摩诃婆罗多 · 章 1.189
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.189.1
एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता ।
तपतीतपतीत्येव विललापातुरो नृपः ॥ १.१८९.१ ॥
说罢,那位无瑕之人迅速升空而去。忧伤的国王只是哀叹道:“达帕蒂,达帕蒂!”
1.189.2
प्रास्स्वलच्चासकृद्राजा पुनरुत्थाय धावति ।
धावमानस्तु तपतीमदृष्ट्वैव महीपतिः।
स तु राजा पुनर्भूमौ तत्रैव निपपात ह ॥ १.१८९.२ ॥
国王一次次跌倒,又爬起来奔跑。然而他没有看见达帕蒂,这位大地之主便在奔跑中又一次倒在了地上。
1.189.3
अन्वेषमाणः सबलस्तं राजानं नृपोत्तमम् ।
अमात्यः सानुयात्रश्च तं ददर्श महावने ॥ १.१८९.३ ॥
这位大臣率领军队四处寻找,与随从一同在大森林中找到了那位最优秀的国王。
1.189.4
क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम् ।
त हि दृष्ट्वा महेष्वासं निरस्तं पतितं भुवि ॥ १.१८९.४ ॥
他看见那位大弓箭手倒卧在地,好似高耸的帝释旗幡被推倒在地。
1.189.5
बभूव सोऽस्य सचिवः संप्रदीप्त इवाग्निना ।
त्वरया चोपसङ्गम्य स्नेहादागतसंभ्रमः ॥ १.१८९.५ ॥
他的大臣仿佛被火焰点燃;出于深情,他急忙走近,心中激动不已。
1.189.6
तं समुत्थापयामास नृपतिं काममोहितम् ।
भूतलाद्भूमिपालेशं पितेव पतितं सुतम् ॥ १.१८९.६ ॥
他将那被欲望迷惑的国王从地上扶起,如同父亲扶起跌倒的儿子。
1.189.7
प्रज्ञया वयसा चैव वृद्धः कीर्त्या नयेन च ।
अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः ॥ १.१८९.७ ॥
这位在智慧、年岁、名望和谋略上都年长的大臣扶起了他,国王的烦躁随之消散。
1.189.8
उवाच चैनं कल्याण्या वाचा मधुरयोत्थिम् ।
मा भैर्मनुजशार्दूल भद्रमस्तु तवानघ ॥ १.१८९.८ ॥
他以温和吉祥的话语对站起的国王说:“人中之虎,不要害怕。无罪之人,愿你吉祥。”
1.189.9
क्षुत्पिपासापरिश्रान्तं तर्कयामास वै नृपम् ।
पतितं पातनं सङ्ख्ये शात्रवाणां महीतले ॥ १.१८९.९ ॥
他判断国王因饥渴疲惫,在战场上被敌人击倒,倒卧在地。
1.189.10
वारिणा च सुशीतेन शिरस्तस्याभ्यषेचयत् ।
अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना ॥ १.१८९.१० ॥
他用极其清凉的水洒在国王头上,同时小心不触碰国王的王冠,水带着莲花的芬芳。
1.189.11
ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः ।
सर्वं विसर्जयामास तमेकं सचिवं विना ॥ १.१८९.११ ॥
此后,国王恢复了生气,这位有力的国王遣散了全部军队,只留下一位大臣。
1.189.12
ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम् ।
स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत् ॥ १.१८९.१२ ॥
随后,依国王之命,大军离去;国王则在山岗高原上又坐在了原处。
1.189.13
ततस्तस्मिन् गिरिवरे शुचिर्भूत्वा कृताञ्जलिः ।
आरिराधयिषुः सूर्यं तस्थावूर्ध्वमुखः क्षितौ ॥ १.१८९.१३ ॥
于是他在那座最好的山上,洁净身心,合掌而立,愿悦悦太阳,面朝上方,站立于地。
1.189.14
जगाम मनसा चैव वसिष्ठमृषिसत्तमम् ।
पुरोहितममित्रघ्नं तदा संवरणो नृपः ॥ १.१८९.१४ ॥
此时国王桑婆罗那心中想起了最优秀的仙人、灭敌的家祭司婆西sh塔。
1.189.15
नक्तन्दिनमथैकत्र स्थिते तस्मिञ्जनाधिपे ।
अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि ॥ १.१८९.१५ ॥
国王在那里日夜停留于一处,到第十二日,那位婆罗门仙人来到了。
1.189.16
स विदित्वैव नृपतिं तपत्या हृतमानसम् ।
दिव्येन विधिना ज्ञात्वा भावितात्मा महानृपिः ॥ १.१८९.१६ ॥
那位大仙人知道国王的心被达帕蒂夺去,以神圣之法得知此事,这位自制的圣者洞悉了一切。
1.189.17
