Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.199

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.199.1

अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् ।
पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव ॥ १.१९९.१ ॥

请告诉我们,谁是适合我们、精通吠陀的乾闼婆祭司;这一切你都知道。

1.199.2

यवीयान्देवलस्यैष वने भ्राता तपस्यति ।
धौम्य उत्कोचके तीर्थे तं वृणुध्वं यीच्छथ ॥ १.१९९.२ ॥

德瓦拉的幼弟达乌米亚在林中苦修,他在乌特科恰卡圣渡口。若你们愿意,就选择他吧。

1.199.3

ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि ।
गन्धर्वाय स च प्रीतो वचनं चेदमब्रवीत् ॥ १.१९९.३ ॥

于是阿周那依照仪轨将火神之箭交给乾闼婆。乾闼婆欢喜,便说了这些话。

1.199.4

मयि सन्ति हयश्रेष्ठास्तव दास्यामि वै सखे ।
उपकारकृतं मित्रं प्रतिकारेण योजये ॥ १.१९९.४ ॥

朋友,我这里有上等的良马,我将送给你。对施恩于我的朋友,我以回报与之相连。

1.199.5

गृह्णीष्व चाक्षुषीं विद्यामिमां भरतसत्तम ।
एवमुक्तोऽर्जुनः प्रीतो वचनं चेदमब्रवीत् ॥ १.१९९.५ ॥

婆罗多的至上者啊,请接受这门视觉之明术。被这样说后,阿周那欢喜地说了这些话。

1.199.6

त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम ।
कार्यकाले ग्रहीष्यामः स्वस्ति तेऽस्त्विति चाब्रवीत् ॥ १.१९९.६ ॥

乾闼婆中的至上者啊,马匹暂且留在你那里;到需要时我们再取。愿你吉祥,他说道。

1.199.7

तेऽन्योन्यमभिसंपूज्य गन्धर्वः पाण्डवाश्च ह ।
रम्याद्भागीरथीतीराद्यथाकामं प्रतस्थिरे ॥ १.१९९.७ ॥

彼此致敬之后,乾达婆与般度五子各随其愿,从可爱的婆吉罗提河岸出发了。

1.199.8

तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते ।
तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत ॥ १.१९९.८ ॥

之后,他们来到乌德科恰卡圣渡,抵达持明(Dhaumya)的修行处;婆罗多啊,般度五子便请他担任祭司。

1.199.9

तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः ।
वन्येन फलमूलेन पौरोहित्येन चैव ह ॥ १.१९९.९ ॥

精通一切吠陀的至上者持明(Dhaumya)接受了他们,以野果、根茎以及祭司之职维持生活。

1.199.10

ते समाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः ।
ब्राह्मणं तं पुरस्कृत्य पाञ्चालीं च स्वयंवरे ॥ १.१९९.१० ॥

般度五子以那位婆罗门为先导,期望将获得财富与王国,并在选婿大会上得到般遮罗公主。

1.199.11

पुरोहितेन तेनाथ गुरुणा संगतास्तदा ।
नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः ॥ १.१९९.११ ॥

与那位祭司兼导师相会后,婆罗多族的雄牛们仿佛觉得自己有了依靠。

1.199.12

स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः ।
वेदविच्चैव वाग्मी च धौम्यः श्रीमान्द्विजोत्तमः ॥ १.१९९.१२ ॥

他通晓吠陀之义与真理,心胸高远,是他们的导师;持明(Dhaumya)精通吠陀,善于言辞,光辉显赫,是再生族中之最。

1.199.13

तेजसा चैव बुद्ध्या च रूपेण यशसा श्रिया ।
मन्त्रैश्च विविधैर्धौम्यस्तुल्य आसीद्बृहस्पतेः ॥ १.१९९.१३ ॥

在光辉、智慧、容貌、名声与福德上,以及在种种神圣咒语方面,达摩耶与布利哈斯帕蒂相等。

1.199.14

स चापि विप्रस्तान्मेने स्वभावाभ्यधिकान्भुवि ।
तेन धर्मविदा पार्था योज्या सर्वविदा वृताः ॥ १.१९९.१४ ॥

那位婆罗门也认为他们天生在世间超群;精通法、无所不知的他挑选并任用了普利塔之子。

1.199.15

मेनिरे सहिता वीराः प्राप्तं राज्यं च पाण्डवाः ।
बुद्धिवीर्यबलोत्साहैर्युक्ता देवा इवापरे ॥ १.१९९.१५ ॥

英勇的般度诸子齐心认为王国已归自己所有;他们具备智慧、勇力、力量与热情,如同另一些天神。

1.199.16

कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः ।
मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् ॥ १.१९९.१६ ॥

在他主持完吉祥仪式之后,那些人主们共同决定前往般遮罗人的那场选婿大会。