摩诃婆罗多 · 章 1.20
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.20.1
एतत्ते कथितं सर्वममृतं मथितं यथा ।
यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः ॥ १.२०.१ ॥
这一切已经讲给你听了:甘露是如何被搅出的,以及那匹威光赫赫、勇猛无比的神马在何处出现。
1.20.2
तं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् ।
उच्चैःश्रवा हि किंवर्णो भद्रे प्रब्रूहि मा चिरम् ॥ १.२०.२ ॥
卡德鲁看见后,便对毗娜达说:“贤淑的人啊,乌偕室罗婆是什么颜色的?快说,不要迟疑。”
1.20.3
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे ।
ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे ॥ १.२०.३ ॥
毗娜达说:“这匹马王本就是白色的。美丽的人啊,你以为如何?你也说出它的颜色,然后我们就在此打赌。”
1.20.4
कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते ।
एहि सार्धं मया दीव्य दासीभावाय भामिनि ॥ १.२०.४ ॥
卡德鲁说:“我以为这匹马是黑尾巴的。纯洁微笑的人啊,来吧,和我打赌吧,美人,赌成为奴婢。”
1.20.5
एवं ते समयं कृत्वा दासीभावाय वै मिथः ।
जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह ॥ १.२०.५ ॥
她们就这样订立了为奴的约定,然后各自回到自己的家中,说:“明天我们就会看到。”
1.20.6
ततः पुत्रसहस्रं तु कद्रूर्जिह्यं चिकीर्षती ।
आज्ञापयामास तदा वाला भूत्वाऽञ्जनप्रभाः ॥ १.२०.६ ॥
于是卡德鲁想要行欺诈,便命令她的一千个儿子:“变成像黑色眼膏一样光泽的毛发,附在那匹马的尾巴上。”
1.20.7
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा ।
नावपद्यन्त ये वाक्यं ताञ्शशाप भुजंगमान् ॥ १.२०.७ ॥
“快快进入马身,使我不致为婢。”那些不听此命令的蛇,她便诅咒了它们。
1.20.8
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति ।
जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ॥ १.२०.८ ॥
“当蛇祭进行之时,般度后裔、智慧的王仙嘉那梅阇耶的火将焚烧你们。”
1.20.9
शापमेनं तु शुश्राव स्वयमेव पितामहः ।
अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि ॥ १.२०.९ ॥
这个诅咒,祖父亲自听到了。卡德鲁所说的诅咒,由于天命,极为残酷。
1.20.10
सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत ।
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ॥ १.२०.१० ॥
他与众神一起认可了那话,见蛇类众多,出于对众生福祉的愿望。
1.20.11
तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः ।
तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च ॥ १.२०.११ ॥
这些咬人的蛇力量猛烈,带有毒素,非常强大。因其毒液锋利,也是为了众生的福祉。
1.20.12
युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम् ।
अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये ॥ १.२०.१२ ॥
母亲对他们所做的是恰当的,他们爬行以伤害他人;对于那些总是图谋伤害其他众生的人,也是如此。
1.20.13
तेषां प्राणान्तिको दण्डो दैवेन विनिपात्यते ।
एवं संभाष्य देवस्तु पूज्य कद्रूं च तां तदा ॥ १.२०.१३ ॥
对他们而言,致命的惩罚由命运降下。神如此说完,便尊敬了迦德卢。
1.20.14
आहूय कश्यपं देव इदं वचनमब्रवीत् ।
यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ ॥ १.२०.१४ ॥
神召唤迦叶波,说了这番话:无罪者啊,这些咬人的蛇与龙是由你所生。
1.20.15
विषोल्बणा महाभोगा मात्रा शप्ताः परंतप ।
तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन ॥ १.२०.१५ ॥
毒性猛烈、盘身巨大的蛇被其母诅咒。焚敌者啊,亲爱的孩子,你对此绝不应当生气。
1.20.16
दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम् ।
इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम्।
प्रादाद्विषहरीं विद्यां कश्यपाय महात्मने ॥ १.२०.१६ ॥
此事古时曾见:祭祀中灭蛇。创造者神如此说完,安抚了生主,并将解毒之明传授给大德迦叶波。
1.20.17
एवं शप्तेषु नागेषु कद्र्वातु द्विजसत्तम ।
अद्विग्नः शापतस्तस्याः कद्रूं कर्कोटकोऽब्रवीत् ॥ १.२०.१७ ॥
当诸蛇被迦德卢如此诅咒时,二生者中的最优者啊,迦尔科塔卡不为她的诅咒所动,对迦德卢说道。
1.20.18
मातरं परमप्रीतस्तथा भुजगसत्तमः ।
आविश्य वाजिनं मुख्यं बालो भूत्वाञ्जनप्रभः ॥ १.२०.१८ ॥
对母亲深感欢喜,蛇中最优者同样进入那匹最上等的马中,化为一个光彩如黛的少年,
1.20.19
दर्शयिष्यामि तत्राहमात्मानं काममाश्वस ।
एवमस्त्विति सा पुत्रं प्रत्युवाच यशस्विनी ॥ १.२०.१९ ॥
我将在那里显现自己;你放心吧,依你所愿。“就这样吧。”这位荣耀的母亲回答了她的儿子。