तथा तु नियतात्मानं तं नृपं मुनिसत्तमः ।
आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया ॥ १.१८९.१७ ॥
于是这位心存正法的最优秀仙人,怀着成就国王之愿,对那位自制的国王开口说话。
1.189.18
स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः ।
ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः ॥ १.१८९.१८ ॥
人主注视之际,那位如太阳般光辉的尊贵仙人,开始向上升起,欲见太阳。
1.189.19
योजनानां तु नियुतं क्षणाद्गत्वा तपोधनः ।
सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः।
वसिष्ठोहमिति प्रीत्या स चात्मानं न्यवेदयत् ॥ १.१८९.१९ ॥
这位以苦行为财富的婆罗门,刹那间走过十万由旬,合掌立于千光者面前,欣然自报:“我是伐悉吒。”
1.189.20
तमुवाच महातेजा विवस्वान्मुनिसत्तमम् ।
महर्षे स्वागतं तेऽस्तु कथयस्व यथेप्सितम् ॥ १.१८९.२० ॥
大光明的毗婆娑特对那位最优秀的圣者说:“大仙啊,欢迎您;请说出您所希望的。”
1.189.21
यदिच्छसि महाभाग मत्तः प्रवदतां वर ।
तत्ते दद्यामभिप्रेतं यद्यपि स्यात्सुदुर्लभम् ॥ १.१८९.२१ ॥
“大福之人啊,言者中的最优秀者,你向我所求的任何东西,即使极难得到,我也会给你。”
1.189.22
एवमुक्तः स तेनर्षिर्वसिष्ठः संस्तुवन्गिरा ।
प्रणिपत्य विवस्वन्तं भानुमन्तमथाब्रवीत् ॥ १.१८९.२२ ॥
他这样说后,圣者伐悉吒以言语赞颂,向毗婆娑特顶礼,然后对光耀的婆奴曼说道。
1.189.23
योजनानां चतुष्षष्टिं निमेषात्त्रिशतं तथा ।
अश्वैर्गच्छति नित्यं यस्तत्पार्श्वस्थोऽब्रवीदिदम् ॥ १.१८९.२३ ॥
“那位以马匹在一瞬间常行三百六十四由旬的神”——站在他身旁的人这样说道。
1.189.24
अजाय लोकत्रयपावनाय ।
भूतात्मने गोपतये वृषाय।
सूर्याय सर्गप्रलयालयाय ।
नमो महाकारुणिकोत्तमाय ॥ १.१८९.२४ ॥
敬礼不生者,净化三界者,众生之我,牛主,公牛,太阳,创造与毁灭的居所,大悲者中之至上者。
1.189.25
विवस्वते ज्ञानभृतेऽन्तरात्मने ।
जगत्प्रदीपाय जगद्धितैषिणे।
स्वयंभुवे दीप्तसहस्रचक्षुषे ।
सुरोत्तमायामिततेजसे नमः ॥ १.१८९.२५ ॥
敬礼毗婆娑特,持智者,内在我,世界之灯,求世界之利者。敬礼自生者,具千道光明之眼,诸神中最尊,具无量光辉者。
1.189.26
नमः सवित्रे जगदेकचक्षुषे ।
जगत्प्रसूतिस्थितिनाशहेतवे।
त्रयीमयाय त्रिगुणात्मधारिणे ।
विरिञ्चनारायणशङ्करात्मने ॥ १.१८९.२६ ॥
敬礼萨维特里,世界唯一之眼,世界生、住、灭之因,由三吠陀所成,以三德为自身而持之,其自性即梵天、那罗延与湿婆者。
1.189.27
संस्तुतो वरदः सोऽहं वरं वरय सुव्रत ।
स्तुतिस्त्वयोक्ता भक्तानां जप्येयं वग्दोस्म्यहम् ॥ १.१८९.२७ ॥
受赞颂之我即是施恩者。善誓者啊,请求一恩惠吧。你所说的这赞颂,信徒应当持诵;我以言语赐予恩惠。
1.189.28
यैषा ते तपती नाम सावित्र्यवरजा सुता ।
तां त्वां संवरणस्यार्थे वरयामि विभावसो ॥ १.१८९.२८ ॥
啊毗婆娑,你的女儿名叫多帕蒂,是萨维特丽的妹妹,我为三婆罗那向你求她。
1.189.29
स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः ।
युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम ॥ १.१८९.२९ ॥
那位国王三婆罗那,大名远扬,通晓法与利,智慧高尚。啊鸟,他确是你女儿相称的夫婿。
1.189.30
इत्युक्तः स तदा तेन ददानीत्येव निश्चितः ।
प्रत्यभाषत तं विप्रं प्रतीनन्द्य दिवाकरः ॥ १.१८९.३० ॥
他如此言说时,太阳便决定:“我将给她。”并回礼致意那婆罗门,答复了他。
1.189.31
वरः संवरणो राज्ञां त्वमृषीणां वरो मुने ।
तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् ॥ १.१८९.३१ ॥
娑婆罗那是诸王中最好的夫婿,您,哲人,是诸仙中最好的。陀帕蒂是女子中最优秀的;除了这一拒绝之外,还能求什么呢?
