Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.186

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.186.1

ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः ।
समैरुदङ्मुकैर्मार्गैर्यथोद्दिष्टं च भारत ॥ १.१८६.१ ॥

婆罗多啊,那些人中的雄牛把母亲置于前方,沿着所指示的、朝北的平坦道路出发了。

1.186.2

अहोरात्रेणाभ्यगच्छन्पाञ्चालनगरं प्रति ।
अभ्याजग्मुर्लोकनदीं गङ्गां भागीरथीं प्रति ॥ १.१८६.२ ॥

他们一昼夜之间便走向般遮罗城,来到世界之河恒河,即婆吉罗提河。

1.186.3

चन्द्रास्तमयवेलायामर्धरात्रसमागमे ।
वारि चैवानुमज्जन्तस्तीर्थं सोमाश्रयायणम्। ॥ १.१८६.३ ॥

月落之时,半夜交会之际,他们入水沐浴,抵达了圣渡口苏摩阿什拉耶纳。

1.186.4

आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः ।
उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः। ॥ १.१८६.४ ॥

人中之虎、般度之子们到达了恒河;阿周那(财天)在他们面前高举火把。

1.186.5

प्रकाशार्थं ययौ तत्र रक्षार्थं च महारथः ।
तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन् स्त्रियः। ॥ १.१८६.५ ॥

为了照明与护卫,那位大车战士前往那里;在恒河那清净幽静的水中,有女子在嬉戏。

1.186.6

शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् ।
तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली ॥ १.१८६.६ ॥

他听到他们走近河边的声音;被那声音所激,这位强大者勃然大怒。

1.186.7

स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान् ।
विष्फारयन्धनुर्घोरमिदं वचनमब्रवीत् ॥ १.१८६.७ ॥

他看见那里与母亲在一起的般度五子——敌人的焚烧者,便拉开可怕的弓,说出了这些话。

1.186.8

सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या ।
अशीतिभिर्लवैर्हीनं तन्मुहूर्तं प्रचक्षते ॥ १.१८६.८ ॥

在前夜来临时变得通红的可怕黄昏,减去八十个拉瓦的那一刻,被称为穆呼尔塔。

1.186.9

विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् ।
शेषमन्यन्मनुष्याणां कर्मचारेषु वै स्मृतम् ॥ १.१८६.९ ॥

分配给随意游走的夜叉、乾闥婆和罗刹的时段已定,其余时间则被认为是人类行事的时间。

1.186.10

लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् ।
उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् ॥ १.१८६.१० ॥

出于贪欲,我们在那些时辰接近四处游荡的人,与罗刹一道捉住那些愚蠢之人。

1.186.11

अतो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः ।
गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि ॥ १.१८६.११ ॥

因此,知晓梵的人指责夜间取水的人,指责所有的人,甚至指责有权势的国王。

1.186.12

आराच्च तिष्ठतास्माकं समीपं नोपसर्पत ।
कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् ॥ १.१८६.१२ ॥

站在远处,不要靠近我们。你为何不认得我这个已获得婆罗钵的水的人?

1.186.13

अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् ।
अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा ॥ १.१८६.१३ ॥

你应当知道我是名为安伽罗波尼的乾达婆,依靠自身的力量。我骄傲而好嫉妒,是俱毗罗的亲密朋友。

1.186.14

अङ्गारपर्णमित्येवं ख्यातं चेदं वनं मम ।
अनुगङ्गं चरन्कामांश्चित्रं यत्र रमाम्यहम् ॥ १.१८६.१४ ॥

此林以我之名被称为安伽罗波尼。沿着恒河随心漫游,我在这奇妙之地上感到欢愉。

1.186.15

न कौणपाः शृङ्गिणो वा न देवा न च मानुषाः ।
कुबेरस्य यथोष्णीषं किं मां समुपसर्पथ ॥ १.१८६.१५ ॥

你们既非食人鬼,非有角者,非天神,非人类——为何靠近我这如俱毗罗冠饰般的人?

