摩诃婆罗多 · 章 1.192
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.192.1
ऋष्योस्तु यत्कृते वैरं विश्वामित्रवसिष्ठयोः ।
बभूव गन्धर्वपते शंस तत्सर्वमेव मे ॥ १.१९२.१ ॥
乔达摩之主啊,请把仙人毗首弥多罗与婆私吒之间产生仇怨的全部原因都告诉我。
1.192.2
माहात्म्यं च वसिष्ठस्य ब्राह्मण्यं ब्रह्मतेजसः ।
विश्वामित्रस्य च तथा क्षत्रस्य च महात्मनः ॥ १.१९२.२ ॥
还有婆私吒的威德、具有梵光的婆罗门身份,以及大德毗首弥多罗的刹帝利本性。
1.192.3
न शृण्वानस्त्वहं तृप्तिमुपगच्छामि खेचर ।
आख्याहि गन्धर्वपते शंस तत्सर्वमेव मे ॥ १.१९२.३ ॥
我虽听闻,心中仍不满足。天行者啊,乔达摩之主啊,请讲述,请把那一切都告诉我。
1.192.4
माहात्म्यं च वसिष्ठस्य विश्वामित्रस्य भाषते ॥ १.१९२.४ ॥
他讲述婆私吒与毗首弥多罗的威德。
1.192.5
इदं वासिष्ठमाख्यानं पुराणं पुण्यमुत्तमम् ।
पार्थ सर्वेषु लोकेषु विश्रुतं तन्निबोध मे ॥ १.१९२.५ ॥
这是关于婆私吒的古老、神圣而至高的传说,闻名于一切世界。帕尔塔啊,请从我这里听取。
1.192.6
कल्माषपाद इत्येवं लोके राजा बभूव ह ।
इक्ष्वाकुवंशजः पार्थ तेजसाऽसदृशो भुवि ॥ १.१९२.६ ॥
世间曾有一位名叫羯尔迈沙帕达的国王,出身于伊刹婆迦(甘蔗)王族。帕尔塔啊,大地上无人能与他的威光相比。
1.192.7
स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात् ।
मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः ॥ १.१९२.७ ॥
一次,国王为打猎从城中出发前往森林。他用箭射中鹿和野猪,这位摧敌者四处巡行。
1.192.8
तस्मिन्वने महाघोरे खङ्गांश्च बहुशोऽहनत् ।
हत्वा च सुचिरं श्रान्तो राजा निववृते ततः ॥ १.१९२.८ ॥
在那片极其可怕的森林里,他多次射杀犀牛。长时间杀戮后疲惫的国王便返回了。
1.192.9
अकामयत्तं याज्यार्थे विश्वामित्रः प्रतापवान् ।
स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् ॥ १.१९२.९ ॥
威严的毗首密多罗希望他担任祭祀的主持者。但那位国王却想要伟大的婆悉吒,众仙中最优秀者。
1.192.10
तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि ।
अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम् ॥ १.१९२.१० ॥
他饱受口渴与饥饿的折磨,沿着一条路前行,这位在战场上无敌的国王,在路上看见一位仙人迎面走来。
1.192.11
शक्तिं नाम महाभागं वसिष्ठकुलवर्धनम् ।
ज्येष्ठं पुत्रं पुत्रशताद्वसिष्ठस्य महात्मनः ॥ १.१९२.११ ॥
他看见了名叫夏克提的人,此人极有福德,是增益婆悉吒家族者,是伟大的婆悉吒一百个儿子中的长子。
1.192.12
अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् ।
तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा ॥ १.१९२.१२ ॥
“请让开我们的路。”国王这样说。于是仙人以温和的言辞安抚他,对他说道。
1.192.13
मम पन्था महाराज धर्म एष सनातनः ।
वृद्धभीरुनृपस्नातस्त्रीरोगिवरचक्रिणाम् ॥ १.१९२.१३ ॥
大王,此路是我的;这是永恒的法。老人、怯懦者、国王、沐浴者、妇女、病人及最优秀的车战士(应当让路)。
1.192.14
पन्था देयो नृपैस्तेषामन्यैस्तैस्तस्य भूपतेः ।
राज्ञा सर्वेषा धर्मेषु देयः पन्था द्विजातये ॥ १.१९२.१४ ॥
国王应当让路给他们,其他人也应当让路给那位大地之主。依法,国王应当让路给所有人,也应当让路给再生族。
1.192.15
एवं परस्परं तौ तु पथोऽर्थं वाक्यमूचतुः ।
अपसर्पापसर्पेति वागुत्तरमकुर्वताम् ॥ १.१९२.१५ ॥
于是二人为争路互相说话,彼此回答道:“让开,让开!”
