Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.210

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.210.1

तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् ।
परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः ॥ १.२१०.१ ॥

于是光辉灿烂的般遮罗王召唤王子坚战,依婆罗门仪式欢迎并接纳了他。

1.210.2

पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् ।
कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत ॥ १.२१०.२ ॥

那位心志无畏的国王问光辉的昆提之子:“我们该如何知道你们是刹帝利还是婆罗门?”

1.210.3

वैश्यान्वा गुणसंपन्नानथ वा शूद्रयोनिजान् ।
मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् ॥ १.२१०.३ ॥

你们是德行具足的吠舍,还是生于首陀罗之族?或者是托身幻术、游行四方的悉陀?

1.210.4

कृष्णाहेतोरनुप्राप्ता देवाः संदर्शनार्थिनः ।
ब्रवीतु नो भवान्सत्यं सन्देहो ह्यत्र नो महान् ॥ १.२१०.४ ॥

为了黑公主的缘故,诸天前来,希望见到你们。请你告诉我们真相,因为我们在此疑惑甚大。

1.210.5

अपि नः संशयस्यान्ते मनः संतुष्टिमावहेत् ।
अपि नो भागधेयानि शुभानि स्युः परन्तप ॥ १.२१०.५ ॥

噢,降伏敌人者!愿我们的疑惑终止之时,心得安宁;愿我们的福运吉祥。

1.210.6

इच्छया ब्रूहि तत्सत्यं सत्यं राजसु शोभते ।
इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु ॥ १.२१०.६ ॥

请心甘情愿地说出那真相;在国王之间,唯有真实才显耀。如同祭祀与布施,不可说谎。

1.210.7

श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिंदम ।
ध्रुवं विवाहकरणमास्थास्यामि विधानतः ॥ १.२१०.७ ॥

聆听了你的话语,哦,降伏敌人者,如同天神,我必定依照礼制举行婚礼。

1.210.8

मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते ।
ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् ॥ १.२१०.८ ॥

国王啊,你不要忧伤;潘遮罗啊,愿你欢喜。你所期望的心愿必定已经实现,这毫无疑问。

1.210.9

वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः ।
ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ ॥ १.२१०.९ ॥

国王啊,我们是刹帝利,是伟大的般度之子。请知道我是长子,是俱胝之子;这两位是毗摩赛那与阿周那。

1.210.10

आभ्यां तव सुता राजन्निर्जिता राजसंसदि ।
यमौ च तत्र कुन्ती च यत्र कृष्मा व्यवस्थिता ॥ १.२१०.१० ॥

国王啊,你的女儿是被这两人在王者会议上赢得的;双生子与俱胝也在那里,克利须那(德罗波蒂)所坐之处。

1.210.11

व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ ।
पद्मिनीव सुतेयं ते ह्रदादन्यह्रदं गता ॥ १.२१०.११ ॥

愿你心中的忧愁消散;我们是刹帝利,人中之牛啊。犹如莲花从一湖移至另一湖,你的这位女儿也已转移。

1.210.12

इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते ।
भवान्हि गुरुरस्माकं परमं च परायणम् ॥ १.२१०.१२ ॥

如此,大王,我告诉你的一切都是真实的。你确实是我们的导师,也是最高的依靠。

1.210.13

ततः स द्रुपदो राजा हर्षव्याकुललोचनः ।
प्रतिवक्तुं मुदा युक्तो नाशकत्तं युधिष्टिरम् ॥ १.२१०.१३ ॥

于是国王德鲁帕达喜极而泪眼迷蒙,满心欢悦,竟无法回答坚战。

1.210.14

यत्नेन तु स तं हर्षं सन्निगृह्य परंतपः ।
अनुरूपं तदा वाचा प्रत्युवाच युधिष्ठिरम् ॥ १.२१०.१४ ॥

敌人的烧灼者德鲁帕达竭力抑制住那份喜悦,然后以得体的言辞回答坚战。

1.210.15

पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरात् ।
स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः ॥ १.२१०.१५ ॥

德鲁帕达问他们如何逃出城去,般度之子便按次序将一切讲给他听。

1.210.16

तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् ।
विगर्हयामास तदा धृतराष्ट्रं नरेश्वरम् ॥ १.२१०.१६ ॥

德鲁帕达王听了昆提之子的话,便责备了人主持国。

1.210.17

आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम् ।
प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः ॥ १.२१०.१७ ॥

言辞最善的德鲁帕达安慰了昆提之子坚战,并允诺他将得到王国。

1.210.18

ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि ।
यमौ च राज्ञा संदिष्टं विविशुर्भवनं महत् ॥ १.२१०.१८ ॥

