Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.208

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.208.1

ततस्तथोक्तः परिहृष्टरूपः ।
पित्रे शशंसाथ स राजपुत्रः।
धृष्टद्युम्नः सोमकानां प्रबर्हो ।
वृत्तं यथा येन हृता च कृष्णा ॥ १.२०८.१ ॥

如此被问及后,那位面容欢喜的王子、索摩迦人中的翘楚德里什塔德由姆那,把黑天女如何、被谁夺走的经过告诉了父亲。

1.208.2

योऽसौ युवा व्यायतलोहिताक्षः ।
कृष्णाजिनी देवसमानरूपः।
यः कार्मुकाग्र्यं कृतवानधिज्यं ।
लक्षं च यः पातितवान्पृथिव्याम् ॥ १.२०८.२ ॥

那位眼睛细长发红、身披黑羚羊皮、容貌如天神的青年,拉满了最好的弓,把靶子射落在地。

1.208.3

असज्जमानश्च ततस्तरस्वी ।
वृतो द्विजाग्र्यैरभिपूज्यमानः।
चक्राम वज्रीव दितेः सुतेषु ।
सर्वैश्च देवैर्ऋषिभिश्च जुष्टः ॥ १.२०८.३ ॥

那位无所牵挂、迅捷有力的青年,被最杰出的婆罗门环绕、礼敬,如执金刚的因陀罗行于提提之子之中,受到诸天神和仙人的侍奉。

1.208.4

कृष्मा प्रगृह्याजिनमन्वयात्तं ।
नागं यथा नागवधूः प्रहृष्टा।
श्यामो युवा वारणमत्तगामी ।
कृत्वा महत्कर्म सुदुष्करं तत् ॥ १.२०८.४ ॥

黑天女拿起黑羚羊皮,跟随他前行,如同欢喜的母象跟随公象。那位肤色黝黑、步态如发情象的青年,完成了那件伟大而极其艰难的功业,然后离去。

1.208.5

यः सूतपुत्रेण चकार युद्धं ।
शङ्केऽर्जुनं तं त्रिदशेशवीर्यम्।
अमृष्यमाणेषु नराधिपेषु ।
क्रुद्धेषु वै तत्र समापतत्सु ॥ १.२०८.५ ॥

与御者之子交战的那人——我猜想他就是阿周那,其威力如同天神之主。当诸王无法忍受,愤怒地在那里一同冲上来的时候。

1.208.6

ततोऽपरः पार्थिवसङ्घमध्ये ।
प्रवृद्धमारुज्य महीप्ररोहम्।
प्राकालयत्तेन स पार्थिवौघान् ।
भीमोऽन्तकः प्राणभृतो यथैव ॥ १.२०८.६ ॥

接着另一人攀上生长在众王群中的一棵大树,用它驱散了诸王的人群,如同可怖的死神驱赶众生。

1.208.7

बाह्यां पुराद्भार्गवकर्मशालाम् ॥ १.२०८.७ ॥

城外,前往婆利古后裔(持斧罗摩)的工坊。

1.208.8

तत्रोपविष्टार्चिरिवानलस्य ।
तेषां जनित्रीति मम प्रतर्कः।
तथाविधैरेव नरप्रवीरै-
रुपोपविष्टैस्त्रिबिरग्निकल्पैः ॥ १.२०८.८ ॥

坐在那里,如同火焰——我猜想他们的母亲也在那里——与这样的人中英雄同坐,还有三位如火一般的人。

1.208.9

तस्यास्ततस्तावभिवाद्य पादा-
वुक्त्वा च कृष्णामभिवादयेति।
स्थितौ च तत्रैव निवेद्य कृष्णां ।
भिक्षाप्रचाराय गता नराग्र्याः ॥ १.२०८.९ ॥

随后,他们向她的双足敬礼,说:「向黑天女致敬」,二人便站在那里;把黑天女留在那里,人中的俊杰便出去乞食。

1.208.10

तेषां तु भैक्षं प्रतिगृह्य कृष्णा ।
दत्वा बलिं ब्राह्मणसाच्च कृत्वा।
तां चैव वृद्धां परिवेष्य तांश्च ।
नरप्रवीरान्स्वयमप्यभुङ्क्त ॥ १.२०८.१० ॥