1.192.16
ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः ।
अपि राजा मुनेर्मार्गात्क्रोधान्नापजगाम ह ॥ १.१९२.१६ ॥
然而仙人立于法道之上,不肯让开;国王因愤怒,也不肯离开仙人的道路。
1.192.17
अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः ।
जगाम कशया मोहात्तदा राक्षसन्मुनिम् ॥ १.१९२.१७ ॥
那位不让路的仙人,王中至尊因迷惑而持鞭上前;于是像罗刹一样击打了仙人。
1.192.18
कशाप्रहाराभिहतस्ततः स मुनिसत्तमः ।
तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः ॥ १.१९२.१८ ॥
被鞭子击中的那位最优秀的仙人,即婆悉吒之后裔,因愤怒而昏乱,诅咒了那位最优秀的国王。
1.192.19
हंसि राक्षसवद्यस्माद्राजापशद तापसम् ।
तस्मात्त्वमद्यप्रभृति पुरुषादो भविष्यसि ॥ १.१९२.१९ ॥
你像罗刹一样杀害了苦行者,国王啊,因此从今日起你将成为食人者。
1.192.20
मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् ।
गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना ॥ १.१९२.२० ॥
你将沉迷于人肉,在这片大地上流浪。「去吧,卑劣的国王」——强大的力量之神沙克提如此说道。
1.192.21
ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः ।
वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत ॥ १.१९२.२१ ॥
于是,因主祭之职,毗首弥多罗与婆悉吒之间生出仇怨;毗首弥多罗便追赶他。
1.192.22
तयोर्विवदतोरेवं समीपमुपचक्रमे ।
ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ॥ १.१९२.२२ ॥
二人如此争论之际,帕尔塔啊,苦行猛烈、威力强大的仙人毗首弥多罗走近了他们。
1.192.23
ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः ।
ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा ॥ १.१९२.२३ ॥
此后,那位王中之最才认出那位仙人是仙人婆悉吒之子,其光辉宛如婆悉吒本人。
1.192.24
अन्तर्धाय ततोऽत्मानं विश्वामित्रोऽपि भारत ।
तावुभावतिचक्राम चिकीर्षन्नात्मनः प्रियम् ॥ १.१९२.२४ ॥
于是,婆罗多之后啊,毗首弥多罗也隐藏了自己,并想成就自己的心愿,越过了那二人而去。
1.192.25
स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः ।
जगाम शरणं शक्तिं प्रसादयितुमर्हयन् ॥ १.१९२.२५ ॥
当时被沙克蒂诅咒的那位最优秀的国王,前往沙克蒂处寻求庇护,以安抚他。
1.192.26
तस्य भावं विदित्वा स नृपतेः कुरुसत्तम ।
विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति ॥ १.१९२.२६ ॥
库鲁之最优者啊,毗首弥多罗知晓了那位国王的心思,便派遣一个罗刹去对付国王。
1.192.27
शापात्तस्य तु विप्रर्षेर्विश्वामित्रस्य चाज्ञया ।
राक्षसः किङ्करो नाम विवेश नृपतिं तदा ॥ १.१९२.२७ ॥
由于那位婆罗门仙人的诅咒,也因毗首弥多罗的命令,名为金伽罗的罗刹当时便进入了国王体内。
1.192.28
रक्षसा तं गृहीतं तु विदित्वा मुनिसत्तमः ।
विश्वामित्रोऽप्यपाक्रामत्तस्माद्देशादरिन्दम ॥ १.१९२.२८ ॥
毗首弥多罗知道国王已被罗刹控制,这位圣仙中最优者也离开了那个地方,啊,降伏敌人者。
1.192.29
ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना ।
बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह ॥ १.१९२.२९ ॥
