.१८२.६ ॥

持国王心中略有悲伤,却怀着喜悦,便对毗undra说:「大智者啊,为般度之子举行饭团与水的祭奠吧。」

1.182.7

अहो विधिवशादेव गतास्ते यमसादनम् ।
इत्युक्त्वा प्रारदत्तत्र धृतराष्ट्रः सबान्धवः ॥ १.१८२.७ ॥

唉!他们因命运之力已经去了阎摩之居。说完这话,持国与亲族们便在那里哭泣起来。

1.182.8

श्रुत्वा भीष्मेण विदुरः कृतवानौर्ध्वदेहिकम् ।
पाण्डवानां विनाशाय कृतं कर्म दुरात्मना ॥ १.१८२.८ ॥

维杜罗从毗湿摩处听说后,为般度之子举行了葬礼仪式。这恶念之人做了此事,意在毁灭般度五子。

1.182.9

एतत्कार्यस्य कर्ता तु न दृष्टो न श्रुतः पुरा ।
एतद्वृत्तं महाभाग पाण्डवान्प्रति नः श्रुतम् ॥ १.१८२.९ ॥

此事的作恶者,从前既未曾见,也未曾闻。大福之人啊,关于般度之子的这件事,我们已经听说了。

1.182.10

श्रुत्वा तु वचनं तेषां यज्ञसेनो महामतिः ।
यथा तज्जनकः शोचेदौरसस्य विनाशे ॥ १.१८२.१० ॥

听闻他们的话,大智慧的祭军(德鲁帕达)悲痛起来,如同父亲为亲生儿子的毁灭而哀伤。

1.182.11

तथाऽतप्यत वै राजा पाण्डवानां विनाशने ।
समाहूय प्रकृतयः सहिताः सर्वनागरैः ॥ १.१८२.११ ॥

国王因般度之子的毁灭而深感痛苦。他召集了大臣和全体城民。

1.182.12

कारुण्यादेव पाञ्चालः प्रोवाचेदं वचस्तदा ।
अहो रूपमहो धैर्यमहो वीर्यमहो बलम् ॥ १.१८२.१२ ॥

般遮罗王出于怜悯,便说出了这些话:“啊,他们的容貌!啊,他们的坚毅!啊,他们的勇力!啊,他们的力量!”

1.182.13

चिन्तयामि दिवारात्रमर्जुनं प्रति बान्धवाः ।
भ्रातृभिः सहितो मात्रा सोऽदह्यत हुताशने ॥ १.१८२.१३ ॥

我日夜思念阿周那和我的亲族。他们与兄弟和母亲一同葬身火中。

1.182.14

किमाश्चर्यमितो लोके कालो हि दुरतिक्रमः ।
मिथ्याप्रतिज्ञो लोकेषु किं करिष्यामि सांप्रतं ॥ १.१८२.१४ ॥

世间还有什么比这更奇异的呢?时间确实难以违逆。在那些誓言虚假的人中间,我现在该怎么办?

1.182.15

अन्तर्गतेन दुःखेन दह्यमानो दिवानिशम् ।
याजोपयाजौ सत्कृत्य याचितौ तौ मयाऽनघौ ॥ १.१८२.१५ ॥

我日夜被内心的痛苦焚烧,恭敬地礼遇了无罪的耶阇和沃阇耶阇,并向他们恳求。

1.182.16

भारद्वाजस्य हन्तारं देवीं चाप्यर्जुनस्य वै ।
लोकस्तद्वेद यच्चापि तथा याजेन मे श्रुतम् ॥ १.१८२.१६ ॥

世人都知道杀死婆罗堕惹遮(德罗纳)者,以及为阿周那而来的女神;我也听闻了耶阇对我所说的话。

1.182.17

याजेन पुत्रकामीयं हुत्वा चोत्पादिताविमौ ।
धृष्टद्युम्नश्च कृष्णा च मम तुष्टिकरावुभौ ॥ १.१८२.१७ ॥

凭借耶阇为求子而举行的祭祀,这二人得以降生:德里斯塔铎由摩与黑公主,二人都给我带来喜悦。

1.182.18

किं करिष्यामि ते नष्टाः पाण्डवाः पृथया सह ।
इत्येवमुक्त्वा पाञ्चालः शुशोच परमातुरः ॥ १.१८२.१८ ॥

“般度诸子与普利塔一同毁灭了,我现在该怎么办?”说完这话,极度苦恼的般遮罗王悲叹起来。

1.182.19

दृष्ट्वा शोचन्तमत्यर्थं पाञ्चालमिदमब्रवीत् ।
पुरोधाः सत्वसंपन्नः सम्यग्विद्याविशेषवित् ॥ १.१८२.१९ ॥

见潘遮罗王极度悲恸,具有定力、精通诸种学问的祭司便对他说道。

1.182.20

वृद्धानुशासने सक्ताः पाण्डवा धर्मचारिणः ।
तादृशा न विनश्यन्ति नैव यान्ति पराभवम् ॥ १.१८२.२० ॥

奉行法道、遵从长者教导的般度五子,不会如此毁灭,也不会遭受失败。

1.182.21

मया दृष्टमिदं सत्यं शृणु त्वं मनुजाधिप ।
ब्राह्मणैः कथितं सत्यं वेदेषु च मया श्रुतम् ॥ १.१८२.२१ ॥