随后黑天女接受了他们的乞食,向婆罗门献上供品,为那位老妇人盛饭,也为那些人中英雄盛饭,自己也吃了。

1.208.11

सुप्तास्तु ते पार्थिव सर्व एव ।
कृष्णा च तेषां चरणोपधाने।
आसीत्पृथिव्यां शयनं च तेषां ।
दर्भाजिनाग्रास्तरणोपपन्नम् ॥ १.२०८.११ ॥

国王啊,他们都睡下了,黑公主(克里希那)以他们的脚为枕。他们的卧榻在地上,铺着吉祥草和鹿皮。

1.208.12

ते नर्दमाना इव कालमेघाः ।
कथा विचित्राः कथयांबभूवुः।
न वैश्यशूद्रौपयिकीः कथास्ता ।
न च द्विजानां कथयन्ति वीराः ॥ १.२०८.१२ ॥

他们如雷鸣的乌云般,开始讲述奇异的故事。那些故事并不适合吠舍和首陀罗,这些英雄也没有讲述再生者的故事。

1.208.13

निःसंशयं क्षत्रियपुंगवास्ते ।
यथा हि युद्धं कथयन्ति राजन्।
आशा हि नो व्यक्तमियं समृद्धा ।
मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् ॥ १.२०८.१३ ॥

毫无疑问,他们是刹帝利中的雄牛,因为他们谈论的是战争,国王啊。我们的希望显然正在实现,因为我们听说普利塔之子已从火中逃脱。

1.208.14

यथा हि लक्ष्यं निहतं धनुश्च ।
सज्यं कृतं तेन तथा प्रसह्य।
यथा हि भाषन्ति परस्परं ते ।
छन्ना ध्रुवं ते प्रचरन्ति पार्थाः ॥ १.२०८.१४ ॥

就像靶子被射中、弓被有力地拉满一样,他们彼此交谈。普利塔之子无疑正隐匿地四处行走。

1.208.15

ततः स राजा द्रुपदः प्रहृष्टः ।
पुरोहितं प्रेषायामास तेषाम्।
विद्याम युष्मानिति भाषमाणो ।
महात्मानः पाण्डुसुताः स्थ कच्चित् ॥ १.२०८.१५ ॥

于是国王德鲁帕达欣喜万分,便派他的家庭祭司前去,说道:“我们想知道,你们是否就是伟大的般度之子。”

1.208.16

गृहीतवाक्यो नृपतेः पुरोधा ।
गत्वा प्रशंसामभिधाय तेषाम्।
वाक्यं समग्रं नृपतेर्यथाव-
दुवाच चानुक्रमविक्रमेण ॥ १.२०८.१६ ॥

祭司领受国王的话语,前往他们那里,致以赞美,并依次、有力地完整转达了国王的全部讯息。

1.208.17

विज्ञातुमिच्छत्यवनीश्वरो वः ।
पाञ्चालराजो वरदो वरार्हाः।
लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा ।
हर्षस्य नान्तं प्रतिपद्यते सः ॥ १.२०८.१७ ॥

般遮罗王是赐予恩惠的人,他想知道你们这些配得恩惠的人是谁;看到这位射中目标的人,他的喜悦无以复加。

1.208.18

आख्यात च ज्ञातिकुलानुपूर्वी ।
पदं शिरःसु द्विषतां कुरुध्वम्।
प्रह्लादयध्वं हृदयं ममेदं ।
पाञ्चालराजस्य च सानुगस्य ॥ १.२०८.१८ ॥

请依次讲述你们的家族与世系;踏上敌人的头颅;使我的心和般遮罗王及其随从的心都感到欢喜。

1.208.19

पाण्डुर्हि राजा द्रुपदस्य राज्ञः ।
प्रियः सखा चात्मसमो बभूव।
तस्यैष कामो दुहिता ममेयं ।
स्नुषा यदि स्यादिह कौरवस्य ॥ १.२०८.१९ ॥

般度王是德鲁帕达王亲爱的朋友,与他平起平坐;他的心愿是:我的这个女儿能在此成为俱卢族的儿媳。

1.208.20

अयं हि कामो द्रुपदस्य राज्ञो ।
हृदि स्थितो नित्यमनिन्दिताङ्गाः।
यदर्जुनो वै पृथुदीर्घबाहु-
र्धर्मेण विन्देत सुतां ममैताम् ॥ १.२०८.२० ॥