1.186.16

समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते ।
रात्रावहनि सन्ध्यायां कस्य क्लृप्तः परिग्रहः ॥ १.१८६.१६ ॥

无论在海洋、喜马拉雅山侧、还是此河边,无论夜晚、白昼或黄昏——此处之所有权属于谁,恶意之人?

1.186.17

भुक्तो वाऽप्यथ वाऽभुक्तो रात्रावहनि खेचर ।
न कालनियमो ह्यस्ति गङ्गां प्राप्य सरिद्वरां ॥ १.१८६.१७ ॥

无论是否已进食,无论白昼黑夜——天空的游行者啊,抵达河流中最殊胜的恒河之人,没有时间的规定。

1.186.18

वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुम ।
अशक्ता हि रणे क्रूर युष्मानर्चन्ति मानवाः ॥ १.१८६.१८ ॥

我等皆具力量,即便非其时,亦要与你对抗,残暴者啊。因为唯有在战场上无力之人,才会崇拜你。

1.186.19

पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता ।
गङ्गा गत्वा समुद्राम्भः सप्तधा समपद्यत ॥ १.१८६.१९ ॥

往昔,这条恒河从喜马拉雅的金峰流出;流至大海之水后,她分为七支。

1.186.20

गङ्गां च यमुनां चैव प्लक्षजातां सरस्वतीम् ।
रथस्थां सरयूं चैव गोमतीं गण्डकीं तथा ॥ १.१८६.२० ॥

恒河与亚穆纳河,从菩叶树中生出的萨罗私婆蒂河,乘车而行的萨拉尤河,以及戈玛提河和甘达基河,也是如此。

1.186.21

अपर्युषितपापास्ते नदीः सप्त पिबन्ति ये ।
इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः ॥ १.१८६.२१ ॥

罪孽不留存的人饮用这七条河的水;而这条河成为一岸之河并变得清净,再次升入天空。

1.186.22

देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् ।
तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः।
गङ्गा भवति वै प्राप्य कृष्णद्वैपायनोऽब्रवीत् ॥ १.१८६.२२ ॥

啊,乾闼婆,恒河在诸神之中得名为阿罗迦难陀;同样,对祖先而言有吠多兰尼河,作恶者难以渡过。恒河便成为那条河,黑岛仙如是说。

1.186.23

असम्बाधा देवनदी स्वर्गसंपादनी शुभा ।
कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः ॥ १.१८६.२३ ॥

这条无阻碍的天河,能成就天界,吉祥美好——你怎么想要阻挡她?这不是永恒的法。

1.186.24

अनिवार्यमसम्बाधं तव वाचा कथं वयम् ।
न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् ॥ १.१८६.२४ ॥

既然依你所言这是不可阻挡、没有障碍的,我们怎能不随心所欲地触碰婆吉罗蒂河的圣水呢?

1.186.25

अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनाम्य कार्मुकम् ।
मुमोच बाणान्निशितानहीनाशीविषानिव ॥ १.१८६.२५ ॥

安伽罗波尔那闻言大怒,弯弓射出锐利的箭,如同毒蛇。

1.186.26

उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तरम् ।
व्यपोहत शरांस्तस्य सर्वानेव धनञ्जयः ॥ १.१८६.२६ ॥

般度之子财富者迅速挥舞燃烧的火把,并高举盾牌,挡住了他所有的箭。

1.186.27

बिभीषिका वै गन्धर्व नास्त्रज्ञेषु प्रयुज्यते ।
अस्त्रज्ञेषु प्रयुक्तेयं फेनवत्प्रविलीयते ॥ १.१८६.२७ ॥

乾闥婆啊,这种恐怖之器不会用于精通武器者;若用于他们,便如泡沫般消散。

1.186.28

मानुषानति गन्धर्वान्सर्वान् गन्धर्व लक्षये ।
तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया ॥ १.१८६.२८ ॥

乾闥婆啊,我看所有乾闥婆都高于凡人;因此我将以神圣之器作战,而不以幻术。

1.186.29

पुराऽस्त्रमिमाग्नेयं प्रादात्किल बृहस्पतिः ।
भरद्वाजाय गन्धर्व गुरुर्मान्यः शतक्रतोः ॥ १.१८६.२९ ॥

