Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.188

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.188.1

अथ तस्यामदृश्यायां नृपतिः काममोहितः ।
पातनः शत्रुसङ्घानां पपात धरणीतले ॥ १.१८८.१ ॥

当她隐没之后,被欲望迷惑的国王,击倒敌军众阵的人,倒在了大地之上。

1.188.2

तस्मिन्निपतिते भूमावथ सा चारुहासिनी ।
पुनः पीनायतश्रोणी दर्शयामास तं नृपम् ॥ १.१८८.२ ॥

当他倒在地上时,她——笑容甜美、臀部丰满宽阔——又向那位国王显现了。

1.188.3

अथाबभाषे कल्याणी वाचा मधुरया नृपम् ।
तं कुरूणां कुलकरं कामाभिहतचेतसम् ॥ १.१८८.३ ॥

那位吉祥的女子便用甜美的话语对国王说话——那位库鲁家族的开创者,心被欲望所伤。

1.188.4

उवाच मधुरं वाक्यं तपती हसतीव सा ।
उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिन्दम ॥ १.१८८.४ ॥

檀波蒂仿佛微笑着说出甜美的话语:“起来,起来!愿你吉祥。制敌者啊,这不适合你。”

1.188.5

मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ ।
एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा ॥ १.१८८.५ ॥

诸王中的猛虎啊,你的迷惑已在大地上显露。国王就这样被甜美的话语所问候,于是——

1.188.6

ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् ।
अथ तामसितापाङ्गीमाबभाषे स पार्थिवः ॥ १.१८८.६ ॥

国王看见那位宽臀的女子就站在他面前。于是这位大地之主对眼角乌黑的她说话。

1.188.7

मन्मथाग्निपरीतात्मा सन्दिग्धाक्षरया गिरा ।
साधु त्वमसितापाङ्गि कामार्तं मत्तकाशिनि ॥ १.१८८.७ ॥

他被情欲之火包围着内心,以含混的言辞说道:"好吧,你这黑眼睛的女子,你这看似醉意朦胧的人,请对被欲望所折磨的我施以恩惠吧。"

1.188.8

भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् ।
त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः ॥ १.१८८.८ ॥

请接纳渴求你的我吧,我的生命之气正离我而去。广目的女子啊,正是为了你,他用锐利的箭射穿我。

1.188.9

कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति ।
दष्टमेवमनाक्रन्दे भद्रे काममहाहिना ॥ १.१८८.९ ॥

你啊,光辉如莲花之心,爱欲反复刺穿我却不肯平息。善良的女子啊,你不呼喊,我就这样被爱欲这条大蛇咬伤了。

1.188.10

सा त्वं पीनायतश्रोणी मामाप्नुहि वरानने ।
त्वदधीना हि मे प्राणाः किन्नरोद्गीतभाषिणि ॥ १.१८८.१० ॥

你啊,臀部丰满宽阔,容颜美好的女子,请来接纳我吧。你说话如紧那罗的歌唱,我的生命之气都系于你身上。

1.188.11

चारुसर्वानवद्याङ्गि पद्मेन्दुप्रतिमानने ।
न ह्यहं त्वदृते भीरु शक्ष्यामि खलु जीवितुम् ॥ १.१८८.११ ॥

美丽的女子啊,四肢无一不完美,容颜如莲花与明月,怯懦的女子啊,没有你,我确实无法活下去。

1.188.12

कामः कमलपत्राक्षि प्रतिविध्यति मामयम् ।
तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने ॥ १.१८८.१२ ॥

你啊,眼睛如莲花瓣的女子,这爱欲不断地刺穿我。因此,广目的女子啊,美丽的女子啊,请对我施以怜悯吧。

1.188.13

भक्तं मामसितापाङ्गि न परित्यक्तुमर्हसि ।
त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि ॥ १.१८८.१३ ॥

黑眼睛的女子啊,你不应抛弃我这虔诚之人。热情的女子啊,你应当以爱的结合救我。

1.188.14

त्वद्दर्शनकृतस्नेहं मनश्चलति मे भृशम् ।
न त्वां दृष्ट्वा पुनश्चान्यां द्रष्टुं कल्याणि रोचते ॥ १.१८८.१४ ॥

