Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.197

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.197.1

एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना ।
न्ययच्छदात्मनः क्रोधं सर्वलोकपराभवात् ॥ १.१९७.१ ॥

大心的婆悉吒如此说后,那位婆罗门中的圣仙想到诸世界将遭毁灭,便克制了自己的愤怒。

1.197.2

ईजे च स महातेजाः सर्ववेदविदां वरः ।
ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः ॥ १.१९७.२ ॥

大光明的、通晓一切吠陀中最杰出者——夏克提之子波罗奢罗,便举行了罗刹祭。

1.197.3

ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः ।
ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन् ॥ १.१९७.३ ॥

于是那位大仙念及夏克提之死,在那广大的祭祀中焚烧了老人、孩童和罗刹。

1.197.4

न हि तं वारयामास वसिष्ठो रक्षसां वधात् ।
द्वितीयामस्य मां भाङ्क्षं प्रतिज्ञामिति निश्चयात् ॥ १.१९७.४ ॥

婆悉吒没有阻止他诛杀罗刹,因为他决定:“我不会破坏他的第二个誓愿。”

1.197.5

त्रयाणां पावकानां च सत्रे तस्मिन्महामुनिः ।
आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः ॥ १.१९७.५ ॥

在那祭祀中,这位大仙立于三个熊熊烈火之前,犹如第四团火。

1.197.6

तेन यज्ञेन शुभ्रेण हूयमानेन शक्तितः ।
तद्विदीपितमाकाशं सूर्येणेव घनात्यये ॥ १.१९७.६ ॥

以他的力量所献的那光明的祭祀,使天空如雨季末的太阳一般明亮起来。

1.197.7

तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे ।
तेजसा दीप्यमानं वै द्वितीयमिव भास्करम् ॥ १.१९७.७ ॥

婆悉吒及诸仙人都认为他在那里如同第二个太阳,以光辉照耀。

1.197.8

ततः परमदुष्प्रापमन्यैर्ऋषिरुधारधीः ।
समापिपयिषुः सत्रं तमत्रिः समुपागमत् ॥ १.१९७.८ ॥

于是心胸高尚的仙人阿特里前来,他人极难达到,他想要完成那场祭祀法会。

1.197.9

तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुः ।
तत्राजग्मुरमित्रघ्न रक्षसां जीवितेप्सया ॥ १.१९७.९ ॥

同样,补罗斯提耶、补罗诃、克拉图和摩诃克拉图也来到那里,啊,灭敌者,他们想要罗刹的性命。

1.197.10

पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ ।
उवाचेदं वचः पार्थ पराशरमरिन्दमम् ॥ १.१९७.१० ॥

补罗斯提耶对降伏敌人的波罗捨罗说了这些话,关于杀害那些罗刹之事,啊,婆罗多中的雄牛,普利塔之子。

1.197.11

कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक ।
अजानतामदोषाणां सर्वेषां रक्षसां वधात् ॥ १.१९७.११ ॥

亲爱的孩子,你是否遇到了什么阻碍?孩子,那些不知情且无过错的罗刹全被杀害,你是否感到高兴?

1.197.12

प्रजोच्छेदमिमं मह्यं न हि कर्तु त्वमर्हसि ।
नैष तात द्विजातीनां धर्मो दृष्टस्तपस्विनाम् ॥ १.१९७.१२ ॥

你不应当造成我子孙的这场灭绝。亲爱的孩子,这不是苦行的再生者应有的法则。

1.197.13

शम एव परो धर्मस्तमाचर पराशर ।
अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर ॥ १.१९७.१३ ॥

平静克制是至高的法;请奉行它,婆罗舍罗。你身为最尊贵者,却行不义,婆罗舍罗。

1.197.14

शक्तिं चापि हि धर्मज्ञं नातिक्रान्तुमिहार्हसि ।
प्रजायाश्च ममोच्छेदं न चैवं कर्तुमर्हसि ॥ १.१९७.१४ ॥

精通法的人啊,你在此不应违背即便是Śakti,也不应如此断绝我的后嗣。

1.197.15

शापाद्धि शक्तेर्वासिष्ठ तदा तदुपपादितम् ।
आत्मजेन स दोषेण शक्तिर्नीत इतो दिवम् ॥ १.१९७.१५ ॥

婆私吒之子啊,那事当时是因Śakti的诅咒而发生的;由于他自己儿子的过错,Śakti被从此处带往天界。

1.197.16

न हि तं राक्षसः कश्चिच्छक्तो भक्षयितुं मुने ।
वासिष्ठो भक्षितश्चासीत्कौशिकोत्सृष्टरक्षसा।
शापं न कुर्वन्ति तदा न च त्राणपरायणाः ॥ १.१९७.१६ ॥

贤人啊,没有任何罗刹能够吞食他;然而婆私吒之子却被憍尸迦释放的罗刹吞食。那时,一心守护的人们也没有诅咒。

1.197.17

क्षमावन्तोऽदहन्देहं देहमन्यद्भवत्विति ।
आत्मनैवात्मनस्तेन दृष्टो मृत्युस्तदाऽभवत् ॥ १.१९७.१७ ॥

忍耐的人们焚烧了身体,心想:“愿有另一个身体。”那时,死亡就由他自己所见。

1.197.18

निमित्तभूतस्तत्रासीद्विश्वामित्रः पराशर ।
राजा कल्माषपादश्च दिवमारुह्य मोदते ॥ १.१९७.१८ ॥

婆罗舍罗啊,维史瓦弥多罗在那里是缘由;而国王羯摩沙波陀已升天,正在欢乐。

1.197.19

ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुने ।
ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः ॥ १.१९७.१९ ॥

大仙啊,婆罗门仙人婆悉瑟吒之子、沙克提的幼子们,都怀着欢喜,与诸天一同欢乐。

1.197.20

सर्वमेतद्वसिष्ठस्य विदितं वै महामुने ।
रक्षसां च समुच्छेद एष तात तपस्विनाम् ॥ १.१९७.२० ॥

大仙啊,这一切婆罗门仙人婆悉瑟吒本都知道。亲爱的,这是为苦行者而灭除罗刹。

1.197.21

निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन ।
तत्सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते ॥ १.१९७.२१ ॥

婆悉瑟吒之子啊,你自己就是这次祭祀的因缘。请结束那场祭会。愿你吉祥,愿此事圆满。

1.197.22

एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता ।
तदा समापयामास सत्रं शाक्तो महामुनिः ॥ १.१९७.२२ ॥

当补罗斯底耶与智慧的婆悉瑟吒如此劝告后,大仙沙克提之子便结束了那场祭会。

1.197.23

सर्वराक्षससत्राय संभृतं पावकं तदा ।
उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने ॥ १.१९७.२३ ॥

那为一切罗刹之祭会而聚集的火,此时被投放于北方、喜马拉雅山侧的大森林之中。

1.197.24

स तत्राद्यापि रक्षांसि वृक्षानश्मन एव च ।
भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि ॥ १.१९७.२४ ॥

那火至今仍可见于彼处,吞食罗刹、树木与石头,每逢每个月相之时,恒常如此。