摩诃婆罗多 · 章 1.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.19.1
अथावरणमुख्यानि नानाप्रहरणानि च ।
प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ॥ १.१९.१ ॥
于是,提陀与檀那婆们结伴,手持主要铠甲和各种兵器,向诸天神猛冲过去。
1.19.2
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् ।
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ॥ १.१९.२ ॥
于是大力神毗湿奴与那罗同行,从檀那婆诸王手中夺回了那甘露。
1.19.3
ततो देवगणाः सर्वे पपुस्तदमृतं तदा ।
विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति ॥ १.१९.३ ॥
于是诸天神众从毗湿奴处得到那甘露,在一片混乱喧嚣之中全都饮下。
1.19.4
पाययत्यमृतं देवान्हरौ बाहुबलान्नरः ।
निरोधयति चापेन दूरीकृत्य धनुर्धरान्।
ये येऽमृतं पिबन्ति स्म ते ते युद्ध्यन्ति दानवैः ॥ १.१९.४ ॥
那罗以诃利臂膀之力使诸天神饮甘露,并以弓箭驱退、阻挡持弓之敌。凡饮甘露者,此时都与檀那婆作战。
1.19.5
ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् ।
राहुर्विबुधरूपेण दानवः प्रापिबत्तदा ॥ १.१९.५ ॥
当诸天神正饮那渴望已久的甘露时,檀那婆罗睺化作天神模样,也饮下了甘露。
1.19.6
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा ।
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ॥ १.१९.६ ॥
甘露到达那檀那婆的喉咙时,月亮与太阳出于对诸天神的善意,揭示了此事。
1.19.7
ततो भगवता तस्य शिरश्छिन्नमलंकृतम् ।
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ॥ १.१९.७ ॥
于是,以轮为武器的世尊,用轮剑斩下了那正在大力饮用甘露的人的装饰之首。
1.19.8
तच्छैलशृह्गप्रङ्गिमं दानवस्य शिरो महत् ।
चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् ॥ १.१९.८ ॥
那达那婆巨大的头颅如山峰一般,被轮剑斩断坠落,震动了大地表面。
1.19.9
चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम् ।
तत्कबन्धं पपातास्य विस्फुरद्धरणीतले ॥ १.१९.९ ॥
被轮剑斩断的那颗头飞入空中,发出极其恐怖的吼声;其无头躯干则挣扎着倒在大地之上。
1.19.10
त्रयोदश सहस्राणि चतुरश्रं समन्ततः ।
सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम् ॥ १.१९.१० ॥
它使达伊迪亚的大地震动——方圆一万三千由旬,四面环绕着山脉、森林与岛屿。
1.19.11
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै ।
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ॥ १.१९.११ ॥
于是,罗睺以其口与月亮、太阳结下了永恒的仇怨;直到今天,他仍吞噬着这二者。
1.19.12
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः ।
नानाप्रहरणैर्भीमैर्दानवान्तमकम्पयत् ॥ १.१९.१२ ॥
世尊哈里舍弃了他那无与伦比的女身,以各种可怕的兵器使达那婆大军颤抖。
1.19.13
ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः ।
सुराणामसुराणां च सर्वघोरतरो महान् ॥ १.१९.१३ ॥
于是在咸海附近,诸天与阿修罗之间爆发了一场最为可怖的大战。
1.19.14
प्रासाश्च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः ।
तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ॥ १.१९.१४ ॥
巨大锋利的长矛成千上万地落下,尖锐的投枪和各式各样的兵器也一同坠落。
1.19.15
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु ।
असिशक्तिगदारुग्णा निपेतुर्धरणीतले ॥ १.१९.१५ ॥
于是阿修罗被轮盘斩裂,吐出大量鲜血,又被剑、枪、棍棒击碎,纷纷倒卧于大地之上。
1.19.16
छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः ।
तप्तकाञ्चनमालीनि निपेतुरनिशं तदा ॥ १.१९.१६ ॥
战场上,被可怖的铁棒斩下的头颅,佩戴着炽热的金鬘,那时不断地坠落。
1.19.17
रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः ।
अद्रीणामिव कूटानि धातुरक्तानि शेरते ॥ १.१९.१७ ॥
被杀的大阿修罗们身上涂满鲜血,躺卧如同被矿石染红的山峰。
1.19.18
आहाकारः समभवत्तत्र तत्र सहस्रशः ।