因见到你而生的情愫,使我的心极度动摇。吉祥的女子啊,见过你之后,我不愿再去看别的女子。

1.188.15

प्रसीद वशगोऽहं ते भक्तं मां भज भामिनि ।
दृष्ट्वैव त्वां वरारोहे मन्मथो भृशमङ्गने ॥ १.१८८.१५ ॥

请你垂怜,我愿听你差遣。热情的女子啊,请接纳我这虔诚之人。细腰美丽的女子啊,我一见到你,爱神便极其折磨我。

1.188.16

अन्तर्गतं विशालाक्षि विध्यति स्म पतत्त्रिभिः ।
मन्मथाग्निसमुद्भूतं दाहं कमललोचने ॥ १.१८८.१६ ॥

广目的女子啊,他用带羽的箭从内部刺穿我。莲眼的女子啊,由爱欲之火生起的灼热焚烧着我。

1.188.17

प्रीतिसंयोगयुक्ताभिरद्भिः प्रह्लादयस्व मे ।
पुष्पायुधं दुराधर्षं प्रचण्डशरकार्मुकम् ॥ १.१८८.१७ ॥

请用充满爱情结合之情的水,使我平静、欢喜。那以花为武器的爱神,难以抵挡,手持猛烈的箭与弓。

1.188.18

त्वद्दर्शनसमुद्भूतं विध्यन्तं दुःसहैः शरैः ।
उपशामय कल्याणि आत्मदानेन भामिनि ॥ १.१८८.१८ ॥

吉祥的女子啊,请以你自己的奉献,平息这因见到你而生、以难以承受之箭刺我的灼热吧。热情的女子啊。

1.188.19

गान्धर्वेण विवाहेन मामुपैहि वराङ्गने ।
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥ १.१८८.१९ ॥

美丽的女子啊,请以乾闼婆婚姻来到我身边。腿如芭蕉干的女子啊,在各种婚姻中,乾闼婆婚被称为最好的。

1.188.20

नाहमीशाऽऽत्मनो राजन्कन्या पितृमती ह्यहम् ।
मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम ॥ १.१८८.२० ॥

国王啊,我不能自主,因为我是尚未出嫁、受父亲管束的少女。如果你对我有爱意,就去向我的父亲求婚。

1.188.21

यथा हि ते मया प्राणाः संभृताश्च नरेश्वर ।
दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः ॥ १.१८८.२१ ॥

人王啊,正如你的生命之气是因我而生起,同样,只要再次见到我,就请你把我的生命之气拿走。

1.188.22

न चाहमीशा देहस्य तस्मान्नृपतिसत्तम ।
समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः ॥ १.१८८.२२ ॥

最优秀的国王啊,我连自己的身体都不能自主,因此我不靠近你,因为女子是不能自主的。

1.188.23

का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् ।
कन्या नाभिलषेन्नाथं भार्तारं भक्तवत्सलम् ॥ १.१८८.२३ ॥

在所有世界中,哪位少女会不渴望一位出身显赫、爱护信徒的国王、主人和丈夫呢?

1.188.24

तस्मादेवं गते काले याचस्व पितरं मम ।
आदित्यं प्रणिपातेन तपसा नियमेन च ॥ १.१८८.२४ ॥

因此,时机已经如此过去,你应当去请求我的父亲,并向太阳俯首礼拜,同时以苦行和戒律修持。

1.188.25

स चेत्कामयते दातुं तव मामरिसूदन ।
भविष्याम्यद्य ते राजन्सततं वशवर्तिनी ॥ १.१८८.२५ ॥

灭敌者啊,若他愿将我献给你,大王,从今以后我将永远顺从你。

1.188.26

अहं हि तपती नाम सावित्र्यवरजा सुता ।
अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ ॥ १.१८८.२६ ॥

我名叫达帕蒂,是萨维特丽之幼女,刹帝利中的雄牛啊,我是这位照亮世界之明灯——萨维特利(太阳)之女。