乾闥婆啊,往昔brihaspati将此火器授予婆罗堕闍;他是因陀罗(百祭者)敬重的导师。

1.186.30

भरद्वजादग्निवेश्य अग्निवेश्याद्गुरुर्मम ।
साध्विदं मह्यमददद्द्रोणो ब्राह्मणसत्तमः ॥ १.१८६.३० ॥

从婆罗堕闍传至火吠(Agniveśya),再从火吠传至我的老师;那位最杰出的婆罗门德罗纳将它赐予了我。

1.186.31

इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह ।
प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् ॥ १.१८६.३१ ॥

说罢,愤怒的般度之子向乾闼婆射出燃烧的火神之箭,将他的战车烧毁。

1.186.32

विरथं विप्लुतं तं तु स गन्धऱ्वं महाबलः ।
अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम् ॥ १.१८६.३२ ॥

失去战车、昏乱、被武器的光焰迷惑的那位大力乾闼婆,正面朝下倒去。

1.186.33

शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः ।
भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् ॥ १.१८६.३३ ॥

财富征服者抓住他戴着花环的头发,将他拖向诸兄弟;他因武器的打击而昏迷不醒。

1.186.34

युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी ।
नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती ॥ १.१८६.३४ ॥

他的妻子名为宫毗那西,寻求庇护,来到坚战面前,希望救护自己的丈夫。

1.186.35

त्रायस्व मां महाभाग पतिं चेमं विमुञ्च मे ।
गन्धर्वी शरणं प्राप्ता नाम्ना कुम्भीनसी प्रभो ॥ १.१८६.३५ ॥

尊贵的人啊,请保护我,释放我的这位丈夫。主啊,我乃名为宫毗那西的乾闼婆女,前来寻求庇护。

1.186.36

युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम् ।
को निहन्याद्रिपुं तात मुञ्चेमं रिपुसूदन ॥ १.१८६.३६ ॥

谁会杀死在战斗中被击败、失去荣誉、是女人的丈夫、毫无勇力的敌人呢?亲爱的,灭敌者啊,释放他吧。

1.186.37

जीवितं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः ।
प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः ॥ १.१८६.३७ ॥

取回你的性命,乾闼婆,去吧,不要悲伤。今日俱卢王坚战赐你无畏。

1.186.38

जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् ।
यशोहीनं न च श्लाघ्यं स्वं नाम जनसंसदि ॥ १.१८६.३८ ॥

我已被击败。我放弃旧名安伽罗波尔那;在人众集会中说出无荣誉的自己的名字是不值得称赞的。

1.186.39

साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम् ।
गान्धर्व्या माययेच्छामि संयोजयितुमर्जुनम् ॥ १.१८६.३९ ॥

好,我获得了这个机会:我想用乾闼婆的幻术,把持有神圣武器的阿周那与我结合。

1.186.40

अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः ।
सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवं ॥ १.१८६.४० ॥

因武器之火,我那华丽而殊胜的战车被烧毁了。我原是战车奇妙者(钦陀罗陀),如今名为焚车者(达格陀罗陀)。

1.186.41

संभृता चैव विद्येयं तपसेह मया पुरा ।
निवेदयिष्ये तामद्य प्राणदाय महात्मने ॥ १.१८६.४१ ॥

此明我往昔在此以苦行所得。今日我将把它献给赐我性命的大德之人。

1.186.42

संस्तम्भयित्वा तरसा जितं शरणमागतम् ।
यो रिपुं योजयेत्प्राणैः कल्याणं किं न सोऽर्हति ॥ १.१८६.४२ ॥

凡以力制服之后、战败而来寻求庇护的敌人,若能使其重获生命,此人岂不值得获得福祉吗?

