摩诃婆罗多 · 章 1.193
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.193.1
ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः ।
निर्जगाम सुदुःखार्तः पुनरप्याश्रमात्ततः ॥ १.१९३.१ ॥
此时,那位仙人看见失去儿子的修行处空无一人,极度悲痛,便再次离开了修行所。
1.193.2
सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा ।
वृक्षान्बहुविधान्पार्थ हरन्तीं तीरजान्बहून् ॥ १.१९३.२ ॥
他看见一条河,被雨季的新水灌满,冲走了许多长在岸边的各种树木,哦,普利塔之子。
1.193.3
अथ चिन्तां समापेदे पुनः कौरवनन्दन ।
अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः ॥ १.१९३.३ ॥
于是,库鲁之乐啊,他又陷入沉思:“让我沉入这水中吧。”他充满了悲伤。
1.193.4
ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः ।
तस्या जले महानद्या निममज्ज सुदुःखितः ॥ १.१९३.४ ॥
于是,这位大仙用绳索把自己紧紧捆住,极度痛苦地沉入那条大河的水中。
1.193.5
अथ च्छित्त्वा नदी पाशांस्तस्यारिबलसूदन ।
स्थलस्थं तमृषिं कृत्वा विपाशं समवासृजत् ॥ १.१९३.५ ॥
于是河流斩断了他的绳索,哦,敌军的毁灭者,它把仙人安置在干地上,并将他释放,称之为“无缚”(Vipāśā)。
1.193.6
उत्ततार ततः पाशैर्विमुक्तः स महानृषिः ।
विपाशेति च नामास्या नद्याश्चक्रे महानृषिः ॥ १.१९३.६ ॥
随后,大仙摆脱了绳索,从河中走出,并给这条河取名为“无缚”(Vipāśā)。
1.193.7
सा विपाशेति विख्याता नदी लोकेषु भारत ।
ऋषेस्तस्य नरव्याघ्र वचनात्सत्यवादिनः।
उत्तीर्य च तदा राजन्दुःखितो भगवानृषिः ॥ १.१९३.७ ॥
此河因那位诚实的仙人之言,婆罗多啊,从此在世间以毗波莎之名闻名。人中之虎啊,国王,那时渡河之后,悲伤的尊贵仙人……
1.193.8
शोके बुद्धिं तदा चक्रे न चैकत्र व्यतिष्ठत ।
सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च ॥ १.१९३.८ ॥
他沉浸于悲伤,不在一处停留。他前往山岳、河流与湖泊。
1.193.9
दृष्ट्वा स पुनरेवर्षिर्नदीं हैमवतीं तदा ।
चण्डग्राहवतीं भीमां तस्याः स्रोतस्यपातयत् ॥ १.१९३.९ ॥
仙人见到喜马拉雅之河,便再次投身于其激流,那河因凶猛的鳄鱼而可怖。
1.193.10
सा तमग्निसं विप्रमनुचिन्त्य सरिद्वरा ।
शतधा विद्रुता तस्माच्छतद्रुरिति विश्रुता ॥ १.१९३.१० ॥
此最尊之河想起那如火般的婆罗门仙人,便分散为百道而逃,因此得名沙陀卢。
1.193.11
ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना ।
मर्तुं न शक्यमित्युक्त्वा पुवरेवाश्रमं ययौ ॥ १.१९३.११ ॥
随后见自己已在陆地,他又在那里自语:“我不能死。”于是他再次返回了修行处。
1.193.12
स गत्वा विविधाञ्शैलान्देशान्बहुविधांस्तथा ।
अदृशन्त्याख्यया वध्वाथाश्रमेनुसृतोऽभवत् ॥ १.१९३.१२ ॥
他前往各处山岳与多种地域,以新娘之名隐而不现,随后又循着通往修行处的路前行。
1.193.13
अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम् ।
पृष्ठतः परिपूर्णार्थं षड्मिरङ्गैरलङ्कृतम् ॥ १.१९३.१३ ॥
此时,他偶然从身后听到了诵读吠陀的声音,充满义理,并以六支庄严。
1.193.14
अनुव्रजति कोन्वेष मामित्येवाथ सोऽब्रवीत् ।
अदृश्यन्त्येवमुक्ता वै तं स्नुषा प्रत्यभाषत ॥ १.१९३.१४ ॥
“是谁跟在我后面?”他这样说。阿德利什延提如此说了之后,儿媳便回答了他。
1.193.15
शक्तोभार्या महाभाग तपोयुक्ता तपस्विनम् ।
अहमेकाकिनी चापि त्वया गच्छामि नापरः ॥ १.१९३.१५ ॥
“大福之人啊,我是专心苦行的妻子,能够与你这位苦行者同行。我独自与你同去,别无他人。”
1.193.16
पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः ।
पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः ॥ १.१९३.१६ ॥
