Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.203

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.203.1

यदा निवृत्ता राजानो धनुषः सज्यकर्मणः ।
अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः ॥ १.२०३.१ ॥

当诸王退出拉弓张弦之事时,婆罗门之中,心志高远的胜者(阿周那)站了起来。

1.203.2

उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च ।
दृष्ट्वा संप्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् ॥ १.२०३.२ ॥

看到如因陀罗旗帜般光辉的普利塔之子(阿周那)启程前行,众婆罗门高声呼喊,抖动着他们的鹿皮。

1.203.3

केचिदासन्विमनसः केचिदासन्मुदान्विताः ।
आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः ॥ १.२०३.३ ॥

有人心情沮丧,有人满心欢喜;一些以智慧谋生的聪慧之人,彼此交谈起来。

1.203.4

यत्कर्णशल्यप्रमुखैः क्षत्रियैर्लोकविश्रुतैः ।
नानतं बलवद्भिर्हि धनुर्वेदपरायणैः ॥ १.२०३.४ ॥

即便是以迦尔纳、沙利耶为首、享誉世间、强壮且精研射术的刹帝利们,也未能拉弯的那张弓。

1.203.5

तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा ।
वटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः ॥ १.२०३.५ ॥

那么,一个不通武艺、体弱的少年,怎么可能拉弦上弓呢?诸位再生者啊!

1.203.6

अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु ।
कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते ॥ १.२०३.६ ॥

若此事因轻率而未经考验便去做,终不成功,那么在所有国王面前,婆罗门将成为笑柄。

1.203.7

यद्येष दर्पाद्धर्षाद्वाप्यथ ब्राह्मणचापलात् ।
प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् ॥ १.२०३.७ ॥

若此人因骄傲、喜悦或婆罗门的轻率而上前引弓,便应将他妥善阻止,不让他前进。

1.203.8

नावहास्या भविष्यामो न च लाघवमास्थिताः ।
न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् ॥ १.२०३.८ ॥

我们不会成为众人嘲笑的对象,也不会轻率行事,更不会在世上招致君王的憎恨。

1.203.9

केचिदाहुर्युवा श्रीमान्नागराजकरोपमः ।
पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव ॥ १.२०३.९ ॥

有人说:此人年轻而英武,如象王之鼻,肩、股、臂皆丰满,其坚定如喜马拉雅。

1.203.10

सिंहखेलगतिः श्रीमान्मत्तनागेन्द्रविक्रमः ।
संभाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते ॥ १.२०३.१० ॥

步伐如狮子嬉戏,英武如发狂的象王。此事在他身上是可能的,从他的热忱即可推知。

1.203.11

शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् ।
न च तद्विद्यते किंचित्कर्म लोकेषु यद्भवेत् ॥ १.२०३.११ ॥

他既有极大的热忱,又有力量;无力之人不会自己上前。世间也没有什么事是不可能做到的。

1.203.12

ब्राह्मणानामसाध्यं च नृषु संस्थानचारिषु ।
अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः ॥ १.२०३.१२ ॥

对于在世人之中恪守本分的婆罗门而言,没有什么是不可成就的——饮水者、食风者、食果者,誓愿坚定者。

1.203.13

दुर्बला अपि विप्रा हि बलीयांसः स्वेतजसा ।
ब्राह्मणो नावमन्तव्यः सदसद्वा समाचरन् ॥ १.२०३.१३ ॥

婆罗门虽然看似柔弱,却因自身的光辉而极为强大。无论婆罗门行善还是行恶,都不可轻视他。

1.203.14

सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् ।
जामदग्न्येन रामेण निर्जिताः क्षत्रिया युधि ॥ १.२०३.१४ ॥

无论苦乐、大小,凡所降临的业报,皆由此而来。耶摩达格尼之子罗摩在战场上击败了刹帝利。

1.203.15

पीतः समुद्रोऽगस्त्येन अगाधो ब्रह्मतेजसा ।
तस्माद्ब्रुवन्तु सर्वेऽत्र वटुरेष धनुर्महान् ॥ १.२०३.१५ ॥

