摩诃婆罗多 · 章 1.212
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.212.1
मा भूद्राजंस्तव तापो मनस्थः ।
पञ्चानां भार्या दुहिता ममेति।
मातुरेषा प्रार्थिता स्यात्तदानीं ।
पञ्चानां भार्या दुहिता ममेति ॥ १.२१२.१ ॥
大王啊,愿你心中不要有这样的忧愁:“五人的妻子是我的女儿。”那时,母亲曾请求说:“五人的妻子是我的女儿。”
1.212.2
याजोपयाजौ धर्मरतौ तपोभ्यां ।
तौ चक्रतुः पञ्चपतित्वमस्याः।
तत्पञ्चभिः पाण्डुसुतैरवाप्ता ।
भार्या कृष्णा मोदतां वै कुलं ते ॥ १.२१२.२ ॥
爱好法的耶阇与优婆耶阇,凭借苦行使她成为五人之妻的状态。般度的五个儿子得到了她,娶黑天公主为妻。愿你的家族真正欢喜。
1.212.3
लोके नान्यो विद्यते त्वद्विशिष्टः ।
सर्वारीणामप्रधृष्योऽसि राजन्।
भूयस्त्विदं शृणु मे त्वं विशोको ।
यथाऽऽगतं पञ्चपत्नीत्वमस्याः ॥ १.२१२.३ ॥
世上没有比你更优秀的人;大王啊,你对一切敌人都不可战胜。请再听我说,好让你免于忧愁:她是如何成为五人之妻的。
1.212.4
एषा नालायनी पूर्वं मौद्गल्यं स्थविरं पतिम् ।
आराधयामास तदा कुष्ठिनं तमनिन्दिता ॥ १.२१२.४ ॥
这位那罗耶尼从前讨好并侍奉她年迈的丈夫毛德伽利耶,他患有麻风病;这位无可指责的女子当时照料他。
1.212.5
त्वगस्थिभूतं कटुकं लोलमीर्ष्युं सुकोपनम् ।
सुगन्धेतरगन्धाढ्यं वलीपलितमूर्धजम् ॥ १.२१२.५ ॥
只剩皮包骨,口出苦言,浮躁,嫉妒,易怒;满身恶臭而非芬芳,皮肤起皱,头发花白。
1.212.6
स्थविरं विकृताकारं शीर्यमाणनखत्वचम् ।
उच्छिष्टमुपभुञ्जाना पर्युपास्ते महामुनिम् ॥ १.२१२.६ ॥
她侍奉这位年老、形貌丑陋、指甲与皮肤正在脱落的大仙,吃着他剩下的食物。
1.212.7
ततः कदाचिदङ्गुष्ठो भुञ्जानस्य व्यशीर्यत ।
अन्नादुद्धृत्य तच्चान्नमुपभुङ्क्तेऽविशङ्किता ॥ १.२१२.७ ॥
后来有一次,他正吃着饭,拇指脱落了。她把它从食物中取出,毫不犹豫地吃下了那食物。
1.212.8
तेन तस्याः प्रसन्नेन कामव्याहारिणा तदा ।
वरं वृणीष्वेत्यसकृदुक्ता वव्रे वरं तदा ॥ १.२१२.८ ॥
于是他对她心满意足,能随心所欲地说话,一再说道:“请选择一个恩惠。”于是她选择了一个恩惠。
1.212.9
नाहं वृद्धो न कटुको नेर्व्यावान्नैव कोपनः ।
न च दुर्गन्धवदनो न कृशो न च लोलुपः ॥ १.२१२.९ ॥
我不老,也不粗暴,不嫉妒,也不易怒。我的口不臭,我也不瘦,也不贪婪。
1.212.10
कथं त्वां रमयामीह कथं त्वां वासयाम्यहम् ।
वद कल्याणि भद्रं ते यथा त्वं मनसेच्छसि ॥ १.२१२.१० ॥
我该如何在这里让你快乐,如何让你安住于此?吉祥的女子啊,请说吧,愿你吉祥,照你心中所愿说吧。
1.212.11
सा तमक्लिष्टकर्माणं वरदं सर्वकामदम् ।
भर्तारमनवद्याङ्गी प्रसन्नं प्रत्युवाच ह ॥ १.२१२.११ ॥
她肢体无瑕,回答那位满心欢喜的丈夫。他行事不知疲倦,能赐予恩惠,能满足一切愿望。
1.212.12
पञ्चधा प्रविभक्तात्मा भगवांल्लोकविश्रुतः ।
रमय त्वमचिन्त्यात्मन्पुनश्चैकत्वमागतः ॥ १.२१२.१२ ॥
尊贵者啊,你的自性分为五部,名扬三界;不可思议的自性者,请重归一体,使我欢喜。
1.212.13
तां तथेत्यब्रवीद्धीमान्महर्षिर्वै महातपाः ।
स पञ्चधा तु भूत्वा तां रमयामास सर्वतः ॥ १.२१२.१३ ॥