1.189.32
ततः सर्वानवद्याङ्गीं तपतीं तपनः स्वयम् ।
ददौ संवरणस्यार्थे वसिष्ठाय महात्मने ॥ १.१८९.३२ ॥
于是太阳亲自将肢体完美无瑕的陀帕蒂,为娑婆罗那赠予大心的伐悉瑟德。
1.189.33
प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा ।
वसिष्ठोऽथ विसृष्टस्तु पुनरेवाजगाम ह ॥ १.१८९.३३ ॥
大仙伐悉瑟德当时接受了这位少女陀帕蒂;随后告辞,又返回了。
1.189.34
यत्र विख्यातकीर्तिः स कुरूणामृषभोऽभवत् ।
स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना ॥ १.१८९.३४ ॥
那位名声远扬、乃俱卢族中的雄牛的国王,为爱神所迷,内心全然系念于她……
1.189.35
दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् ।
वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ ॥ १.१८९.३५ ॥
他看见这位天女、笑容甜美的陀帕蒂与伐悉瑟德同来,十分欢喜,光彩更盛。
1.189.36
रुरुचे साऽधिकं सुभ्रूरापतन्ती नभस्तलात् ।
सौदामनीव विभ्रष्टा द्योतयन्ती दिशस्त्विषा ॥ १.१८९.३६ ॥
那位眉目秀美的少女从天空降下,光彩更盛,如同从天际坠落的闪电,以其光辉照亮四方。
1.189.37
कृच्छ्राद्द्वादशरात्रे तु तस्य राज्ञः समाहिते ।
आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः ॥ १.१८९.३७ ॥
经过十二夜的苦修,当那位国王的心念专一时,清净心的尊贵仙人婆悉吒到来了。
1.189.38
तपसाऽऽराध्य वरदं देवं गोपतिमीश्वरम् ।
लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा ॥ १.१८९.३८ ॥
他以苦修供奉赐予恩惠的神、牛群之主自在天,桑瓦拉那凭借婆悉吒的威力得到了妻子。
1.189.39
ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते ।
जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः ॥ १.१८९.३९ ॥
于是,在那座为天神与乾闼婆所喜爱的殊胜山上,那位人中雄牛依照礼法牵起了达帕蒂的手。
1.189.40
वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे ।
सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया ॥ १.१८९.४० ॥
得到婆悉吒的允许后,那位王仙便想在那座山上与妻子嬉游。
1.189.41
ततः पुरे च राष्ट्रे च वनेषूपवनेषु च ।
आदिदेश महीपालस्तमेव सचिवं तदा ॥ १.१८९.४१ ॥
于是,这位大地守护者向同一位大臣下达命令,无论城中、国内、森林或园林。
1.189.42
नृपतिं त्वभ्यनुज्ञाप्य वसिष्ठोऽथापचक्रमे ।
सोऽथ राजा गिरौ तस्मिन्विजहारामरो यथा ॥ १.१८९.४२ ॥
婆悉吒向国王告辞后离去。那位国王便在那座山上如天神一般嬉游。
1.189.43
ततो द्वादशवर्षाणि काननेषु वनेषु च ।
रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया ॥ १.१८९.४३ ॥
此后十二年间,国王与妻子在那座山上、林间与丛林中嬉游。
1.189.44
तस्य राज्ञः पुरे तस्मिन्समा द्वादश सत्तम ।
न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य भारत ॥ १.१८९.४४ ॥
善人中最优秀者啊!十二年间,千眼者(因陀罗)未在那位国王的城邦及其领土降雨,婆罗多的后裔啊。