1.186.43

चाक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः ।
ददौ स विश्वावसवे मम विश्वावसुर्ददौ ॥ १.१८६.४३ ॥

这门名为“Cākṣuṣī”的学问,是摩奴传给月神(Soma)的。月神传给了Viśvāvasu,而我的Viśvāvasu又传给了(我)。

1.186.44

सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति ।
आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे ॥ १.१८६.४४ ॥

这门学问虽由师长所授,但若落入怯懦之人手中便会失去。我已告诉你获得它的方法;现在请了解我的力量。

1.186.45

यच्चक्षुषा द्रष्टुमिच्छेत्रिषु लोकेषु किंचन ।
तत्पश्येद्यादृशं चेच्छेत्तादृशं द्रष्टुमर्हति ॥ १.१८६.४५ ॥

在三界之中,无论用眼睛想看什么,都能看见;想以何种方式看,就能以那种方式看见。

1.186.46

एकपादेन षण्मासान्स्थितो विद्यां लभेदिमाम् ।
अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते ॥ १.१८६.४६ ॥

单脚站立六个月的人可以获得此学问。待誓愿完成后,我自己将把此学问传授给你。

1.186.47

विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः ।
अविशिष्टाश्च देवानामनुभावप्रदर्शिनः ॥ १.१८६.४७ ॥

国王啊,正因这门学问,我们超越世人,而不逊于诸神,因为我们显示出与他们相同的威力。

1.186.48

गन्धर्वजानामश्वानामहं पुरुषसत्तम ।
भ्रातृभ्यस्तव तुभ्यं च पृथग्दाता शतं शतं ॥ १.१८६.४८ ॥

人中之最啊,我将把乾闼婆所生的骏马给你的兄弟们和你,各自一百匹。

1.186.49

देवगन्धर्ववाहास्ते दिव्यवर्णा मनोजवाः ।
क्षीणाक्षीणा भवन्त्येते न हीयन्ते च रंहसः ॥ १.१८६.४९ ॥

这些神与干闼婆的马毛色神异,快如意念。它们虽似渐减,却不会减少,其速度也不会降低。

1.186.50

पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणम् ।
दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि ॥ १.१८६.५० ॥

往昔,大因陀罗所造、杀死弗栗多的金刚杵,在弗栗多的头上碎裂成十块与百块。

1.186.51

ततो भागीकृतो देवैर्वज्रभाग उपास्यते ।
लोके यशोधनं किंचित्सैव वज्रतनुः स्मृता ॥ १.१८६.५१ ॥

随后诸神将其分而为份,金刚之份在世间被尊奉,是一种名望的财富。它被称为金刚之身。

1.186.52

वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् ।
वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः ॥ १.१८६.५२ ॥

手持金刚者应为婆罗门;刹帝利的战车称为金刚车。吠舍以布施为金刚,年幼者以行动为金刚。

1.186.53

क्षत्रवज्रस्य भागेन अवध्या वाजिनः स्मृताः ।
रथाङ्गं वडबा सूते शूराश्चाश्वेषु ये मताः ॥ १.१८६.५३ ॥

依刹帝利金刚之份,马被认为不可杀。母马婆达婆生出车轮,马中被视为勇士者也是如此。

1.186.54

कामवर्णाः कामजवाः कामतः समुपस्थिताः ।
इति गन्धर्वजाः कामं पूरयिष्यन्ति मे हयाः ॥ १.१८६.५४ ॥

颜色随愿,速度随愿,随意而至——如此,这些由干闼婆所生之马将满足我的心愿。

1.186.55

यदि प्रीतेन मे दत्तं संशये जीवितस्य वा ।
विद्याधं श्रुतं वाऽपि न तद्गन्धर्व रोचये ॥ १.१८६.५५ ॥

若你出于善意曾在性命危急之际或为了学问而给予我什么,或者即便是所学的东西,我并不想要,乾闼婆啊。

1.186.56

संयोगो वै प्रीतिकरो महत्सु प्रतिदृश्यते ।
जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते ॥ १.१८६.५६ ॥

伟人之间的相遇被认为令人欢喜。因你救命之恩而欣喜,我将传授你此种学问。

1.186.57

त्वत्तोऽप्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् ।
तथैव योग्यं बीभत्सो चिराय मरतर्षभ ॥ १.१८६.५७ ॥

我也将从你那里获得至上的火器。的确,这对毗婆刹(阿周那)长久以来都是适当的,马鲁特之牛啊。

1.186.58

त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शास्वतोऽस्तुनौ ।
सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं भवेत् ॥ १.१८६.५८ ॥

