Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.187

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.187.1

तापत्य इति यद्वाक्यमुक्तवानसि मामिह ।
तदहं ज्ञातुमिच्छामि तापत्यार्थं विनिश्चितम् ॥ १.१८७.१ ॥

你在此对我所说的「达帕底耶」一词,我想确切地知道它的含义。

1.187.2

तपती नाम का चैषा तापत्या यत्कृते वयम् ।
कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम् ॥ १.१८७.२ ॥

此女名为达帕蒂,是太阳之女,我们俱为因她而生的昆提之子。善者啊,我想知道那真相。

1.187.3

एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनञ्जयम् ।
विश्रुतं त्रिषु लोकेषु श्रावयामास वै कथाम् ॥ १.१८७.३ ॥

被如此询问后,那位乾达婆向昆提之子、名闻三界的财征(Dhanañjaya)讲述了这段故事。

1.187.4

हन्त ते कथयिष्यामि कथामेतां मनोरमाम् ।
यथावदखिलां पार्थ सर्वबुद्धिमतां वर ॥ १.१८७.४ ॥

好吧,普利塔之子啊,诸智者中最优秀者,我将把这段动人的故事原原本本、完整地讲给你听。

1.187.5

उक्तवानस्मि येन त्वां तापत्य इति यद्वचः ।
तत्तेऽहं कथयिष्यामि शृणुष्वैकमना भव ॥ १.१८७.५ ॥

我将告诉你,我为何对你说出「达帕底耶」这个词;请专心一意地听。

1.187.6

य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा ।
एतस्य तपती नाम बभूव सदृशी सुता ॥ १.१८७.६ ॥

这位以光辉遍照天界、充满天空的神,有一个名叫达帕蒂的女儿,与他相似。

1.187.7

विवस्वतो वै देवस्य सावित्र्यवरजा विभो ।
विश्रुता त्रिषु लोकेषु तपती तपसा युता ॥ १.१८७.७ ॥

啊,威力者!太阳神毗婆娑特之女、萨维特丽之妹,名闻三界、具足苦行的,名为陀帕提。

1.187.8

न देवी नासुरी चैव न यक्षी न च राक्षसी ।
नाप्सरा न च गन्धर्वी तथा रूपेण काचन ॥ १.१८७.८ ॥

无论天女、阿修罗女、夜叉女、罗刹女、天女或乾闼婆女,无人在容貌上能与她相比。

1.187.9

सुविभक्तानवद्याङ्गी स्वसितायतलोचना ।
स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी ॥ १.१८७.९ ॥

肢体匀称无瑕,眼睛白而修长,品行端正,贞洁贤淑,服饰华美,妩媚动人。

1.187.10

त तस्याः सदृशं कंचित्त्रिषु लोकेषु भारत ।
भर्तारं सविता मेने रूपशीलगुणश्रुतैः ॥ १.१८७.१० ॥

婆罗多之子啊,太阳神萨维特利见她的容貌、德行、品性与学识,认为三界之中无人配得上她为夫。

1.187.11

संप्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम् ।
द्व्यष्टवर्षां तु तां श्यामां सविता रूपशालिनीम्।
नोपलेभे ततः शान्तिं संप्रदानं विचिन्तयन् ॥ १.१८७.११ ॥

见女儿已到出嫁之年,萨维特利思量着将这位十六岁、肤色微黑而容光焕发的女儿嫁出,心中便不得安宁。

1.187.12

अथर्क्षपुत्रः क्रान्तेय कुरूणामृषभो बली ।
सूर्यमाराधयामास नृपः संवरणस्तदा ॥ १.१८७.१२ ॥

那时,熊(Ṛkṣa)之子、俱卢族中的雄牛、强大的国王萨瓦兰那,敬拜太阳神。

1.187.13

अर्ध्यमाल्योपहाराद्यैर्गन्धैश्च नियतः शुचिः ।
नियमैरुपवासैश्च तपोभिर्विविधैरपि ॥ १.१८७.१३ ॥

以阿尔吉亚、花环、供品等,以香料,他节制而清净,以戒律、斋戒和种种苦行。

1.187.14

सुश्रूषुरनहंवादी शुचिः पौरवनन्दन ।
अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् ॥ १.१८७.१४ ॥