那位智慧的大苦行仙人对她说:「就这样吧。」于是他化作五身,从四面八方使她欢喜。
1.212.14
नालायनीं सुकेशान्तां मौद्गल्यश्चारुहासिनीम् ।
आश्रमेष्वधिकं चापि पूज्यमानो महर्षिभिः ॥ १.२१२.१४ ॥
毛德伽利耶与美发、甜美微笑的那罗耶尼同在,在林间修行处备受众大仙人尊崇。
1.212.15
स चचार यथाकामं कामरूपवपुः पुनः ।
यदा ययौ दिवं चापि तत्र देवर्षिभिः सह ॥ १.२१२.१५ ॥
他随心所欲地游行,身形可随意变化。当他升上天界时,便与天神仙人一同前往。
1.212.16
चचार सोऽमृताहारः सुरलोके चचार ह ।
पूज्यमानस्तथा शच्या शक्रस्य भवनेष्वपि ॥ १.२१२.१६ ॥
以甘露为食,他在天神界中游行。舍芝夫人敬重他,在因陀罗的宫殿中他也备受尊崇。
1.212.17
महेन्द्रसेनया सार्धं पर्यधावद्रिरंसया ।
सूर्यस्य च रथं दिव्यमारुह्य भगवान्प्रभुः ॥ १.२१२.१७ ॥
他与摩亨德拉塞娜同行,因渴望欢娱而四处奔走;这位尊贵的主宰登上了太阳神的神圣战车。
1.212.18
पर्युपेत्य पुनर्मेरु मेरौ वासमरोचयत् ।
आकाशगङ्गामाप्लुत्य तया सह तपोधनः ॥ १.२१२.१८ ॥
他再次来到弥卢山,选择居住在弥卢山上。他沐浴于天河之中,这位以苦行为财富的苦修者与她一同留在那里。
1.212.19
रश्मिजालेषु चन्द्रस्य उवाच च यथाऽनिलः ।
गिरिरूपधरो योगी स महर्षिस्तदा पुनः ॥ १.२१२.१९ ॥
在月光的光网之中,如风一般,那位化作山形的瑜伽士大仙此时又开始游走。
1.212.20
तत्प्रभावेन सा तस्य मध्ये जज्ञे महानदी ।
यदा पुष्पाकुलः सालः संजज्ञे भगवानृषिः ॥ १.२१२.२० ॥
借他的威力,一条大河在两者之间涌现,那满是花朵的娑罗树化作了尊贵的仙人。
1.212.21
लतात्वमनुसंपेदे तमेवाभ्यनुवेष्टती ।
पुपोष च वपुर्यस्य तस्य तस्यानुगं पुनः ॥ १.२१२.२१ ॥
她化作藤蔓之身,缠绕着他,滋养他的身体,并再次跟随于他之后。
1.212.22
सा पुपोष समं भर्त्रा स्कन्धेनापि चचार ह ।
ततस्तस्य च तस्याश्च तुल्या प्रीतिरवर्धत ॥ १.२१२.२२ ॥
她与丈夫一同茁壮成长,甚至在他的肩上游走。于是他与她之间的爱同样地增长了。
1.212.23
तथा सा भगवांस्तस्याः प्रसादादृषिसत्तमः ।
विरराम च सा चैव दैवयोगेन भामिनी ॥ १.२१२.२३ ॥
如此,那位尊贵的、最优秀的仙人,因她的恩惠(安住于苦行之中);而那位光彩照人的女子,因天意的机缘,也在那里停止了。
1.212.24
स च तां तपसा देवीं रमयामास योगतः ।
एकपत्नी तथा भूत्वा सदैवाग्रे यशस्विनी ॥ १.२१२.२४ ॥
他以苦行和瑜伽之力使那位女神欢喜;她作为唯一的妻子,始终居于首位,成为名声显赫的人。
1.212.25
अरुन्धतीव सीतेव बभूवातिपतिव्रता ।
दमयन्त्याश्च मातुः स विशेषमधिकं ययौ ॥ १.२१२.२५ ॥
她如阿伦达蒂和悉多一样,极其忠于丈夫;而他所得的殊荣,超过了达摩衍蒂的母亲。
1.212.26
एतत्तथ्यं महाराज मा ते भूद्बुद्धिरन्यथा ।
सा वै नालायनी जज्ञे दैवयोगेन केनचित् ॥ १.२१२.२६ ॥
大王,这是真实的;愿您的心意不要另作他想。她名为那罗衍尼,乃由某种天命之缘而降生。
1.212.27
राजंस्तवात्मजा कृष्णा वेद्यां तेजस्विनी शुभा ।
तस्मिंस्तस्या मनः सक्तं न चचाल कदाचन ॥ १.२१२.२७ ॥
大王,您的女儿黑公主在祭坛上光辉而吉祥;她的心专注于他,从未动摇。
1.212.28
तथा प्रणिहितो ह्यात्मा तस्यास्तस्मिन्द्विजोत्तमे ॥ १.२१२.२८ ॥
如此,她的自我完全专注于那位最杰出的婆罗门。