我以你的武器为交换,向你请求马匹;愿我们之间的结合永恒。朋友乾闼婆啊,请告诉我你们可能有什么恐惧。

1.186.59

कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः ।
यान्तो वेदविदः सर्वे सन्तो रात्रावरिन्दमाः ॥ १.१८६.५९ ॥

乾闼婆啊,请告诉我原因:为何那些通晓吠陀、善良、降伏敌人的人们在夜间行走时都遭到了袭击。

1.186.60

अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः ।
यूयं ततो धर्षिताः स्थ मया वै पाण्डुनन्दनाः ॥ १.१८६.६० ॥

你们没有圣火,没有供奉,也没有以婆罗门为先导;因此,般度之子啊,我袭击了你们。

1.186.61

यक्षराक्षसगन्धर्वपिशाचपतगोरगाः ।
धर्षन्ति नरव्याघ्र न ब्राह्मणपुरस्कृतान् ॥ १.१८६.६१ ॥

人中之虎啊,夜叉、罗刹、乾闼婆、毕舍遮、飞鸟与蛇,不侵扰那些以婆罗门居前之人。

1.186.62

जानतापि मया तस्मात्तेजश्चाभिजनं च वः ।
इयमग्निमतां श्रेष्ठ धर्षिता वै पुरागतिः ॥ १.१८६.६२ ॥

虽然我知道你们的光辉与高贵的家世,火之持有者中最优秀的人啊,我依照古老的途径攻击了你们。

1.186.63

को हि वस्त्रिषु लोकेषु न वेद भरतर्षभ ।
स्वैर्गुणैर्विस्तृतं श्रीमद्यशोऽग्र्यं भूरिवर्चसाम् ॥ १.१८६.६३ ॥

婆罗多族的雄牛啊,三界之中谁不知道,那些大光辉者以自身德行传扬开的、至上而荣耀的名声呢?

1.186.64

यक्षराक्षसगन्धर्वाः पिशाचोरगदानवाः ।
विस्तरं कुरुवंशस्य धीमन्तः कथयन्ति ते ॥ १.१८६.६४ ॥

夜叉、罗刹、乾闼婆、毕舍遮、大蛇与檀那婆——智者们详细讲述着俱卢族的伟大。

1.186.65

नारदप्रभृतीनां तु देवर्षीणां मया श्रुतम् ।
गुणान्कथयतां वीर पूर्वेषां तव धीमताम् ॥ १.१८६.६५ ॥

勇士啊,我从以那罗陀为首的天仙那里听闻,他们讲述你那些智慧先祖的美德。

1.186.66

स्वयं चापि मया दृष्टश्चरता सागराम्बराम् ।
इमां वसुमतीं कृत्स्नां प्रभावः सुकुलस्य ते ॥ १.१८६.६६ ॥

我自己游历时,也曾看见这整个以大海为衣的大地;这便是你高贵家族的威力。

1.186.67

वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन ।
विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् ॥ १.१८६.६७ ॥

阿周那,我知道你在吠陀和弓术上的师父是名闻三界的光荣的婆罗堕遮。

1.186.68

सर्ववेदविदां श्रेष्ठं सर्वशस्त्रभृतां वरम् ।
द्रोणमिष्वस्त्रकुशलं धनुष्यह्गिरसां वरम् ॥ १.१८६.६८ ॥

我知道德罗纳是诸吠陀知者中最优秀的,是诸持兵者中的首位,精通箭矢兵器,在弓术上是安吉罗娑族中最杰出的。

1.186.69

धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा ।
पाण्डुं च कुरुशार्दूल षडेतान्कुरुवर्धनान्।
पितॄनेतानहं पार्थ देवमानुषसत्तमान् ॥ १.१८६.६९ ॥

我知道法神、风神、因陀罗与双马童,也知道俱卢之虎般斑度。帕尔塔,我认识这六位增益俱卢族的、神人中最杰出的父亲们。

1.186.70

दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः ।
भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः ॥ १.१८६.७० ॥