他专心服侍,不自负,清净,乃波卢族之喜乐,充满虔诚,礼拜初升的阿姆苏曼(太阳)。

1.187.15

ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि ।
तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् ॥ १.१८७.१५ ॥

于是太阳认为,感恩、知法、容貌在世间无与伦比的娑摩缚罗那,是多婆提的合适丈夫。

1.187.16

दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम् ।
नृपोत्तमाय कौरव्य विश्रुताभिजनाय च ॥ १.१८७.१६ ॥

于是他想把那位少女嫁给娑摩缚罗那,这位最优秀的国王、家世显赫之人,婆罗多后裔啊。

1.187.17

यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा ।
तथा भुवि महिपालो दीप्त्या संवरणोऽभवत् ॥ १.१८७.१७ ॥

犹如光芒闪耀的太阳以其光辉照耀天空,娑摩缚罗那也成为大地的守护者,以威光闪耀。

1.187.18

यथाऽर्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः ।
तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः ॥ १.१८७.१८ ॥

正如梵语宣说者礼拜初升的太阳,阿周那啊,地位低于婆罗门的民众也礼拜娑摩缚罗那。

1.187.19

स सोममति कान्तत्वादादित्यमति तेजसा ।
बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि ॥ १.१८७.१९ ॥

他的美貌超过月亮,光辉超过太阳;这位光荣的国王既为朋友所敬爱,也为敌人所畏惧。

1.187.20

एवंगुणस्य नृपतेस्तथावृत्तस्य कौरव ।
तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम् ॥ १.१८७.२० ॥

俱卢之子啊,那位具有如此品德与行为的国王,太阳神多波那(Tapana)自己决定把多帕蒂(Tapatī)嫁给他。

1.187.21

स कदाचिदथो राजा श्रीमानमितविक्रमः ।
चचार मृगयां पार्थ पर्वतोपवने किल ॥ १.१८७.२१ ॥

有一次,那位威名赫赫、勇武无比的国王,啊,普利塔之子,前往山边的林中打猎。

1.187.22

चरतो मृगयां तस्य क्षुत्पिपासासमन्वितः ।
ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः ॥ १.१८७.२२ ॥

啊,贡蒂之子,国王在狩猎途中奔走时,他那无与伦比的骏马因饥渴交加,死在了山上。

1.187.23

स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः ।
ददर्शासदृशीं लोके कन्यामायतलोचनाम् ॥ १.१८७.२३ ॥

啊,普利塔之子,马死之后,国王徒步在山上徘徊,看见世间无双、双眸宽大的一位少女。

1.187.24

स एव एकामासाद्य कन्यां परबलार्दनः ।
तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः ॥ १.१८७.२४ ॥

那位摧毁敌军的王中之虎走近那位少女,站在那里,以不动的目光凝视着她。

1.187.25

स हि तां तर्कयामास रूपतो नृपतिः श्रियम् ।
पुनः संतर्कयामास रवेर्भ्रष्टामिव प्रभाम् ॥ १.१८७.२५ ॥

国王以其容貌认出她即是吉祥天女;他又思忖她如同从太阳坠落的光辉。

1.187.26

वपुषा वर्चसा चैव शिखामिव विभावसोः ।
प्रसन्नत्वेन कान्त्या च चन्द्ररेखामिवामलाम् ॥ १.१८७.२६ ॥

她以身躯与光彩,如同火焰的光舌;以清澈的喜悦与光辉,如同无瑕的新月之纹。

1.187.27

गिरिपृष्ठे तु सा यस्मिन्स्थिता स्वसितलोचना ।
विभ्राजमाना शुशुभे प्रतिमेव हिरण्मयी ॥ १.१८७.२७ ॥

她立于山巅,以黑白分明的眼睛光彩照人,宛如一尊金像。

1.187.28

तस्या रूपेण स गिरिर्वेषेण च विशेषतः ।
ससवृक्षक्षुपलतो हिरण्मय इवाभवत् ॥ १.१८७.२८ ॥

因她的容貌,尤其是她的装饰,那座山连同树木、灌丛与藤蔓,仿佛变成了金色。

1.187.29

अवमेने च तां दृष्ट्वा सर्वलोकेषु योषितः ।
अवाप्तं चात्मनो मेने स राजा चक्षुषः फलं ॥ १.१८७.२९ ॥