1.189.45
ततस्तस्यामनावृष्ट्यां प्रवृत्तायामरिन्दम ।
प्रजाः क्षयमुपाजग्मुः सर्वाः सस्थाणुजङ्गमाः ॥ १.१८९.४५ ॥
于是,制伏敌人者啊,当那场旱灾降临时,一切生灵,无论静止的还是运动的,都走向了毁灭。
1.189.46
तस्मिंस्तथाविधे काले वर्तमाने सुदारुणे ।
नावश्यायः पपातोर्व्यां ततः सस्यानि नाऽरुहन् ॥ १.१८९.४६ ॥
在如此可怖的时节,地上连露水也不降,于是庄稼也不发芽。
1.189.47
ततो विभ्रान्तमनसो जनाः क्षुद्भपीडिताः ।
गृहाणि संपरित्यज्य बभ्रमुः प्रदिशो दिशः ॥ १.१८९.४७ ॥
于是,心神迷乱、为饥渴所苦的百姓离开家园,四处游荡于各方各隅。
1.189.48
ततस्तस्मिन्पुरे राष्ट्रे त्यक्तदारपरिग्रहाः ।
परस्परममर्यादाः क्षुधार्ता जघ्निरे जनाः ॥ १.१८९.४८ ॥
于是,在那座城邦和那片领土中,人们抛弃妻子与财物,失去一切节制,因饥饿所苦而互相残杀。
1.189.49
तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तथा नरैः ।
अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् ॥ १.१८९.४९ ॥
饥饿折磨、毫无欢乐、形如尸体的人们,使那座城市变得像阎罗王的城市,仿佛被鬼魂所包围。
1.189.50
ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः ।
अभ्याद्रवत धर्मात्मा वसिष्ठो मुनिसत्तमः ॥ १.१८९.५० ॥
于是,见到这般情景,那位尊贵的仙人、正直的婆悉瑟吒、诸仙中最优秀者,急忙赶了过去。
1.189.51
तं च पार्थिवशार्दूलमानयामास तत्पुरम् ।
तपत्या सहितं राजन्वर्षे द्वादशमे गते।
ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा ॥ १.१८९.५१ ॥
大王,十二年过去后,他把那位王中猛虎与达帕提一同带回了那座城市。于是那里像从前一样下起了雨,那位杀灭诸神之敌者降下了甘霖。
1.189.52
तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः ।
प्रववर्ष सहस्राक्षः सस्यानि जनयन्प्रभुः ॥ १.१८९.५२ ॥
那位王中猛虎再次进入城市时,千眼之主再次降雨,使庄稼生长。
1.189.53
ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा ।
तेन पार्थिवमुख्येन भावितं भावितात्मना ॥ १.१८९.५३ ॥
于是那座城市与王国都欢喜无比;由那位心灵纯净的王中之首使之繁荣。
1.189.54
ततो द्वादश वर्षाणि पुनरीजे नराधिपः ।
तपत्या सहितः पत्न्या यथा शच्या मरुत्पतिः ॥ १.१८९.५४ ॥
此后十二年,那位人主又与达帕提、与王后一同祭祀,正如摩路多之主因陀罗与舍质同在。
1.189.55
एवमासीन्महाभागा तपती नाम पौर्विकी ।
तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः ॥ १.१८९.५५ ॥
如此,有名为达帕提(Tapatī)的大福女子,属普鲁人(Paurava)族。阿周那啊,她是毗婆娑婆(太阳)之女,因她你被视为达帕提之裔(Tāpatya)。
1.189.56
तस्यां संजनयामास कुरुं संवरणो नृपः ।
तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन ॥ १.१८९.५६ ॥
国王三婆罗纳(Saṃvaraṇa)与她生下了俱卢(Kuru)。阿周那啊,你是炽热者中最优秀的,因此你是达帕提之裔(Tāpatya)。