Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.202

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.202.1

तेऽलङ्कृताः कुण्डलिनो युवानः ।
परस्परं स्पर्धमाना नरेन्द्राः।
अस्त्रं बलं चात्मनि मन्यमानाः ।
सर्वें समुत्पेतुरुदायुधास्ते ॥ १.२०२.१ ॥

那些盛装、戴着耳环的年轻君王,彼此竞争,自以为自身具有武器与力量,都纷纷举起兵器站了起来。

1.202.2

रूपेण वीर्येण कुले चैव ।
शीलेन वित्तेन च यौवनेन।
समिद्धदर्पा मदवेगभिन्ना ।
मत्ता यथा हैमवता गजेन्द्राः ॥ १.२०२.२ ॥

因美貌、勇力、family、品行、财富与青春而傲气燃烧,被醉意的狂涌所撕裂,狂乱如喜马拉雅的象王。

1.202.3

परस्परं स्पर्धया प्रेक्षमाणाः ।
सङ्कल्पजेनाभिपरिप्लुताङ्गाः।
कृष्णा ममैवेत्यभिभाषमाणा ।
नृपाः समुत्पेतुरथासनेभ्यः ॥ १.२०२.३ ॥

彼此以竞争之眼相视,肢体被欲望所袭,高呼「黑公主只属于我」,诸王便从座位上跳起。

1.202.4

ते क्षत्रिया रङ्गगताः समेता ।
जिगीषमाणा द्रुपदात्मजां ताम्।
चकाशिरे पर्वतराजकन्या-
मुमां यथा देवगणाः समेताः ॥ १.२०२.४ ॥

那些刹帝利进入场中聚集,欲赢得德鲁波陀之女,他们闪耀如诸天围绕山王之女乌玛聚集一般。

1.202.5

कन्दर्पबाणाभिनिपीडिताङ्गां ।
कृष्णागतैस्ते हृदयैर्नरेन्द्राः।
रङ्गावतीर्णा द्रुपदात्मजार्थं ।
द्वेषं प्रचक्रुः सुहृदोऽपि तत्र ॥ १.२०२.५ ॥

身体被爱神之箭射穿,心意系于黑公主,那些为德鲁波陀之女而下到场中的诸王,竟对在场的朋友也心生憎恨。

1.202.6

अथाययुर्देवगणा विमानै ।
रुद्रादित्या वसवोऽथाश्विनौ च।
साध्याश्च सर्वे मरुतस्तथैव ।
यमं पुरस्कृत्य धनेश्वरं च ॥ १.२०२.६ ॥

于是诸神乘着天车前来:楼陀罗、阿提耶、婆薮、双阿输瓦,众萨提耶,以及摩录多,以阎摩为前导,也有财神俱毗罗。

1.202.7

दैत्याः सुपर्णाश्च महोरगाश्च ।
देवर्षयो गुह्यकाश्चारणाश्च।
विश्वावसुर्नारदपर्वतौ च ।
गन्धर्वमुख्याः सहसाऽप्सरोभिः ॥ १.२०२.७ ॥

众达提耶、苏波尔那与大蛇,天仙、诸守藏者与乾闼婆,毗首婆苏、那罗陀与补罗多,以及上首乾闼婆,与天女们一同突然到来。

1.202.8

हलायुधस्तत्र जनार्दनश्च ।
वृष्ण्यन्धकाश्चैव यताप्रधानम्।
प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते ।
स्थिताश्च कृष्णस्य मते महान्तः ॥ १.२०२.८ ॥

犁杵者力王与寿主克里希那在那里,以及毗利希尼与安陀迦族的耶度公牛们观看着;依从克里希那之意而立的诸大人,自律者中的上首,也在那里。

1.202.9

दृष्ट्वा तु तान्मत्तगजेन्द्ररूपा-
न्पञ्चाभिपद्मानिव वारणेन्द्रान्।
भस्मावृताङ्गानिव हव्यवाहान् ।
कृष्णः प्रदध्यौ यदुवीरमुख्यः ॥ १.२०२.९ ॥