诸位肢体无瑕的人啊,德鲁帕达王心中始终怀有这样的愿望:愿手臂宽大修长的阿周那依法迎娶我的这个女儿。

1.208.21

कृतं हि तत्स्यात्सुकृतं ममेदं ।
यशश्च पुण्यं च हितं तदेतत्।
अथोक्तवाक्यं हि पुरोहितं स्थितं ।
ततो विनीतं समुदीक्ष्य राजा ॥ १.२०८.२१ ॥

此事由我所行,必是善举;它带来名声、功德与利益。于是,见祭司说完话后站立,国王恭敬地望着他。

1.208.22

समीपतो भीममिदं शशास ।
प्रदीयतां पाद्यमर्ध्यं तथाऽस्मै।
मान्यः पुरोधा द्रुपदस्य राज्ञ-
स्तस्मै प्रयोज्याऽभ्यधिका हि पूजा ॥ १.२०८.२२ ॥

他吩咐近旁的婆罗摩:

1.208.23

भीमस्ततस्तत्कृतवान्नरेन्द्र ।
तां चैव पूजां प्रतिगृह्य हर्षात्।
सुखोपविष्टं तु पुरोहितं तदा ।
युधिष्ठिरो ब्राह्मणमित्युवाच ॥ १.२०८.२३ ॥

人主啊,婆罗摩于是照做。祭司欢喜地接受了供养,安然坐下。那时,坚战对那位婆罗门说道。

1.208.24

पाञ्चालराजेन सुता निसृष्टा ।
स्वधर्मदृष्टेन यथा न कामात्।
प्रदिष्टशुंल्का द्रुपदेन राज्ञा ।
सा तेन वीरेण तथाऽनुवृत्ता ॥ १.२०८.२४ ॥

般遮罗王出于自身的职分而非贪欲,将女儿交付。那位赢得德鲁帕达王所定聘礼的英雄,就这样得到了她。

1.208.25

न तत्र वर्णेषु कृता विवक्षा ।
न चापि शीले न कुले न गोत्रे।
कृतेन सज्येन हि कार्मुकेण ।
विद्धेन लक्ष्येण हि सा विसृष्टा ॥ १.२०८.२५ ॥

那里不论种姓,不论品行、家族或宗系,只把她交给以上弦之弓射中目标的人。

1.208.26

सेयं तथाऽनेन महात्मनेह ।
कृष्णा जिता पार्थिवसङ्घमध्ये।
नैवं गते सौमकिरद्य राजा ।
सन्तापमर्हत्यसुखाय कर्तुम् ॥ १.२०८.२६ ॥

在众王聚集之中,这位大德以这种方式赢得了黑天女。既然如此,今日的索摩迦王不应当自寻烦恼与不快。

1.208.27

कामश्च योऽसौ द्रुपदस्य राज्ञः ।
स चापि संपत्स्यति पार्थिवस्य।
संप्राप्यरूपां हि नरेन्द्रकन्या-
मिमामहं ब्राह्मण साधु मन्ये ॥ १.२०८.२७ ॥

德鲁波达王的愿望,也将通过那位国王得以实现。婆罗门啊,获得这位容貌美丽的王女,我认为这是好的。

1.208.28

न तद्धनुर्मन्दबलेन शक्यं ।
मौर्व्या समायोजयितुं तथाहि।
न चाकृतास्त्रेण न हीनजेन ।
लक्ष्यं तथा पातयितुं हि शक्यम् ॥ १.२०८.२८ ॥

那张弓不能被力量微弱的人用弓弦上弦。不精通武艺或出身low贱的人,也不能这样射落那个目标。

1.208.29

तस्मान्न तापं दुहितुर्निमित्तं ।
पाञ्चालराजोऽर्हति कर्तुमद्य।
न चापि तत्पातनमन्यथेह ।
कर्तुं हि शक्यं भुवि मानवेन ॥ १.२०८.२९ ॥

因此,般遮罗王今日不应为女儿而悲伤。而且在这大地上,没有人能以别的方式射落那个目标。

1.208.30

एवं ब्रुवत्येव युधिष्ठिरे तु ।
पाञ्चालराजस्य समीपतोऽन्यः।
तत्राजगामाशु नरो द्वितीयो ।
निवेदयिष्यन्निह सिद्धमन्नम् ॥ १.२०८.३० ॥

就在坚战这样说话之际,又有一人急速来到般遮罗王身旁,准备来报告此处的饭食已经备好。