人主啊,我亲眼见过这真理,你且听着。婆罗门所说的真理,我在吠陀中所闻的真理,也正是如此。

1.182.22

बृहस्पतिमतेनाथ पौलोम्या च पुरा श्रुतम् ।
नष्ट हन्द्रो बिसग्रन्थ्यामुपश्रुत्या हि दर्शितः ॥ १.१८२.२२ ॥

依照毗诃娑波提的学说,且早先也从波罗摩弥那里听说:因陀罗曾经失踪,听闻他藏在莲茎的节中,他才显现出来。

1.182.23

उपश्रुतिर्महाराज पाण्डवार्थे मया श्रुता ।
यत्रकुत्रापि जीवन्ति पाण्डवास्ते न संशयः ॥ १.१८२.२३ ॥

大王,关于般度五子,我听到过这样的间接消息:无论他们在哪里,般度五子都还活着,这毫无疑问。

1.182.24

मया दृष्टानि लिङ्गानि इहैवैष्यन्ति पाण्डवाः ।
यन्निमित्तमिहायान्ति तच्छृणुष्व नराधिप ॥ १.१८२.२४ ॥

我已看见征兆,般度五子必将来到此地。人主啊,请听他们为何来到此处的缘由。

1.182.25

स्वयंवरः क्षत्रियाणां कन्यादाने प्रदर्शितः ।
स्वयंवरस्तु नगरे घुष्यतां राजसत्तम ॥ १.१८२.२५ ॥

刹帝利之间,以自选夫婿之礼嫁女已被制定。最优秀的君王啊,请在城中宣布自选夫婿之礼。

1.182.26

यत्र वा निवसन्तस्ते पाण्डवाः पृथया सह ।
दूरस्था वा समीपस्था स्वर्गस्था वाऽपि पाण्डवाः ॥ १.१८२.२६ ॥

无论般度之子与普利塔同居何处,无论远近,或在天界——般度之子……

1.182.27

श्रुत्वा स्वयंवरं राजन्समेष्यन्ति न संशयः ।
तस्मात्स्वयंवरो राजन्घुष्यतां मा चिरं कृथाः ॥ १.१८२.२७ ॥

君王啊,听到自选夫婿之礼,他们必定会来,毫无疑问。因此,君王啊,请宣布自选夫婿之礼,不要迟延。

1.182.28

श्रुत्वा पुरोहितेनोक्तं पाञ्चालः प्रीतिमांस्तदा ।
घोषयामास नगरे द्रौपद्यास्तु स्वयंवरम् ॥ १.१८२.२८ ॥

听了家祭司的话,般遮罗王欢喜,便在城中宣布德罗波蒂的自选夫婿之礼。

1.182.29

पुष्यमासे तु रोहिण्यां शुक्लपक्षे शुभे तिथौ ।
दिवसैः पञ्चसप्तत्या भविष्यति न संशयः ॥ १.१८२.२९ ॥

在普什亚月,罗希尼星宿之下,白半月的吉祥月日——七十五日之内必将举行,毫无疑问。

1.182.30

देवगन्धर्वयक्षाश्च ऋषयश्च तपोधनाः ।
स्वयंवरं द्रष्टुकामा गच्छन्त्येव न संशयः ॥ १.१८२.३० ॥

诸天、乾闼婆、夜叉及以苦行为财富的仙人,想要观看自选夫婿之礼,必定前往,毫无疑问。

1.182.31

तव पुत्रा महात्मानो दर्शनीयो विशेषतः ।
यदृच्छया सा पाञ्चाली गच्छेद्वान्यतमं पतिम् ॥ १.१८२.३१ ॥

你的儿子们心胸广大,尤其值得一看;般遮罗的公主或许会偶然选中他们中的任何一位为夫。

1.182.32

को हि जानाति लोकेषु प्रजापतिमतं शुभण् ।
तस्मात्सपुत्रा गच्छेथा यदि ब्राह्मणि रोचते ॥ १.१८२.३२ ॥

世间谁真正知道生主的吉祥意愿呢?因此,婆罗门妇人啊,若你愿意,就与你的儿子们同去吧。

1.182.33

नित्यकालं सुभिक्षास्ते पाञ्चालास्तु तपोधने ।
यज्ञसेनस्तु राजा स ब्रह्मण्यः सत्यसङ्गरः ॥ १.१८२.३३ ॥

苦行之宝啊,般遮罗之地常年五谷丰登;而国王半祭那敬重婆罗门,且言而有信。

1.182.34

ब्रह्मण्या नागराः सर्वे ब्राह्मणाश्चातिथिप्रियाः ।
नित्यकालं प्रदास्यन्ति आमन्त्रणमयाचितम् ॥ १.१८२.३४ ॥

城中所有居民都敬重婆罗门、喜爱宾客;他们总会不待请求便主动发出邀请、施予布施。

1.182.35

अहं च तत्र गच्छामि ममैभिः सह शिष्यकैः ।
एकसार्थाः प्रयाताः स्मो ब्राह्मण्या यदि रोचते ॥ १.१८२.३५ ॥

我也将与这些弟子一同前往那里;婆罗门妇人啊,若你愿意,我们便同行一队吧。