见他们如发情的王象,如五株莲花象,如身被灰覆的供物火,耶度英雄之首克里希那便沉思起来。

1.202.10

शशंस रामाय युधिष्ठिरं स ।
भीमं सजिष्णुं च यमौ च वीरौ।
शनैःशनैस्तान्प्रसमीक्ष्य रामो ।
जनार्दनं प्रीतमना ददर्श ह ॥ १.२०२.१० ॥

他向罗摩讲述了坚战、怖军、胜者阿周那以及两位英勇的双生子。罗摩渐渐仔细观察他们,心中欢喜,便望向寿主克里希那。

1.202.11

अन्ये तु वीरा नृपपुत्रपौत्राः ।
कृष्णागतैर्नत्रमनःस्वभावैः।
व्यायच्छमाना ददृशुर्न तान्वै ।
सन्दष्टदन्तच्छदताम्रनेत्राः ॥ १.२०२.११ ॥

其他英雄,即诸王之子与孙辈,为克利什那而来,心意与性情都倾向于她,尽力拉弓却未能成功;他们咬着嘴唇,双目通红地站在那里。

1.202.12

तथैव पार्थाः पृथुबाहवस्ते ।
वीरौ यमौ चैव महानुभावौ।
तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे ।
कन्दर्पबाणाभिहता बभूवुः ॥ १.२०२.१२ ॥

同样,普利塔的诸子,那些臂膀宽阔的英雄,以及两位威力非凡的孪生英雄,见到德劳帕蒂后,都被爱神甘达尔帕的箭所射中。

1.202.13

देवर्षिगन्धर्वसमाकुलं त-
त्सुपर्णनागासुरसिद्धजुष्टम्।
दिव्येन गन्धेन समाकुलं च ।
दिव्यैश्च पुष्पैरवकीर्यमाणम् ॥ १.२०२.१३ ॥

那地方挤满了天神、仙人与乾闼婆,为金翅鸟、龙、阿修罗和成就者所常临,充满神圣的香气,并被天降的神花所覆盖。

1.202.14

महास्वनैर्दुन्दुभिनादितैश्च ।
बभूव तत्सङ्कुलमन्तरिक्षम्।
विमानसंबाधमभूत्समन्ता-
त्सवेणुवीणापणवानुनादम् ॥ १.२०२.१४ ॥

天空充满巨大的声响与鼓声的轰鸣,四面八方挤满了天界的车辇,回荡着长笛、琵琶与小鼓的乐声。

1.202.15

समाजवाटोपरि संस्थितानां ।
मेघैः समन्तादिव गर्जमानैः।
ततस्तु ते राजगणाः क्रमेण ।
कृष्णानिमित्तं कृतविक्रमाश्च।
सकर्णदुर्योधनशाल्वशल्य-
द्रौणायनिक्राथसुनीथवक्राः ॥ १.२०२.१५ ॥

如同雷鸣的乌云环绕着站在集会围栏上方的人们,那些国王的队伍依次为了克里希那而显示他们的勇武,与迦尔纳、难敌、沙尔瓦、沙利耶、德罗纳之子、克拉陀、苏尼陀和伐克罗同在。

1.202.16

कलिङ्गवङ्गाधिपपाण्ड्यपौण्ड्रा ।
विदेहराजो यवनाधिपश्च।
अन्ये च नानानृपपुत्रपौत्रा ।
राष्ट्राधिपाः पङ्कजपत्रनेत्राः ॥ १.२०२.१६ ॥

羯陵伽、文伽、潘地亚和波德罗的领主,毗提诃王,耶槃那的领主,以及其他众多国王的子孙、各国的统治者,眼睛如莲花瓣般。

1.202.17

किरीटहाराङ्गदचक्रवालै-
र्विभूषिताङ्गाः पृथुबाहवस्ते।
अनुक्रमं विक्रमसत्वयुक्ता ।
बलेन वीर्येण च नर्दमानाः ॥ १.२०२.१७ ॥

身饰冠冕、项链、臂钏与手镯,双臂宽阔,依次具备勇武与气概,以力量与英勇咆哮。

1.202.18

तत्कार्मुकं संहननोपपन्नं ।
सज्यं न शेकुर्मनसाऽपि कर्तुम्।
ते विक्रमन्तः स्फुरता दृढेन ।
विक्षिप्यमाणा धनुषा नरेन्द्राः ॥ १.२०२.१८ ॥