“女儿,这带支分的吠陀诵习之声是谁的?从前我听到的,正如夏克提的带支分之吠陀声。”
1.193.17
अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते ।
समा द्वादश तस्येह वेदानभ्यस्यतो मुने ॥ १.१९३.१७ ॥
“这是你的儿子夏克提的胚胎,在我的腹中孕育。哦,圣人,他在这里已学习吠陀十二年了。”
1.193.18
एवमुक्तस्तया हृष्टो वसिष्ठः श्रेष्ठभागृषिः ।
अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत ॥ १.१९३.१८ ॥
她这样说了,福运最盛的仙人婆悉瑟吒欢喜起来,说:“有子嗣了。”哦,普利塔之子,他从死亡之中回返。
1.193.19
ततः प्रतिनिवृत्तः स तया वध्वा सहानघ ।
कल्माषपादमासीनं ददर्श विजने वने ॥ १.१९३.१९ ॥
于是,无瑕者啊,他与妻子一同返回,在幽静的森林中看见了坐着的羯摩沙波陀。
1.193.20
स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत ।
आविष्टो रक्षसोग्रेण इयेषात्तुं तदा मुनिम् ॥ १.१९३.२० ॥
婆罗多啊,国王一见他便怒而起身;被凶猛的罗刹附身的他,此时想要吞食那位仙人。
1.193.21
अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः ।
भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत् ॥ १.१९३.२१ ॥
她见那行残暴之事者就在眼前,便隐身,以因恐惧而颤抖的声音对婆私吒说道。
1.193.22
असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः ।
प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति दारुणः ॥ १.१९३.२२ ॥
尊者啊,那个可怖的罗刹手持如同死神般凶猛的杖与高举的木棍,从这里走来。
1.193.23
तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन ।
स्वदृतेऽद्य महाभाग सर्ववेदविदां वर ॥ १.१९३.२३ ॥
今日,大福德者啊,诸吠陀知者中最殊胜的人,除你之外,世上再无他人能阻止他。
1.193.24
पाहि मां भगवन्पापादस्माद्दारुणदर्शनात् ।
राक्षसोऽयमिहात्तुं वै नूनमावां समीहते ॥ १.१९३.२४ ॥
尊者啊,请保护我免受这外貌可怖的罪人之害;这罗刹在此必定想要吞吃我们二人。
1.193.25
माभैः पुत्रि न भेतव्यं राक्षसात्तु कथंचन ।
नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम् ॥ १.१९३.२५ ॥
女儿,不要害怕;绝不要怕罗刹。你眼前所见的,并非可怕之物。
1.193.26
राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि ।
स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः ॥ १.१९३.२६ ॥
这位是国王羯摩沙波陀,以威力闻名于世。他在此林区居住,极其可怖。
1.193.27
तमापतन्तं संप्रेक्ष्य वसिष्ठो भगवानृषिः ।
वारयामास तेजस्वी हुङ्कारेणैव भारत ॥ १.१९३.२७ ॥
薄伽梵仙人婆悉吒见他扑来,光辉耀眼,婆罗多啊,仅以一声怒吼便将他制止。
1.193.28
मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा ।
मोक्षयामास वै शापात्तस्माद्योगान्नराधिपम् ॥ १.१९३.२८ ॥
随后,他再以经咒净化的水洒向他,使那人间之主脱离了诅咒,也脱离了那股瑜伽之力。
1.193.29
स हि द्वादश वर्षाणि वासिष्ठस्यैव तेजसा ।
ग्रस्त आसीद्ग्रहेणेव पर्वकाले दिवाकरः ॥ १.१९३.२९ ॥
他十二年间被婆悉吒的威力所笼罩,正如日食之时太阳被行星所遮蔽。
1.193.30
रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत् ।
तेजसा रञ्जयामास न्ध्याभ्रमिव भास्करः ॥ १.१९३.३० ॥
摆脱罗刹之后,那位国王以其光辉照耀着这片大森林,正如太阳映照晚霞的云彩。
1.193.31
प्रतिलभ्य ततः संज्ञामभिवाद्य कृताञ्जलिः ।
उवाच नृपतिः काले वसिष्ठमृषिसत्तमम् ॥ १.१९३.३१ ॥
国王恢复知觉,合掌行礼,适时对最杰出的仙人伐悉吒说道。
1.193.32
सौदासोऽहं महाभाग याज्यस्ते मुनिसत्तम ।
अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते ॥ १.१९३.३२ ॥
我是苏陀娑之子,尊贵的圣者,最杰出的仙人;我是您可以为之主持祭祀的人。请告诉我,您现在想要什么?我为您做什么?