अन्योन्यंछिन्दतां शस्त्रैरादित्ये लोहितायति ॥ १.१९.१८ ॥
四处千万般的哀号“啊呀”声骤起,他们以兵器互相斩杀,太阳也渐渐变红。
1.19.19
परिघैरायसैस्तीक्ष्णैः सन्निकर्षे च मुष्टिभिः ।
निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥ १.१९.१९ ॥
在战场上,他们以锋利的铁棍相击,近身时则以拳相打,喧嚣之声仿佛触及了天空。
1.19.20
छिन्धिभिन्धि प्रधाव त्वं पातयाभिसरेति च ।
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः ॥ १.१९.२० ॥
“砍!刺!冲上去!打倒!进攻!”——这样极其可怕的呼喊声从四面八方传来。
1.19.21
एवं सुतुमुले युद्धे वर्तमाने महाभये ।
नरनारायणौ देवौ समाजग्मतुराहवम् ॥ १.१९.२१ ॥
当这场极其混乱、充满巨大危险的战斗正在进行时,二神那罗与那罗延来到了战场。
1.19.22
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि ।
चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम् ॥ १.१९.२२ ॥
在那里,看见那罗的神弓,世尊毗湿奴也想到了那支斩杀檀那婆的神轮。
1.19.23
ततोऽम्बराच्चिन्तितमात्रमागतं ।
महाप्रभं चक्रममित्रतापनम्।
विभावसोस्तुल्यमकुण्ठमण्डलं ।
सुदर्शनं संयति भीमदर्शनम् ॥ १.१९.२३ ॥
于是,念头一起,那大光明、令敌人痛苦的神轮便从天空降下,如同火焰一般,边缘不钝,名为苏达尔沙那,在战场上令人望而生畏。
1.19.24
तदागतं ज्वलितहुताशनप्रभं ।
भयंकरं करिकरबाहुरच्युतः।
मुमोच वै प्रबलवदुग्रवेगवा-
न्महाप्रभं परनगरावदारणम् ॥ १.१९.२४ ॥
那来到的、光如燃烧之火的可怖神轮,被手臂如象鼻的阿周那(不朽者)以强大力量与猛烈速度掷出——那大光明之轮,能劈开敌人的城池。
1.19.25
तदन्तकज्वलनसमानवर्चसं ।
पुनःपुनर्न्यपतत वेगवत्तदा।
विदारयद्दितिदनुजान्सहस्रशः ।
करेरितं पुरुषवरेण संयुगे ॥ १.१९.२५ ॥
彼如死神之火般光辉,疾速地一再扑下;在战场上被最杰出之人的手掷出,他将提提与达努之子的阿修罗成千地撕裂。
1.19.26
दहत्क्वचिज्ज्वलन इवावलेलिह-
त्प्रसह्य तानसुरगणान्न्यकृन्तत।
प्रवेरितं वियति मुहुः क्षितौ तथा ।
पपौ रणे रुधिरमथो पिशाचवत् ॥ १.१९.२६ ॥
他时而如燃烧的火焰般舔舐,猛烈地砍倒那些阿修罗众;一再被抛向天空与大地,在战场上像毕舍遮一样饮血。
1.19.27
तथाऽसुरा गिरिभिरदीनचेतसो ।
मुहुर्मुहुः सुरगणमार्दयंस्तदा।
महाबला विगलितमेघवर्चसः ।
सहस्रशो गगनमभिप्रपद्यह ॥ १.१९.२७ ॥
阿修罗们心志不屈,同样一再以山岳攻击天神之众;那些大力者,带着散乱云朵般的光辉,成千地冲向天空。
1.19.28
अथाम्बराद्भयजननाः प्रपेदिरे ।
सपादपा बहुविधमेघरूपिणः।
महाद्रयः परिगलिताग्रसानवः ।
परस्परं द्रुतमभिहत्य सस्वनाः ॥ १.१९.२८ ॥
于是,从天空中坠下令人恐怖的、带着树木的、形如诸种云朵的大山;其山峰与山坡崩碎,彼此相撞,轰鸣着迅速坠落。
1.19.29
ततो मही प्रविचलिता सकानना ।
महाद्रिपाताभिहता समन्ततः।
परस्परं भृशमभिगर्जतां मुहू ।
रणाजिरे भृशमभिसंप्रवर्तिते ॥ १.१९.२९ ॥
于是大地连同森林剧烈震动,四面被巨山的坠落所撞击;当彼此不断大声咆哮,可怕的战斗在战场上猛烈展开时。
1.19.30
नरस्ततो वरकनकाग्रभूषणै-
र्महेषुभिर्गगनपथं समावृणोत्।
विदारयन्गिरिशिखराणि पत्रिभि-
र्महाभयेऽसुरगणविग्रहे तदा ॥ १.१९.३० ॥
于是那罗以饰有上好金尖的大箭遮蔽了天空之路,并在那场与阿修罗大军的恐怖战斗中,以羽箭劈裂山峰。
1.19.31
ततो महीं लवणजलं च सागरं ।
महासुराः प्रविविशुरर्दिताः सुरैः।
वियद्गतं ज्वलितहुताशनप्रभं ।
सुदर्शनं परिकुपितं निशाम्य ते ॥ १.१९.३१ ॥
那时,被诸天折磨的大阿修罗们进入大地和咸水之海,他们看见愤怒的苏达尔沙那升入天空,光芒如熊熊烈火。
1.19.32
ततः सुरैर्विजयमवाप्य मन्दरः ।
स्वमेव देशं गमितः सुपूजितः।
विनाद्य खं दिवमपि चैव सर्वश-
स्ततो गताः सलिलधरा यथागतम् ॥ १.१९.३२ ॥
于是,曼陀罗山借诸天之力获胜,受到极大尊崇,回到了原来的地方;那些携带云雨的乌云,使天空与天界四面轰鸣后,便按来时的路离去了。
1.19.33
ततोऽमृतं सुनिहितमेव चक्रिरे ।
सुराः पुरां मुदमभिगम्य पुष्कलाम्।
ददो च तं निधिममृतस्य रक्षितुं ।
किरीटिने बलभिदथामरैः सह ॥ १.१९.३३ ॥
于是诸天妥善收藏了甘露;他们怀着极大的喜悦前往各自的城邦,灭力之因陀罗与诸不死者一同,将这甘露宝藏交付给戴冠的阿周那守护。