Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.211

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.211.1

ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः ।
प्रत्युथाय महात्मानं कृष्णं सर्वेऽभ्यवादयन् ॥ १.२११.१ ॥

于是所有般度之子和名声显赫的般遮罗王子起身,向心胸宽广的黑天致敬。

1.211.2

प्रतिनन्द्य स तां पूजां पृष्ट्वा कुशलमन्ततः ।
आसने काञ्चने शुद्धे निषसाद महामनाः ॥ १.२११.२ ॥

他回礼致意,最后问候平安,这位心胸开阔的人坐在纯金的座位上。

1.211.3

अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा ।
आसनेषु महार्हेषु निषेदुर्द्विपदां वराः ॥ १.२११.३ ॥

得到光辉无量的黑天允许后,这些人中的俊杰都坐上了珍贵的座位。

1.211.4

ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः ।
पप्रच्छ तं महात्मानं द्रौपद्यर्थं विशांपते ॥ १.२११.४ ॥

片刻之后,般遮罗王子以甘美的言语向那位伟人询问关于德劳帕蒂的事,哦,人民之主。

1.211.5

कथमेका बहूनां स्यान्न च स्याद्धर्मसंकरः ।
एतन्मे भगवान्सर्वं प्रब्रवीतु यथातथम् ॥ १.२११.५ ॥

一个女子如何能成为众人的妻子,又如何不致使法混乱?尊者,请将这一切如实告诉我。

1.211.6

अस्मिन्धर्मे विप्रलब्धे लोकवेदविरोधके ।
यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् ॥ १.२११.६ ॥

关于这法,它被误导而与世俗习俗和吠陀相违,我想听听每个人的见解。

1.211.7

अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः ।
न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम ॥ १.२११.७ ॥

再生族中最优秀的人啊,在我看来这是非法(非法,adharma),既违背世俗习俗,也违背吠陀;因为一个妻子不属于许多丈夫。

1.211.8

न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः ।
न चाप्यधर्मो विद्वद्भिश्चरितव्यः कथंचन ॥ १.२११.८ ॥

这种法(dharma)从未被先祖和大德之人实行过;智者也绝不应以任何方式实行非法(adharma)。

1.211.9

ततोऽहं न करोम्येनं व्यवसायं क्रियां प्रति ।
धर्मः सदैव संदिग्धः प्रतिभाति हि मे त्वयम् ॥ १.२११.९ ॥

因此我不决定采取此行动;在我看来,这种法始终令人怀疑。

1.211.10

यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ ।
ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन ॥ १.२११.१० ॥

再生族中的雄牛啊,婆罗门啊,苦行的宝藏啊,品行端正的哥哥怎能亲近弟弟的妻子呢?

1.211.11

न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथंचन ।
अधर्मो धर्म इति वा व्यवसायो न शक्यते ॥ १.२११.११ ॥

然而,由于法(dharma)之微妙,我们无论如何也不知道它的路径;无法确定这是非法还是法。

1.211.12

कर्तुमस्मद्विधैर्ब्रह्मंस्ततोऽयं न व्यवस्यते ।
पञ्चानां महिषी कृष्णा भवत्विति कथंचन ॥ १.२११.१२ ॥

婆罗门啊,像我们这样的人不能做此事;因此无论如何也不决定让黑天女(Kṛṣṇā)成为五人的正妻。

1.211.13

न मे वागनृतं प्राह नाधर्मे धीयते मतिः ।
वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथंचन ॥ १.२११.१३ ॥

我的言语从未说过虚假之语,我的心也不会趋向非法。我的心确实倾向于此;这绝非非法。

1.211.14

श्रूयते हि पुराणेऽपि जटिला नाम गौतमी ।
ऋषीनध्यासितवती सप्त धर्मभृतां वरा ॥ १.२११.१४ ॥

古代传说中也有记载:名为遮提罗的乔达摩女,侍奉了七位持法者中最杰出的仙人。

1.211.15

तथैव मुनिजा वार्क्षी तपोभिर्भावितात्मनः ।
संगताभूद्दश भ्रातॄनकेन्म्नः प्रचेतसः ॥ १.२११.१५ ॥

同样,仙人之女瓦尔克沙,因苦行而净化其心,与普拉切塔斯的十位兄弟结合。

1.211.16

गुरोर्हि वचनं प्राहुर्धर्म्यं धर्मज्ञसत्तम ।
गुरूणां चैव सर्वेषां माता परमको गुरुः ॥ १.२११.१६ ॥

法智之最者啊,人们说师长的话是合法的;而在一切师长之中,母亲是最高的师长。

1.211.17

सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति ।
तस्मादेतदहं मन्ये परं धर्मं द्विजोत्तम ॥ १.२११.१७ ॥

她也曾说:"像乞食一样享用它吧。" 因此,二生者中最杰出的人啊,我认为这才是至高的法。

1.211.18

एतमेतद्यथा प्राह धर्मचारी युधिष्ठिरः ।
भुज्यतां भ्रातृभिः सार्धमित्यर्जुनमचोदयम्।
अनृतान्मे भयं तीव्रं मुच्येऽहमनृतात्कथम् ॥ १.२११.१८ ॥

正如行法的坚战所说,我也对阿周那说:"与兄弟们一同享用吧。" 我对虚妄有强烈的恐惧;我如何能从虚妄中解脱?

1.211.19

अनृतान्मोक्ष्यसे भद्रे धर्मश्चैव सनातनः ।
ननु वक्ष्यामि सर्वेषां पाञ्चाल शृमु मे स्वयम् ॥ १.२११.१९ ॥

善良的女子啊,你将从虚妄中解脱,这便是永恒的法。般遮罗女啊,听我说,我自己将讲述他们所有人。

1.211.20

यथाऽयं विहितो धर्मो यतश्चायं सनातनः ।
यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः ॥ १.२११.२० ॥

此法如何被制定,它从何而来为永恒,以及贡蒂之子如何说,法便如此;此无疑问。

1.211.21

तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः ।
करे गृहीत्वा राजानं राजवेश्म समाविशत् ॥ १.२११.२१ ॥

于是尊者毗耶娑·二岛,主宰者,起身,握住国王的手,进入了王宫。

1.211.22

पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः ।
विविशुस्तेऽपि तत्रैव प्रतीक्षन्ते स्म तावुभौ ॥ १.२११.२२ ॥

般杜五子、贡蒂,以及毗沙多之子德律什塔笈摩,也都进入了那里;那二人在那里等候。

1.211.23

ततो द्वैपायनस्त्समै नरेन्द्राय महात्मने ।
आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता ॥ १.२११.२३ ॥

于是二岛向那位高贵的国王解释,按照法,多人共有一妻是如何的。

1.211.24

यथा च ते ददुश्चैव राजपुत्र्याः पुरा वरम् ।
धर्माद्यास्तपसा तुष्टाः पञ्चपत्नीत्वमीश्वराः ॥ १.२११.२४ ॥

正如往昔他们曾赐予那位公主恩惠,以苦行而欢喜的法神等主宰者,赐予她成为五位丈夫之妻的恩惠。