摩诃婆罗多 · 章 1.204
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.204.1
तस्मै दित्सति कन्यां तु ब्राह्मणाय तदा नृपे ।
कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् ॥ १.२०४.१ ॥
当国王打算把少女许给那位婆罗门时,在场的诸王中升起了愤怒,他们近旁相互注视。
1.204.2
ऊचुः सर्वे समागम्य परस्परहितैषिणः ।
वयं सर्वे समाहूता द्रुपदेन दुरात्मना।
संहत्य चाभ्यगच्छाम स्वयंवरदिदृक्षया ॥ १.२०४.२ ॥
众人聚集在一起,彼此都怀着善意,说道:“我们都被恶心的德鲁帕达邀请了;出于想看选婿大会的愿望,我们一同前来。”
1.204.3
अस्मानयमतिक्रम्य तृणीकृत्य च संगतान् ।
दातुमिच्छति विप्राय द्रौपदीं योषितां वराम् ॥ १.२०४.३ ॥
他轻慢我们,视在场的我们如草芥,想把女子中最优秀的德劳帕蒂许给一位婆罗门。
1.204.4
अवरोप्येह वृक्षस्तु फलकाले निपात्यते ।
निहन्मैनं दुरात्मानं योयमस्मान्न मन्यते ॥ १.२०४.४ ॥
正如果树在结果之时被砍倒,我要杀死这个不尊重我们的恶人。
1.204.5
न ह्यर्हत्येष संमानं नापि वृद्धक्रमं गुणैः ।
हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् ॥ १.२०४.५ ॥
此人凭其品行,既不配受尊敬,也不配居于长者之列;我要将这个行为不端、与诸王为敌的人连同他的儿子一起杀死。
1.204.6
अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् ।
गुणवद्भोजयित्वान्नं ततः पश्चान्न मन्यते ॥ १.२०४.६ ॥
他邀请了所有国王,以礼相待,给他们备好美食,之后却不再尊重他们。
1.204.7
अस्मिन्राजसमवाये देवानामिव सन्नये ।
किमयं सदृशं कंचिन्नृपतिं नैव दृष्टवान् ॥ १.२०४.७ ॥
在这群王者的集会中,犹如诸神之会,她难道没有见过一位与他相当的国王吗?
1.204.8
न च विप्रेष्वधीकारो विद्यते वरणं प्रति ।
स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः ॥ १.२०४.८ ॥
婆罗门无权干预择偶;刹帝利才有自选夫婿的仪式,这是著名的传统。
1.204.9
अथवा यदि कन्येयं न च कंचिद्बुभूषति ।
अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः ॥ १.२०४.९ ॥
或者,若此少女谁也不愿意,诸王啊,我们便把她投入火中,各自返回自己的国家。
1.204.10
ब्राह्मणो यदि चापल्याल्लोभाद्वा कृतवानिदम् ।
विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथंचन ॥ १.२०४.१० ॥
即使婆罗门因轻率或贪婪做了此事,对于这冒犯诸王之主的行为,他也绝不应被处死。
1.204.11
ब्राह्मणार्थं हि नो राज्यं जीवितं हि वसूनि च ।
पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् ॥ १.२०४.११ ॥
我们的王国、我们的性命、财富、子孙,以及我们所有的其他财产,都是为了婆罗门。
1.204.12
अवमानभयाच्चैव स्वधर्मस्य च रक्षणात् ।
स्वयंवराणामन्येषां मा भूदेवंविधा गतिः ॥ १.२०४.१२ ॥
为了避免受辱、为了守护自身的法,愿其他的自选仪式不要落得这样的结局。
1.204.13
इत्युक्त्वा राजशार्दूला रुष्टाः परिघबाहवः ।
द्रुपदं तु जिघांसन्तः सायुधाः समुपाद्रवन् ॥ १.२०४.१३ ॥
说完这些话,怒气冲冲、臂如铁棒的王中猛虎,想要杀死德鲁帕达,持械向他扑去。
1.204.14
तान्गृहीतशरावापान्क्रुद्धानापततो बहून् ।
द्रुपदो वीक्ष्य संग्रासाद्ब्राह्मणाञ्छरणं गतः ॥ १.२०४.१४ ॥
德鲁帕达看见许多手持弓箭、愤怒地向他冲来的人,为了躲避这次攻击,便投奔婆罗门寻求庇护。
1.204.15
न भयान्नापि कार्पण्यान्न प्राणपरिरक्षणात् ।