无底的大海被阿伽斯蒂亚以梵光饮尽。因此,请在座诸位都说:这位少年能够拉开这张大弓。

1.203.16

आरोपयतु शीघ्रं वै तथेत्यूचुर्द्विजर्षभाः ।
एवं तेषां विलपतां विप्राणां विविधा गिरः ॥ १.२०३.१६ ॥

众位尊贵的婆罗门说:'让他快点拉开它吧。'这样,那些哀叹的婆罗门发出了种种言语。

1.203.17

अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः ।
अर्जुनः पाण्डवश्रेष्ठो धृष्टद्युम्नमथाब्रवीत् ॥ १.२०३.१७ ॥

阿周那站在弓旁,如山岳般纹丝不动。于是,般度族中最杰出的阿周那对德里斯塔敦尤那说道。

1.203.18

एतद्धनुर्ब्राह्मणानां सज्यं कर्तुमलं तु किम् ।
तस्य तद्वचनं श्रुत्वा धृष्टद्युम्नोऽब्रवीद्वचः ॥ १.२०३.१८ ॥

'这张弓对婆罗门而言,岂能拉开?'听了他的话,德里斯塔敦尤那说了这些话。

1.203.19

ब्राह्मणो वाथ राजन्यो वैश्यो वा शूद्र एव वा ।
एतेषां यो धनुःश्रेष्ठं सज्यं कुर्याद्द्विजोत्तम ॥ १.२०३.१९ ॥

无论是婆罗门、刹帝利、吠舍,还是首陀罗,这些人中谁能给最好的弓上弦,哦,再生者中的最优者。

1.203.20

तस्मै प्रदेया भगिनी सत्यमुक्तं मया वचः ॥ १.२०३.२० ॥

应将妹妹嫁给他;这句话是我真实说出的。

1.203.21

ततः पश्चान्महातेजाः पाण्डवो रणदुर्जयः ।
स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् ॥ १.२०३.२१ ॥

随后,这位光辉伟大、战中不可战胜的般度之子,向右绕着那张弓行了一周。

1.203.22

प्रणम्य शिरसा देवमीनं वरदं प्रभुम् ।
कृष्णं च मनसा कृत्वा जगृहे चार्जुनो धनुः ॥ १.२०३.२२ ॥

Arjuna低首向赐予恩惠的神、以鱼为旗的主致敬,心中怀想着克里希纳,然后拿起了那张弓。

1.203.23

यत्पार्थिवै रुक्मसुनीथवक्रै ।
राधेयदुर्योधनशल्यसाल्वैः।
तदा धनुर्वेदपरैर्नृसिंहैः ।
कृतं न सज्यं महतोऽपि यत्नात् ॥ १.२०३.२३ ॥

这张弓,即便有Rukmin、Sunītha、Vakra、Rādheya(迦尔纳)、难敌、Śalya、Sālva等诸王,以及精通射艺的狮子般的勇士,竭尽全力也未能上弦。

1.203.24

तदर्जुनो वीर्यवतां सदर्प-
स्तदैन्द्रिरिन्द्रावरजप्रभावः।
सज्यं च चक्रे निमिषान्तरेण ।
शरांश्च जग्राह दशार्दसङ्ख्यान् ॥ १.२०३.२४ ॥

于是,在强者中自豪的阿周那,因陀罗之子,其威力与因陀罗的幼弟(毗湿奴)相当,瞬息之间便给那张弓上了弦,又取了五支箭。

1.203.25

विव्याध लक्ष्यं निपपात तच्च ।
छिद्रेण भूमौ सहसातिविद्धम्।
ततोऽन्तरिक्षे च बभूव नादः ।
समाजमध्ये च महान्निनादः ॥ १.२०३.२५ ॥

