摩诃婆罗多 · 章 1.194
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.194.1
आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत ।
शक्तेः कुलकरं राजन् द्वितीयमिव शक्तिनम् ॥ १.१९४.१ ॥
其时,阿德里希扬蒂住在修行处,生下一子,王啊,他将延续沙克提的家族,仿佛另一个沙克提。
1.194.2
जातकर्मादिकास्तस्य क्रियाः स मुनिसत्तमः ।
पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम् ॥ १.१९४.२ ॥
婆罗多族中最优秀者啊,那位尊贵的圣者之首亲自为他的孙子举行了诞生礼等仪式。
1.194.3
परासुः स यतस्तेन वसिष्ठः स्थापितो मुनिः ।
गर्भस्थेन ततो लोके पराशर इति स्मृतः ॥ १.१९४.३ ॥
因为那个已无生命的孩子被伐悉瑟吒立为圣者,所以他在胎中时就在世上被称为波罗奢罗。
1.194.4
अमन्यत स धर्मात्मा वसिष्ठं पितरं मुनिः ।
जन्मप्रभृति तस्मिंस्तु पितरीवान्ववर्तत ॥ १.१९४.४ ॥
那位心地正直的圣者视伐悉瑟吒为父亲;自出生起,他对待他就如同对待父亲一般。
1.194.5
स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत ।
मातुः समक्षं कौन्तेय अदृश्यन्त्याः परन्तप ॥ १.१९४.५ ॥
他在母亲阿德里希扬蒂面前,称婆罗门仙人伐悉瑟吒为“亲爱的父亲”,啊,贡蒂之子,敌人的克星。
1.194.6
तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः ।
अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वती तमुवाच ह ॥ १.१९४.६ ॥
他那句“亲爱的父亲”的甜美话语意味深长;阿德里希扬蒂泪眼盈盈地听着,对他说道。
1.194.7
मा तात ताततातेति ब्रूह्येनं पितरं पितुः ।
रक्षसा भक्षितस्तात तव तातो वनान्तरे ॥ १.१९४.७ ॥
不要说“父亲,父亲”。请把这话告诉你父亲的父亲:孩子,你的父亲在林中深处被罗刹吞食了。
1.194.8
मन्यसे यं तु तातेति नैष तातस्तवानघ ।
आर्य एष पिता तस्य पितुस्तव यशस्विनः ॥ १.१९४.८ ॥
无罪之人啊,你以为是父亲的那位并非你的父亲。这位尊贵者是你那位声名显赫的父亲的父亲。
1.194.9
स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः ।
सर्वलोकविनाशाय मतिं चक्रे महामनाः ॥ १.१९४.९ ॥
他被这样告知后,因悲痛而苦恼,这位说真话、最杰出的仙人、心胸宽广的人,便决意毁灭一切世界。
1.194.10
तं तथा निश्चितात्मानं स महात्मा महातपाः ।
ऋषिर्ब्रह्मविदां श्रष्ठो मैत्रावरुणिरन्त्यधीः ॥ १.१९४.१० ॥
对于如此决意的他,那位大心、大苦行的仙人,梵智者中最杰出者,弥多罗-伐楼那之子,以最终智慧者,(制止了他)。
1.194.11
वसिष्ठो वारयामास हेतुना येन तच्छृणु ।
कृतवीर्य इति ख्यातो बभूव पृथिवीपतिः ॥ १.१९४.११ ॥
婆私吒制止了他;听我说其中的缘由。那位名为“作力”的人成为了大地之主。
1.194.12
याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः ।
स तानग्रभुजस्तात धान्येन च धनेन च ॥ १.१९४.१२ ॥
孩子啊,他是诸王中的雄牛,在世间值得为通晓吠陀者主持祭祀;他首先以谷物和财富供养婆利古族。
1.194.13
सोमान्ते तर्पयामास विपुलेन विशांपतिः ।
तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कथंचन ॥ १.१९४.१३ ॥
在苏摩祭结束时,人民之主以丰厚的布施使他们满足。那位王中猛虎升天之后,不知怎的……
1.194.14
बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम् ।
भृगूणां तु धनं ज्ञात्वा राजानः सर्व एव ते ॥ १.१९४.१४ ॥
于是那一族的人遇到了财物之事。诸王得知婆利古族的财富后,全部……
1.194.15
याचिष्णवोऽभिजग्मुस्तांस्ततो भार्गवसत्तमान् ।