那张结实坚固的弓,他们连在心中也无法给它上弦;那些国王竭力施展勇武,却被那张坚强而颤动的弓抛来抛去。

1.202.19

विचेष्टमाना धरणीतलस्था ।
यथाबलं शैक्ष्यगुणक्रमाश्च।
गतौजसः स्नस्तकिरीटहारा ।
विनिःश्वसन्तः शमयांबभूवुः ॥ १.२०२.१९ ॥

他们在地面上翻滚挣扎,依各人力量与技艺品德的次序,失去精气,冠冕与项链滑落,深深叹息,终于平静下来。

1.202.20

हहाकृतं तद्धनुषा दृढेन ।
विस्रस्तहाराङ्गदचक्रवालम्।
कृष्णानिमित्तं विनिवृत्तकामं ।
राज्ञां तदा मण्डलमार्तमासीत् ॥ १.२०२.२० ॥

那时,因这坚固的弓,集会发出“哎呀”的惊叫;众王的项链、臂钏和手镯松脱滑落;因为黑天,他们的心愿被挫回;众王的集会当时陷入痛苦。

1.202.21

एवं तेषु निवृत्तेषु क्षत्रियेषु समन्ततः ।
चेदीनामधिपो वीरो बलवानन्तकोपमः ॥ १.२०२.२१ ॥

当那些刹帝利从四面撤退之后,车底国的英雄、强大的君主,如同死神一般,走上前来。

1.202.22

दमघोषात्मजो धीमाञ्शिशुपालो महाद्युतिः ।
धनुषोऽभ्याशमागम्य तस्थौ राज्ञां समक्षतः ॥ १.२०२.२२ ॥

达摩ghosa之子、聪明而极其光彩的希舒帕拉走近弓边,站在众王面前。

1.202.23

तदप्यारोप्यमाणं तु माषमात्रेऽभ्यताडयत् ।
धनुषा पीड्यमानस्तु जानुभ्यामगमन्महीम् ॥ १.२०२.२३ ॥

弓刚被拉起时,便在一个麻沙的距离上击打了他;他被弓压迫,双膝跪倒在地。

1.202.24

तत उत्थाय राजा स स्वराष्ट्राण्यभिजग्मिवान् ।
ततो राजा जरासन्धो महावीर्यो महाबलः ॥ १.२०२.२४ ॥

那位国王于是起身,回到自己的国土。随后,极其勇猛、力量强大的国王迦罗山陀上前。

1.202.25

कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः ।
मत्तवारणताम्राक्षो मत्तवारणवेगवान् ॥ १.२०२.२५ ॥

颈如螺壳,肩宽体阔,有如狂象般的勇猛,眼如狂象般的赤铜色,行动迅疾如狂象。

1.202.26

धनुषोऽभ्याशमागत्य तस्थौ गिरिरिवाचलः ।
धनुरारोप्यमाणं तु सर्षमात्रेऽभ्यताडयत् ॥ १.२०२.२६ ॥

他走近弓边,像一座不动的山岳般屹立。在给弓上弦时,他射中了一粒芥子。

1.202.27

ततः शल्यो महावीर्यो मद्रराजो महाबलः ।
धनुरारोप्यमाणं तु मुद्गमात्रेऽभ्यताडयत् ॥ १.२०२.२७ ॥

随后,摩德罗王沙利耶,勇猛而力大无穷,在给弓上弦时射中了一粒绿豆。

1.202.28

तदैवागात्स्वयं राज्यं पश्चादनवलोकयन् ।
इदं धनुर्वरं कोऽद्य सज्यं कुर्वीत पार्थिवः ॥ १.२०२.२८ ॥

那时,诸王的集会自行向前,不回头张望,心中想道:“今天哪位国王能给这张上好的弓上弦?”