你们都是神圣之魂、伟大之魂,是诸持兵者中的最杰出者,是英勇的兄弟,奉行良善誓愿。

1.186.71

उत्तमां च मनोबुद्धिं भवतां भावितात्मनाम् ।
जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् ॥ १.१८६.७१ ॥

虽知你们心志与智慧皆属净化之魂,帕尔塔,你却在此施加了侮辱。

1.186.72

स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति ।
धर्षणामात्मनः पश्यन्ब्राहुद्रविणमाश्रितः ॥ १.१८६.७२ ॥

俱卢后裔啊,男子在女子面前不应忍受侮辱;依靠臂力之财的人,会看到自身的耻辱。

1.186.73

नक्तं च बलमस्माकं भूय एवाभिवर्धते ।
यतस्ततो मां कौन्तेय सदारं मन्युराविशत् ॥ १.१८६.७३ ॥

夜间我们的力量愈发增长;因此,俱卢之子啊,愤怒连同我的妻子一起降临到我身上。

1.186.74

सोऽहं त्वयेह विजितः सङ्ख्ये तापत्यवर्धन ।
येन तेनेह विधिना कीर्त्यमानं निबोध मे ॥ १.१८६.७४ ॥

此刻在此的我,已在战斗中被你征服。啊,增益Tāpatya一族者,请从我这里听取此处所述的那种方式。

1.186.75

ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि ।
यस्मात्तस्मादहं पार्थ रणे।ञस्मि विजितस्त्वया ॥ १.१८६.७५ ॥

梵行是至上之法,它在你身上也坚定地确立;因此,帕尔塔啊,我在战斗中被你征服了。

1.186.76

यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप ।
नक्तं च युधि युध्येत न स जीवेत्कथंचन ॥ १.१८६.७६ ॥

任何刹帝利,啊,焚敌者,若放纵欲望,夜间在战斗中交战,便不应以任何方式存活。

1.186.77

यस्तु स्यात्कामवृत्तोऽपि पार्थ ब्रह्मपुरस्कृतः ।
जयेन्नक्तञ्चरान्सर्वान्स पुरोहितधूर्गतः ॥ १.१८६.७७ ॥

然而,即使放纵欲望,啊,帕尔塔,若以婆罗门置于前面而前进者,将战胜所有夜间行走的敌人;他承担着家祭司的重轭。

1.186.78

तस्मात्तापत्य यत्किंचिन्नृणां श्रेय इहेप्सितम् ।
तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ॥ १.१८६.७८ ॥

因此,啊,塔帕蒂之子,凡人在此所求的任何福祉,都应委派自我克制的家祭司去成办那件事。

1.186.79

वेदे षडङ्गे निरताः शुचयः सत्यवादिनः ।
धर्मात्यागः कृतात्मानः स्युर्नृपाणां पुरोहिताः ॥ १.१८६.७९ ॥

精通吠陀及其六支、清净、说真话、不舍弃法、自制的人,才应担任国王的国师。

1.186.80

जयश्च नियतो राज्ञः स्वर्गश्च तदनन्तरम् ।
यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः ॥ १.१८६.८० ॥

若国王的国师通晓法、善辩、有德行且清净,则胜利必然,此后亦得升天。

1.186.81

लाभं लब्धुमलब्धं वा लब्धं वा परिरक्षितुम् ।
पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् ॥ १.१८६.८१ ॥

为了获得尚未得到的,或守护已经得到的,国王应当任命具备德行的国师。

1.186.82

पुरोहितमते तिष्ठेद्य इच्छेद्भूतिमात्मनः ।
प्राप्तुं वसुमतीं सर्वां सर्वशः सागराम्बराम् ॥ १.१८६.८२ ॥

若欲求自身的繁荣,并想获得被大海环绕的整个大地,就应听从国师的意见。

1.186.83

न हि केवलशौर्येण तापत्याभिजनेन च ।
जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् ॥ १.१८६.८३ ॥

仅凭勇力或 Tāpatya 的家世,任何非婆罗门的国王都不可能征服大地。

1.186.84

तस्मादेवं विजानीहि कुरूणां वंशवर्धन ।
ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् ॥ १.१८६.८४ ॥

因此,庐仇族的增盛者啊,你应当这样理解:以婆罗门为首的王国才能长久守护。