那位有智慧的国王虽然被内在的罗刹猛烈折磨,仍然以自己的力量保护着自己。
1.192.30
ददर्शाथ द्विजः कश्चिद्राजानं प्रस्थितं वनम् ।
अयाचत क्षुधापन्नः समांसं भोजनं तदा ॥ १.१९२.३० ॥
这时,一位饥饿困苦的婆罗门看见国王正要前往森林,便向他乞求带肉的食物。
1.192.31
तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा ।
आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तं प्रतिपालयन् ॥ १.१९२.३१ ॥
于是王仙米特拉萨诃对那位婆罗门说:“婆罗门啊,你就在这里坐下,稍候片刻。”
1.192.32
निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् ।
इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ॥ १.१९२.३२ ॥
“我返回后,会按你所愿给你食物。”说完,国王便离去了;那位最优秀的婆罗门仍留在那里站着。
1.192.33
ततो राजा परिक्रम्य यथाकामं यथासुखम् ।
निवृत्तोऽन्तःपुरं पार्थ प्रविवेश महामनाः ॥ १.१९२.३३ ॥
随后,国王随心所欲、悠闲自在地走了一会儿,啊普利塔之子,他心胸宽大地返回并进入了内宫。
1.192.34
अन्तर्गतस्तदा राजा श्रुत्वा ब्राह्मणभाषितम् ।
सोऽन्तःपुरं प्रविश्याथ न सस्मार नराधिपः ॥ १.१९२.३४ ॥
国王虽然听到了婆罗门的话,此时心中却另有所思;进入内宫后,这位人主便忘记了此事。
1.192.35
ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् ।
उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ॥ १.१९२.३५ ॥
随后,他在午夜起身,急忙召来厨师,想起了对婆罗门的承诺,于是国王说道。
1.192.36
गच्छामुष्मिन्वनोद्देशे ब्राह्मणो मां प्रतीक्षते ।
अन्नार्थी तं त्वमन्नेन समांसेनोपपादय ॥ १.१९२.३६ ॥
“去吧,那位婆罗门正在那片林地等候我。你为那个想要食物的婆罗门准备一顿有肉的饭食。”
1.192.37
एवमुक्तस्ततः सूदः सोऽनासाद्यामिषं क्वचित् ।
निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः ॥ १.१९२.३७ ॥
厨子听后,四处寻不到肉,心中忧惧,便向那位国王禀报。
1.192.38
राजा तु रक्षसाविष्टः सूदमाह गतव्यथः ।
अप्येनं नरमांसेन भोजयेति पुनः पुनः ॥ १.१९२.३८ ॥
那位被罗刹附身的国王,毫无忧虑,一再对厨子说:“用人肉给他吃吧。”
1.192.39
तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् ।
गत्वाऽऽजहार त्वरितो नरमांसमपेतभीः ॥ १.१९२.३९ ॥
厨子说:“好。”便前往刑吏们的住所,无所畏惧地迅速取来了人肉。
1.192.40
एतत्संस्कृत्य विधिवदन्नोपहितमाशु वै ।
तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने ॥ १.१९२.४० ॥
他依照规矩烹调好,迅速备成食物,交给饥饿的苦行婆罗门。
1.192.41
स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः ।
अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः ॥ १.१९२.४१ ॥
这位最优秀的再生者以成就的慧眼看见那食物,怒目迷乱地说:“这不可食用。”
1.192.42
यस्मादभोज्यमन्नं मे ददाति स नृपाधमः ॥ १.१९२.४२ ॥
因为那个最下劣的国王给我的是不可食用的食物。
1.192.43
सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा ।
उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् ॥ १.१९२.४३ ॥
