摩诃婆罗多 · 章 1.190
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.190.1
स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ ।
अर्जुनः परया भक्त्या पूर्णचन्द्र इवाबभौ ॥ १.१९०.१ ॥
婆罗多族的雄牛啊,阿周那听了乾闼婆的话,便以至高的虔敬,如满月般光辉照耀。
1.190.2
उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः ।
जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् ॥ १.१९०.२ ॥
这位大弓箭手、俱卢族中最优秀的人,满怀对苦行所生的婆私吒之力的强烈好奇,向乾闼婆说道。
1.190.3
वसिष्ठ इति तस्यैतदृषेर्नाम त्वयेरितम् ।
एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे ॥ १.१९०.३ ॥
你所说的这位仙人之名为'婆私吒'。我想听,请如实地告诉我。
1.190.4
य एष गन्धर्वपते पूर्वेषां नः पुरोहितः ।
आसीदेतन्ममाचक्ष्व क एष भगवानृषिः ॥ १.१९०.४ ॥
乾闼婆之主啊,这位曾作为我们祖先家庭祭司的尊贵仙人究竟是谁?请告诉我。
1.190.5
ब्रह्मणो मानसः पुत्रो वसिष्ठोऽरुन्धतीपतिः ।
तपसा निर्जितौ शश्वदजेयावमरैरपि ॥ १.१९०.५ ॥
婆私吒是梵天意生之子,阿兰陀蒂的丈夫。他凭借苦行常常获胜,即使诸天神也无法战胜他。
1.190.6
कामक्रोधावुभौ यस्य चरणौ समुवाहतुः ।
इन्द्रियाणां वशकरो वशिष्ठ इति चोच्यते ॥ १.१९०.६ ॥
欲望与愤怒二者都臣服于其足下,能驾驭诸根者,名为婆私吒。
1.190.7
यथा कामश्च क्रोधश्च निर्जितावजितौ नरैः ।
जितारयो जिता लोकाः पन्थानश्च जिता दिशः ॥ १.१९०.७ ॥
欲望与愤怒,被人征服则被征服,未被征服则不可战胜;能征服它们者,便能征服敌人、征服诸世界、征服道路与四方。
1.190.8
यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः ।
विश्वामित्रापराधेन धारयन्मन्युमुत्तमम् ॥ १.१९०.८ ॥
然而心胸宽广者,因毗首密多罗之过而怀有至上之怒,却未使俱舍族灭绝。
1.190.9
पुत्रव्यसनसंतप्तः शक्तिमानप्यशक्तवत् ।
विश्वामित्रविनाशाय न चक्रे कर्म दारुणम् ॥ १.१९०.९ ॥
他因失子之痛而饱受煎熬,虽有权能却如同无力,未为毁灭毗首密多罗而行任何残酷之事。
1.190.10
मृतांश्च पुनराहर्तुं शक्तः पुत्रान्यमक्षयात् ।
कृतान्तं नातिचक्राम वेलामिव महोदधिः ॥ १.१९०.१० ॥
他虽能从阎摩之界夺回死去的儿子,却未逾越死神(劫多),正如大海不越其岸。
1.190.11
यं प्राप्य विजितात्मानं महात्मानं नराधिपाः ।
इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम् ॥ १.१९०.११ ॥
伊克什瓦库诸王得到这位战胜自我的大德之人,遂获得了这片大地,诸王为人主、地之守护者。
1.190.12
पुरोहितमिमं प्राप्य वसिष्ठमृषिसत्तमम् ।
ईजिरे क्रतुभिश्चैव नृपास्ते कुरुनन्दन ॥ १.१९०.१२ ॥
诸王得此祭司、诸仙之最的婆私吒,故能行祭祀,啊,俱卢之喜悦。
1.190.13
स हि तान्याजयामास सर्वान्नृपतिसत्तमान् ।
ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान् ॥ १.१९०.१३ ॥
般度之子中的最优者啊,那位梵仙为所有最优秀的国王主持祭祀,如同布利哈斯帕蒂为诸神主持一样。
1.190.14
तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः ।
ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रतिदृश्यताम् ॥ १.१९०.१४ ॥
因此应寻找一位品德优良、以法为本性、通晓吠陀法、为众人所敬爱的婆罗门作为国师。
1.190.15
क्षत्रियेणाभिजातेन पृथिवीं जेतुमिच्छता ।
पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये ॥ १.१९०.१५ ॥
欲征服大地的贵族刹帝利,啊,普利塔之子,应首先任命一位国师,以使王国兴盛。
1.190.16
महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःस्कृतम् ।
तस्मात्पुरोहितः कश्चिद्गुणवान्विजितेन्द्रियः।
विद्वान्भवतु वो विप्रो धर्मकामार्थतत्त्ववित् ॥ १.१९०.१६ ॥
欲征服大地的国王应当把婆罗门的力量(祭司之力)置于前列。因此,愿一位品德优良、克制诸根、博学、通晓法、欲与利之真谛的婆罗门成为你们的国师。