他见到她后,便轻视天下所有的女子;那位国王以为自己的双眼终于得到了果报。

1.187.30

जन्मप्रभृति यत्किचिंद्दृष्टवान्स महीपतिः ।
रूपं न सदृशं तस्यास्तर्कयामास किंचन ॥ १.१८७.३० ॥

自出生以来,这位国王所见的一切之中,他判断,没有任何形貌能与她相当。

1.187.31

तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा ।
न चचाल ततो देशाद्बुबुधे न च किंचन ॥ १.१८७.३१ ॥

此时,他的心与双目被由德性所成的罗网缚住。他未曾离开那地方,也一无所觉。

1.187.32

अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम् ।
लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम् ॥ १.१८७.३२ ॥

这位大眼女子的容貌,必定是造物主搅动了包括天神、阿修罗与人类在内的世界,将其显现而造成的。

1.187.33

एवं संतर्कयामास रूपद्रविणसंपदा ।
कन्यामसदृशीं लोके नृपः संवरणस्तदा ॥ १.१८७.३३ ॥

于是,国王森婆罗那凭借这美貌的财富,判定此少女在世间无与伦比。

1.187.34

तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः ।
जगाम मनसा चिन्तां कामबाणेन पीडितः ॥ १.१८७.३४ ॥

他一见到这位吉祥的女子,出身高贵的国王便心中陷入沉思,为欲望之箭所苦。

1.187.35

दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना ।
अप्रगल्भां प्रगल्भस्तां तदोवाच मनोहराम् ॥ १.१८७.३५ ॥

国王被猛烈的爱欲之火焚烧,于是对那位羞怯却大胆的迷人少女说道。

1.187.36

काऽसि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि ।
कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते ॥ १.१८७.३६ ॥

香蕉树般美腿的女子啊!你是谁,是谁家的女儿,为何站在这里?纯洁微笑的女子啊!你怎会独自徘徊在这荒无人烟的森林里?

1.187.37

त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता ।
विभूषणमिवैतेषां भूषणानामभीप्सितम् ॥ १.१८७.३७ ॥

你全身无瑕,佩戴着一切饰物,宛如众饰中最令人向往的饰物。

1.187.38

न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम् ।
न च भोगवतीं मन्ये न गन्धवीं न मानुषीम् ॥ १.१८७.३८ ॥

我认为无论是天女、阿修罗女、夜叉女、罗刹女、龙女婆迦瓦蒂、乾达婆女,还是人间女子,都不及你。

1.187.39

या हि दृष्टा मया काश्चिच्छ्रुता वाऽपि वराङ्गनाः ।
न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि ॥ १.१८७.३९ ॥

我所见或所闻的那些美丽女子,没有一个能与你相比,哦,光彩迷人的女子。

1.187.40

दृष्ट्वैव चारुवदने चन्द्रात्कान्ततरं तव ।
वदनं पद्मपत्राक्षं मां मथ्नातीव मन्मथः ॥ १.१८७.४० ॥

哦,美颜的女子,你的面容比月亮更迷人,眼睛如莲花瓣。仅仅一见,爱神便如搅奶一般翻搅着我。

1.187.41

एवं तां स महीपालो बभाषे न तु सा तदा ।
कामार्तं निर्जनेऽरण्ये प्रत्यबाषथ किंचन ॥ १.१८७.४१ ॥

国王如此对她说话,然而她当时一言不发;在荒僻的森林里,她对这位被欲望折磨的国王没有任何回应。

1.187.42

ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा ।
सौदामिनीव चाभ्रेषु तत्रैवान्तरधीयत ॥ १.१८७.४२ ॥

这时,国王正在哀叹,那位长眼的女子就在他面前,如云中闪电一般,当场消失了。

1.187.43

तामन्वेष्टुं स नृपतिः परिचक्राम सर्वतः ।
वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा ॥ १.१८७.४३ ॥

为了寻找她,国王四处奔走;在林中漫游,寻找那莲花瓣般眼睛的女子,他那时竟像疯了一般。

1.187.44

अपश्यमानः स तु तां बहु तत्र विलप्य च ।
निश्चेष्टः पार्थिवश्रेष्ठो मुहूर्तं स व्यतिष्ठत ॥ १.१८७.४४ ॥

看不见她,那位王中最优者在那里痛哭良久,一时呆立不动。