भूमौ तु निददुः केचिद्भृगवो धनमक्षयम् ॥ १.१९४.१५ ॥
于是求取者前往那些婆伽婆中的最优者。一些婆利古族人把不尽的财富埋入地下。
1.194.16
ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् ।
भृहवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम् ॥ १.१९४.१६ ॥
有些人因知道刹帝利的威胁而把财物交给了再生族;另一些人则按其所求给予他们财富。
1.194.17
क्षत्रियाणां तदा तात कारणान्तरदर्शनात् ।
ततो महीतलं तात क्षत्रियेण यदृच्छया ॥ १.१९४.१७ ॥
于是,孩子啊,刹帝利们看到了另一个原因。然后,孩子啊,大地表面被一位刹帝利偶然挖掘……
1.194.18
खनताऽधिगतं वित्तं केनच्चिद्धृगुवेश्मनि ।
तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः ॥ १.१९४.१८ ॥
有人在婆利古族人的房屋中挖掘时发现了财富。聚集的刹帝利中的公牛们全都看到了那笔财富。
1.194.19
अवमन्य ततः क्रोधाद्भृगूंस्ताञ्छरणगतान् ।
निजघ्नुः परमेष्वासाः सर्वांस्तान्निशितैः शरैः ॥ १.१९४.१९ ॥
于是,他们愤怒地无视寻求庇护的婆利古族人,这些伟大的射手用利箭将他们全部射杀。
1.194.20
आगर्भादवकृन्तन्तश्चेरुः सर्वां वसुन्धराम् ।
तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा ॥ १.१९४.२० ॥
他们连未出生的胎儿也砍杀,走遍整个大地。当婆利古族被灭绝之时,因恐惧,事情便是如此。
1.194.21
भृगुपत्न्यो गिरिं दुर्गं हिमवन्तं प्रपेदिरे ।
तासामन्यतमा गर्भं भयाद्दध्रे महौजसम् ॥ १.१९४.२१ ॥
婆利古族的妻子们逃往难以到达的喜马拉雅山。其中一人因恐惧,怀上了一个大有光辉的胎儿。
1.194.22
ऊरुणैकेन वाभोरूर्भर्तुः कुलविवृद्धये ।
तं गर्भमुपलभ्याशु ब्राह्मण्येका भयार्दिता ॥ १.१९४.२२ ॥
为了丈夫家族的兴旺,那位大腿美丽的女子把胎儿孕育在大腿中。一位婆罗门妇人迅速察觉此胎,因恐惧而痛苦。
1.194.23
गत्वा वै कथयामास क्षत्रियाणामुपह्वरे ।
ततस्ते क्षत्रिया जग्मुस्तं गर्भं हन्तुमुद्यताः ॥ १.१९४.२३ ॥
她前去秘密地告诉了刹帝利们。于是那些刹帝利准备杀害那胎儿,前去了。
1.194.24
ददृशुर्ब्राह्मणीं तेऽथ दीप्यमानां स्वतेजसा ।
अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह ॥ १.१९४.२४ ॥
他们看见那婆罗门妇人自身光芒四射。此时,那胎儿穿破婆罗门妇人的大腿,走了出来。
1.194.25
मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः ।
ततश्चक्षुर्विहीनास्ते गिरिदुर्गेषु बभ्रमुः ॥ १.१९४.२५ ॥
夺去刹帝利的视力,如同正午的太阳。于是他们失明,在山间堡垒中流浪。
1.194.26
ततस्ते मोघसङ्कल्पा भयार्ताः क्षत्रियाः पुनः ।
ब्राह्मणीं शरमं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम् ॥ १.१९४.२६ ॥
于是那些计划落空、被恐惧折磨的刹帝利又去投奔那位无可指责的婆罗门女,以求恢复视力。
1.194.27
ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः ।
ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः ॥ १.१९४.२७ ॥
那些心神迷乱的刹帝利对那位大福之人说道:他们失去光明,被悲痛折磨,如同火焰熄灭的火。
1.194.28
भगवत्याः प्रसादेन गच्छेत्क्षत्रमनामयम् ।
उपारम्य च गच्छेम सहिताः पापकर्मणः ॥ १.१९४.२८ ॥
愿凭这位尊贵女士的恩典,刹帝利族得以平安。我们应停止恶业,一同前行。
1.194.29
सपुत्रा त्वं प्रसादं नः कर्तुमर्हसि शोभने ।
पुनर्दृष्टिप्रदानेन राज्ञः संत्रातुमर्हसि ॥ १.१९४.२९ ॥
光彩照人的女士啊,你应当与你的儿子一起施恩于我们;重新赐予视力,你应当拯救国王。