如先前沙克提所说,他将沉迷于人肉,令众生恐惧,并在此大地上游荡。
1.192.44
द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् ।
रक्षोबलसमाविष्टो विसंज्ञश्चाभवन्नृपः ॥ १.१९२.४४ ॥
国王第二次说话时,那诅咒变得强大,国王被罗刹之力所附,失去了知觉。
1.192.45
ततः स नृपतिश्रेष्ठो रक्षसापहृतेन्द्रियः ।
उवाच शख्तिं तं दृष्ट्वा न चिरादिव भारत ॥ १.१९२.४५ ॥
于是,被罗刹夺去感官的那位最优秀的国王,看到沙克提,仿佛没有过多久,便对他说道,婆罗多之子啊。
1.192.46
यस्मादसदृशः शापः प्रयुक्तोऽयं मयि त्वया ।
तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं पुरुषानहम् ॥ १.१९२.४६ ॥
因为你对我施加了这不当的诅咒,所以因你之故,我将开始吞食人类。
1.192.47
एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयोज्य च ।
शक्तिं तं भक्षयामास व्याघ्रः पशुमिवेप्सितम् ॥ १.१९२.४७ ॥
说完这些,他立即夺去了他的性命,并吞食了沙克提,如同老虎吞食它所想要的牲畜。
1.192.48
शक्तिनं तु मृतं दृष्ट्वा विश्वामित्रः पुनःपुनः ।
वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह ॥ १.१९२.४८ ॥
毗湿伐弥多罗见沙克亭已死,便一再指示那罗刹去对付婆私瑟陀的诸子。
1.192.49
स ताञ्शक्त्यवरान्पुत्रान्वसिष्ठस्य महात्मनः ।
भक्षयामास संक्रुद्धः सिंहः क्षुद्रमृगानिव ॥ १.१९२.४९ ॥
他震怒之下吞食了大德伐悉吒的年幼诸子,如狮子吞食小鹿一般。
1.192.50
वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् ।
धारयामास तं शोकं महाद्रिरिव मेदिनीम् ॥ १.१९२.५० ॥
闻知诸子被毗首密多罗所杀,伐悉吒承受了这份悲痛,如大山承载大地。
1.192.51
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः ।
न त्वेव कौशिकोच्छेदं मेने मतिमतां वरः ॥ १.१९२.५१ ॥
这位圣者中的最高者决意自我毁灭,然而智者中的最杰出者并不愿毁灭憍尸迦(毗首密多罗)。
1.192.52
स मेरुकूटादात्मानं मुमोच भगवानृषिः ।
गिरेस्तस्य शिलायां तु तूलराशाविवापतत् ॥ १.१९२.५२ ॥
那位尊贵的仙人从弥卢山峰顶投身而下,却落在那座山的岩石上,仿佛跌在一堆棉絮之上。
1.192.53
न ममार च पातेन स यदा तेन पाण्डव ।
तदाग्निमिद्धं भगवान्संविवेश महावने ॥ १.१९२.५३ ॥
般度之子啊,当他因坠落而未死时,那位尊贵的仙人便走入大森林中燃烧的火中。
1.192.54
तं तदा सुसमिद्धोऽपि न ददाह हुताशनः ।
दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः ॥ १.१९२.५४ ॥
敌人的摧毁者啊,那时火焰虽然熊熊燃烧,却没有烧他;虽仍在燃烧,那火此时却变得清凉了。
1.192.55
स समुद्रमभिप्रेक्ष्य शोकाविष्टो महामुनिः ।
बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदाम्भसि ॥ १.१९२.५५ ॥
大仙人望见大海,被悲伤所笼罩,便在颈上系上一块沉重的石头,随即投身水中。
1.192.56
स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः ।
न ममार यदा विप्रः कथंचित्संशितव्रतः।
जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति ॥ १.१९२.५६ ॥
大仙人被海浪的力量抛到岸上,却没有死去,因为这位坚守誓愿的婆罗门不知怎样地活了下来。于是他情绪低落地又回到了自己的修行林。