1.202.29

इति निश्चित्य मनसा भूय एव स्थितस्तदा ।
ततो दुर्योधनो राजा धार्तराष्ट्रः परन्तपः ॥ १.२०२.२९ ॥

心中如此决定之后,他们又站定。那时,焚烧敌人的国王、持国之子难敌——

1.202.30

मानी दृढास्त्रसंपन्नः सर्वैश्च नृपलक्षणैः ।
उत्थितः सहसा तत्र भ्रातृमध्ये महाबलः ॥ १.२०२.३० ॥

这位骄傲、精通强弓利器、具备一切王者之相的大力者,突然从兄弟之中站了起来。

1.202.31

विलोक्य द्रौपदीं हृष्टो धनुषोऽभ्याशमागमत् ।
स बभौ धनुरादाय शक्रश्चापधरो यथा ॥ १.२०२.३१ ॥

他看见德罗波蒂,心中欢喜,走近那张弓。手持弓箭,他光彩照人,宛如执弓的因陀罗。

1.202.32

धनुरारोपयामास तिलमात्रेऽभ्यताडयत् ।
आरोप्यमाणं तद्राजा धनुषा बलिना तदा ॥ १.२०२.३२ ॥

他试图张弓,射中了芝麻大小的目标。那时,国王用强大的弓击打了正被拉开的那张弓。

1.202.33

उत्तानशय्यमपतदङ्गुल्यन्तरताडितः ।
स ययौ ताडितस्तेन व्रीडन्निव नराधिपः ॥ १.२०२.३३ ॥

被指缝间的一击击中,他仰面倒下。被他击中的那位人王,仿佛羞愧地离去了。

1.202.34

ततो वैकर्तनः कर्णो वृषा वै सूतनन्दनः ।
धनुरभ्याशमागम्य तोलयामास तद्धनुः ॥ १.२०२.३४ ॥

于是,毗迦尔塔那之子、御者之子、雄牛般的迦尔纳走近那张弓,掂量它。

1.202.35

तं चाप्यारोप्यमाणं तद्रोममात्रेऽभ्यताडयत् ।
त्रैलोक्यविजयी कर्णः सत्वे त्रैलोक्यविश्रुतः ॥ १.२०२.३५ ॥

那张正被拉开的弓,他也击中了发丝大小的目标。迦尔纳是三界的征服者,以勇气闻名三界。

1.202.36

धनुषा सोऽपि निर्धूत इति सर्वे भयाकुलाः ।
एवं कर्णे विनिर्धूते धनुषा च नृपोत्तमाः ॥ १.२०२.३६ ॥

大家以为他也被弓摔倒了,都因恐惧而慌乱。就这样,当迦尔纳被弓击倒时,诸王中的上首们。

1.202.37

चक्षुर्भिरपि नापश्यन्विनम्रमुखपङ्कजाः ।
दृष्ट्वा कर्णं विनिर्धूतं लोके वीरा नृपोत्तमाः ॥ १.२०२.३७ ॥

他们低垂着如莲花般的面庞,连眼睛都不敢抬起来看。看到迦尔纳被击倒,世上的英雄、诸王中的上首们。

1.202.38

निराशा धनुरुद्धारे द्रौपदीसंगमेऽपि च ॥ १.२०२.३८ ॥

在拉弓与赢得德罗波蒂时,也生出了绝望。

1.202.39

तस्मिंस्तु संभ्रान्तजने समाजे ।
निक्षिप्तवादेषु जनाधिपेषु।
कुन्तीसुतो जिष्णुरियेष कर्तुं ।
सज्यं धनुस्तत्सशरं च वीरः ॥ १.२०२.३९ ॥

在那群情慌乱的集会中,诸王放下争执,贡蒂之子胜利者阿周那英雄般地想要将那张弓连同弦与箭一并备好。

1.202.40

ततो वरिष्ठः सुरदानवाना-
मुदरधीर्वृष्णिकुलप्रवीरः।
जहर्ष रामेण स पीड्य हस्तं ।
हस्तंगतां पाण्डुसुतस्य मत्वा ॥ १.२०२.४० ॥

于是,天神与阿修罗中最杰出、心胸开阔的维氏尼族英雄,与罗摩一同握紧他的手而欢喜,以为般度之子的胜利已经到手。

1.202.41

न जज्ञिरेऽन्ये नृपविप्रमुख्याः ।
संछन्नरूपानथ पाण्डुपुत्रान्।
विना हि लोके च यदुप्रवीरौ ।
धौम्यं हि धर्मं सह सोदरांश्च ॥ १.२०२.४१ ॥

其余的主要诸王与婆罗门没有认出伪装成他种模样的般度之子,只有雅度族的两位英雄认出了。达乌米亚、法(正法)以及诸兄弟也未被认出。