जगाम द्रुपदो विप्राञ्शमार्थी प्रत्यपद्यत ॥ १.२०४.१५ ॥
德鲁帕达并非出于恐惧,也非出于怯懦,更非为了保全性命,而是为求和平,前去投奔婆罗门,接受了他们的庇护。
1.204.16
वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् ।
पाण्डुपुत्रौ महेष्वासौ प्रतियातावरिन्दमौ ॥ १.२०४.१६ ॥
面对他们如狂象般疾速冲来,般度的两位大弓箭手、降服敌人的儿子向前迎战。
1.204.17
ततः समुत्पेतुरुदायुधास्ते ।
महीक्षितो बद्धगोधाङ्गुलित्राः।
जिघांसमानाः कुरुराजपुत्रा-
वमर्षयन्तोऽर्जुनभीमसेनौ ॥ १.२०४.१७ ॥
于是诸王跃起,手指上缚着皮革护指,高举兵器,想要杀死库鲁王之子阿周那和毗摩森,对他们满怀愤恨。
1.204.18
ततस्तु भीमोऽद्भुतभीमकर्मा ।
महाबलो वज्रसमानसारः।
उत्पाट्य दोर्भ्यां द्रुममेकवीरो ।
निष्पत्रयामास यथा गजेन्द्रः ॥ १.२०४.१८ ॥
于是毗摩,行事奇异而可畏,大力,内里如金刚般坚实,这位独一无二的英雄,以双臂拔起一棵树,像一头象王一样将其叶子抖落殆尽。
1.204.19
तं वृक्षमादाय रिपुप्रमाथी ।
दण्डीव दण्डं पितृराज उग्रम्।
तस्थौ समीपे पुरुषर्षभस्य ।
पार्थस्य पार्थः पृथुदीर्घबाहुः ॥ १.२०४.१९ ॥
摧敌者毗摩举起那棵树,如持杖的阎摩以其猛烈之杖,站在人中雄牛阿周那(Pārtha)身旁。宽臂长臂的Pārtha也这样做了。
1.204.20
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धि-
र्जिष्णुः स हि भ्रातुरचिन्त्यकर्मा।
विसिष्मिये चापि भयं विहाय ।
तस्थौ धनुर्गृह्य महेन्द्रकर्मा ॥ १.२०४.२० ॥
阿周那(Jiṣṇu)见到兄长那超越常人智慧与行为的不可思议之举,甚为惊异。他抛去恐惧,如大因陀罗般行事,手持弓而站立。
1.204.21
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धि-
र्जिष्णोः सहभ्रातुरचिन्त्यकर्मा।
दामोदरो भ्रातरमुग्रवीर्यं ।
हलायुधं वाक्यमिदं बभाषे ॥ १.२०४.२१ ॥
达摩多罗(Kṛṣṇa)见阿周那与兄长那超越常人智慧、不可思议的行为,便对勇猛的兄长哈拉尤陀(Balarāma)说了这些话。
1.204.22
य एष सिंहर्षभखेलगामी ।
मदद्धनुः कर्षति तालमात्रम्।
एषोऽर्जुनो नात्र विचार्यमस्ति ।
यद्यस्मि संकर्षण वासुदेवः ॥ १.२०४.२२ ॥
此人步履如狮如牛,将弓拉开到棕榈树般的长度——这是阿周那,此处无疑。哦,桑卡尔沙纳,若我真是婆苏提婆,此言便是真的。
1.204.23
यस्त्वेष वृक्षं तरसाऽवभज्य ।
राज्ञां निकारे सहसा प्रवृत्तः।
वृकोदरान्नान्य इहैतदद्य ।
कर्तुं समर्थः समरे पृथिव्याम् ॥ १.२०४.२३ ॥
除了狼腹(Vṛkodara,即毗摩)之外,今日大地上再无他人能在战场上做到此事。此人力折大树,又突然投身于诸王的杀戮之中。
1.204.24
योऽसौ पुरस्तात्कमलायताक्षो ।
महातनुः सिंहगतिर्विनीतः।
गौरः प्रलम्बोज्ज्वलचारुघोणो ।
विनिःसृतः सोऽप्युत धर्मपुत्रः ॥ १.२०४.२४ ॥
那位先前有着莲花般的大眼、高大身躯、狮子般步态、谦逊、肤色白皙、鼻梁修长明亮而秀美的人,即法之子,也走了出来。
1.204.25
यौ तौ कुमाराविव कार्तिकेयौ ।
द्वावाश्विनेयाविति मे वितर्कः।
मुक्ता हि तस्माज्जतुवेश्मदाहा-
न्मया श्रुताः पाण्डुसुताः पृथा च ॥ १.२०४.२५ ॥
那两位少年如同迦尔提开耶之子,那两位如同双马童之子——这是我的推测。我听说他们从蜡宫之火中逃脱了:般度之子们,以及普利塔。
1.204.26
तमब्रवीन्निर्जलतोयदाभो ।
हलायुधोऽनन्तरजं प्रतीतः।
प्रीतोऽस्मि दृष्ट्वा हि पितृष्वसारं ।
पृथां विमुक्तां सह कौरवाग्र्यैः ॥ १.२०४.२६ ॥
那拥有无水云般光辉的执犁者(大力罗摩)对他的弟弟说:“我很欣喜,因为我看到我的姑母普利塔与库鲁族的翘楚们一同获得了自由。”