1.193.33
वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि वै ।
ब्राह्मणं तु मनुष्येन्द्र माऽवमंस्थाः कदाचन ॥ १.१९३.३३ ॥
此事已依其时而成。现在去吧,治理你的国家;但是人中之王啊,切勿对婆罗门有任何不敬。
1.193.34
नावमंस्ये महाभाग कदाचिद्ब्राह्मणर्षभान् ।
त्वन्निदेशे स्थितः सम्यक् पूजयिष्याम्यहं द्विजान् ॥ १.१९३.३४ ॥
尊贵者啊,我绝不会不敬最优秀的婆罗门;遵从您的吩咐,我将恰当地尊敬再生者。
1.193.35
इक्ष्वाकूणां च येनाहमनृणः स्यां द्विजोत्तम ।
तत्त्वत्तः प्राप्तुमिच्छामि सर्ववेदविदां वर ॥ १.१९३.३५ ॥
再生者中最杰出者啊,我愿从您这里获得使我脱离对伊克瓦库家族之债的方法,博通诸吠陀的最优秀者啊。
1.193.36
अपत्यायेप्सिताय त्वं महिषीं गन्तुमर्हसि ।
शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये ॥ १.१९३.३६ ॥
为了你所期望的子嗣,为了伊克瓦库家族的兴盛,你应当去见你的正妃,她具备品德、容貌与美德。
1.193.37
ददानीत्येव तं तत्र राजानं प्रत्युवाच ह ।
वसिष्ठः परमेष्वासं सत्यसन्धो द्विजोत्तमः ॥ १.१९३.३७ ॥
守信的婆罗门中最优秀的婆悉瑟吒在那里对这位最伟大的弓箭手国王说:“我会给予。”
1.193.38
ततः प्रतिययौ काले वसिष्ठः सह तेन वै ।
ख्यातां पुरीमिमां लोकेष्वयोध्यां मनुजेश्वर ॥ १.१९३.३८ ॥
随后,在适当的时候,婆悉瑟吒与那位国王一同返回。人主啊,这座在诸界闻名的城市便是阿逾陀。
1.193.39
तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्गतास्तदा ।
विपाप्मानं महात्मानं दिवौकस इवेश्वरम् ॥ १.१९३.३९ ॥
那时,众民欢欣地出迎这位无罪的大德之王,如同诸天迎接他们的主宰。
1.193.40
सुचिराय मनुष्येन्द्रो नगरीं पुण्यलक्षणाम् ।
विवेश सहितस्तेन वसिष्ठेन महर्षिणा ॥ १.१९३.४० ॥
经过很长时间,人主与大仙婆悉瑟吒一同进入了这座吉祥征兆的城市。
1.193.41
ददृशुस्तं महीपालमयोध्यावासिनो जनाः ।
पुरोहितेन सहितं दिवाकरमिवोदितम् ॥ १.१९३.४१ ॥
阿逾陀的居民看见那位国王与家族祭司同行,宛如升起的太阳。
1.193.42
स च तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः ।
अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः ॥ १.१९३.४२ ॥
这位最光耀者以其光辉充满了阿逾陀,如同秋季升起的清辉之月充满天空。
1.193.43
संसक्तिमृष्टपन्थानं पताकाध्वजशोभितम् ।
मनः प्रह्लादयामास तस्य तत्पुरमुत्तमम् ॥ १.१९३.४३ ॥
那座殊胜的城市,道路洁净而人群熙攘,装饰着旗幡与幢幡,使他的心感到欢喜。
1.193.44
तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन ।
अशोभत तदा तेन शक्रेणेवामरावती ॥ १.१९३.४४ ॥
俱卢之喜悦者啊,那座充满满足而丰盛之民的城市,那时因他而光彩照人,如同因因陀罗而显耀的天城阿摩罗婆提。
1.193.45
ततः प्रविष्टे राजर्षौ तस्मिंस्तत्पुरमुत्तमम् ।
राज्ञस्तस्याज्ञया देवी वसिष्ठमुपचक्रमे ॥ १.१९३.४५ ॥
那位王仙进入那座殊胜的城市之后,王后遵照国王的命令,开始去接近仙人伐悉瑟吒。
1.193.46
ऋतावथ महर्षिस्तु संबभूव तया सह ।
देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः ॥ १.१९३.४६ ॥
此后于经期之时,那位大仙依神圣仪轨与她结合——即伐悉瑟吒,得享殊胜之分的仙人。
1.193.47
ततस्तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः ।
राज्ञाभिवादितस्तेन जगाम मुनिराश्रमम् ॥ १.१९३.४७ ॥
此后她怀了胎,那位最为优秀的仙人受到国王恭敬的致礼,便返回自己的修行林中。
1.193.48
दीर्घकालेन सा गर्भं सुषुवे न तु तं यदा ।
तदा देव्यश्मना कुक्षिं निर्बिभेद यशस्विनी ॥ १.१९३.४८ ॥
很久之后她仍未能分娩那胎儿;于是这位声名显赫的王后用石头剖开了自己的腹部。
1.193.49
ततो द्वादशमे वर्षे स जज्ञे पुरषर्षभः ।
अश्मको नाम राजर्षिः पौदन्यं यो न्यवेशयत् ॥ १.१९३.४९ ॥
十二年后,他降生了,乃人中之雄:名为阿什摩迦的王仙,他建立了波丹耶城。