他射中了目标,它便落下。它穿过孔洞,忽然落到地上,被完全贯穿。随后天空中响起一种声音,在集会中央发出巨大的吼声。

1.203.26

पुष्पाणि दिव्यानि ववर्ष देवः ।
पार्थस्य मूर्ध्नि द्विषतां निहन्तुः ॥ १.२०३.२६ ॥

神降下神圣的花朵,落在普利塔之子的头上,他是击杀敌人的人。

1.203.27

चेलानि विव्यधुस्तत्र ब्राह्मणाश्च सहस्रशः ।
विलक्षितास्ततश्चक्रुर्हाहाकारांश्च सर्वशः।
न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः ॥ १.२०३.२७ ॥

那里成千上万的婆罗门挥动着衣袍。他们惊讶地到处发出惊叹之声。而此时,四面八方从天空落下了花雨。

1.203.28

शताङ्गानि च तूर्याणि वादकाः समवादयन् ।
सूतमागधसङ्घाश्चाप्यस्तुवंस्तत्र सुस्वराः ॥ १.२०३.२८ ॥

乐师们一同奏响百支乐器,suta与magadha的歌者群也在那里以悦耳的声音赞颂他。

1.203.29

तं दृष्ट्वा द्रुपदः प्रीतो बभूव रिपुसूदनः ।
सह सैन्यैश्च पार्थस्य साहाय्यार्थमियेष सः ॥ १.२०३.२९ ॥

德鲁帕达见到他,这位击败敌人者心生欢喜,便希望与他的军队一同帮助普利塔之子。

1.203.30

तस्मिंस्तु शब्दे महति प्रवृद्धे ।
युधिष्ठिरो धर्मभृतां वरिष्ठः।
आवासमेवोपजगाम शीघ्रं ।
सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् ॥ १.२०३.३० ॥

那巨大的声响愈发高涨时,持法者中最优秀的坚战迅速返回住处,与两位人中至尊的双生子同行。

1.203.31

विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा ।
पार्थं च शक्रप्रतिमं निरीक्ष्य।
स्वभ्यस्तरूपापि नवेव नित्यं ।
विनापि हासं हसतीव कन्या ॥ १.२०३.३१ ॥

见靶已被射中,黑天女看向如因陀罗一般的般度之子。这位少女容貌总如新生,虽无笑意,却仿佛在笑。

1.203.32

मदादृतेऽपि स्खलतीव भावै-
र्वाचा विना व्याहरतीव दृष्ट्या।
आदाय शुक्लं वरमाल्यदाम ।
जगाम कुन्तीसुतमुत्स्मयन्ती ॥ १.२०३.३२ ॥

虽无醉意,却似因情感而踉跄;虽不言语,却似以目光说话。她取了白色的上好花环,微笑着走向贡蒂之子。

1.203.33

गत्वा च पश्चात्प्रसमीक्ष्य कृष्णा ।
पार्थस्य वक्षस्यविशङ्कमाना।
क्षिप्त्वा स्रजं पार्थिववीरमध्ये ।
वराय वव्रे द्विजसङ्घमध्ये ॥ १.२०३.३३ ॥

走上前去,又毫不犹豫地望向般度之子的胸膛,黑天女将花环抛向武士王中间,在婆罗门的集会中选他为夫。

1.203.34

शचीव देवेन्द्रमथाग्निदेवं ।
स्वाहेव लक्ष्मीश्च यथा मुकुन्दम्।
उषेव सूर्यं मदनं रतीव ।
महेश्वरं पर्वतराजपुत्री ॥ १.२०३.३४ ॥

如舍遮选因陀罗,娑诃选火神,吉祥天选穆昆达,乌莎选太阳,罗蒂选爱神,山王之女选大自在天。

1.203.35

स तामुपादाय विजित्य रङ्गे ।
द्विजातिभिस्तैरभिपूज्यमानः।
रङ्गान्निरक्रामदचिन्त्यकर्मा ।
पत्न्या तया चाप्यनुगम्यमानः ॥ १.२०३.३५ ॥

他带着她,在场中获胜,受到那些再生者的敬重,这位行事不可思议的人离开了场地,他的妻子也跟随在后。