随后,昆提、克里希那(德罗波蒂)、毗摩先那、阿周那,以及双胞胎兄弟,依国王的吩咐走进了那座大宫殿。

1.210.19

तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः ।
प्रत्याश्वस्तस्ततो राजा सह पुत्रैरुवाच तम् ॥ १.२१०.१९ ॥

他们在那里居住,受到耶由那塞纳的尊敬。随后,已得安慰的国王与诸子一同对他说道。

1.210.20

गृह्णातु विधिवत्पाणिमद्यायं कुरुनन्दनः ।
पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् ॥ १.२१०.२० ॥

愿此俱卢之喜悦者今日依礼执其手;于此吉祥之日,愿大臂的阿周那完成此刻。

1.210.21

तमब्रवीत्ततो राजा धर्मात्मा च युधिष्ठिरः ।
ममापि दारसंबन्धः कार्यस्तावद्विशांपते ॥ १.२१०.२१ ॥

于是正法之心的国王坚战对他说:“王中之主啊,我自己的婚姻也应当此时安排。”

1.210.22

तस्मात्पूर्वं मया कार्यं तद्भवाननुमन्यताम् ।
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम।
यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश ॥ १.२१०.२२ ॥

因此,此事应先由我来办;请您允准。或者您自己依礼执起我女儿的手。英雄啊,您认为谁合适,便把黑公主赐予谁。

1.210.23

सर्वेषां महिषी राजन्द्रौपदी नो भविष्यति ।
एवं प्रव्याहृतं पूर्वं मम मात्रा विशांपते ॥ १.२१०.२३ ॥

国王啊,黑公主将是我们所有人的正妃。人主啊,此前我母亲曾如此宣布。

1.210.24

अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः ।
पार्थेन विजिता चैषा रत्नभूता सुता तव ॥ १.२१०.२४ ॥

我尚未娶妻,般度之子毘摩森那亦未娶。她已由阿周那赢得;您的这位女儿乃是珍宝。

1.210.25

एष नः समयो राजँल्लब्धस्य सह भोजनम् ।
न च तं हातुमिच्छामः समयं राजसत्तम ॥ १.२१०.२५ ॥

国王啊,共同享用所得,这是我们的约定;我们不愿舍弃这一约定,王者中的至尊。

1.210.26

अक्रमेण निवेशे च धर्मलोपो महान्भवेत् ।
सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति।
आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करान् ॥ १.२१०.२६ ॥

不按次序娶妻,将是大违法度。依法,黑公主将成为我们所有人的正妃;让每人依次,将手置于火中,接纳她。

1.210.27

एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन ।
नैकस्या बहवः पुंसः श्रूयन्ते पतयः क्वचित् ॥ १.२१०.२७ ॥

库鲁之喜悦啊,一夫可立多位正妃;却从未听说一妇有多位夫君。

1.210.28

सोऽयं न लोके वेदे वा जातु धर्मः प्रशस्ते ।
लोकवेदविरुद्धं त्वं नाधर्मं धर्मविच्छुचिः।
कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी ॥ १.२१०.२८ ॥

此法从未在世间或吠陀中被称许。你这位知法的清净的贡蒂之子,不应行此违背世俗与吠陀的非法。你的心智为何竟如此?

1.210.29

सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् ।
पूर्वेषामानुपूर्व्येण यातं वर्त्माऽनुयामहे ॥ १.२१०.२९ ॥

大王啊,法至微妙,我们不知其道。我们只是遵循先祖依次走过的道路。

1.210.30

न मे वागनृतं प्राह नाधर्मे धीयते मतिः ।
एवं चैव वदत्यम्बा मम चैतन्मनोगतम् ॥ १.२१०.३० ॥

我的言语从未说过虚妄,我的心也不专注于非法。我母亲也如此说,这也正是我心中所想。

1.210.31

आश्रमे रुद्रनिर्दिष्टाद्व्यासादेतन्मया श्रुतम् ।
एष धर्मो ध्रुवो राजंश्चरैनमविचारयन्।
मा च शङ्का तत्र ते स्यात्कथंचिदपि पार्थिव ॥ १.२१०.३१ ॥

此事我是在净修林中从毗耶娑处听闻的,他是由湿婆所指示之人。大王,这是恒定的法;不加思索地遵行它。君主啊,愿你对此丝毫不生疑惑。

1.210.32

त्वं च कुन्ती च कौन्तय धृष्टद्युम्नश्च मे सुतः ।
कथयन्त्विति कर्तव्यं श्वः काल्ये करवामहे ॥ १.२१०.३२ ॥

你,俱卢之子,以及我的儿子德里什塔德尤姆纳,说说应当做什么;明早天刚亮,我们便去做。

1.210.33

ते समेत्य ततः सर्वे कथयन्ति स्म भारत ।
अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया ॥ १.२१०.३३ ॥

于是他们都聚集起来商议,婆罗多之子啊。大王,此时,二岛生毗耶娑偶然来到了那里。